ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
युक्तेः शब्दान्तराच्च ॥ १८ ॥
युक्तिस्तावद्वर्ण्यते — दधिघटरुचकाद्यर्थिभिः प्रतिनियतानि कारणानि क्षीरमृत्तिकासुवर्णादीन्युपादीयमानानि लोके दृश्यन्ते । न हि दध्यर्थिभिर्मृत्तिकोपादीयते, न घटार्थिभिः क्षीरम् । तदसत्कार्यवादे नोपपद्येत । अविशिष्टे हि प्रागुत्पत्तेः सर्वस्य सर्वत्रासत्त्वे कस्मात्क्षीरादेव दध्युत्पद्यते, न मृत्तिकायाः, मृत्तिकाया एव च घट उत्पद्यते, न क्षीरात् ? अथाविशिष्टेऽपि प्रागसत्त्वे क्षीर एव दध्नः कश्चिदतिशयो न मृत्तिकायाम् , मृत्तिकायामेव च घटस्य कश्चिदतिशयो न क्षीरे — इत्युच्येत — तर्ह्यतिशयवत्त्वात्प्रागवस्थाया असत्कार्यवादहानिः, सत्कार्यवादसिद्धिश्च । शक्तिश्च कारणस्य कार्यनियमार्था कल्प्यमाना नान्या असती वा कार्यं नियच्छेत् , असत्त्वाविशेषादन्यत्वाविशेषाच्च । तस्मात्कारणस्यात्मभूता शक्तिः, शक्तेश्चात्मभूतं कार्यम् । अपि च कार्यकारणयोर्द्रव्यगुणादीनां चाश्वमहिषवद्भेदबुद्ध्यभावात्तादात्म्यमभ्युपगन्तव्यम् । समवायकल्पनायामपि, समवायस्य समवायिभिः सम्बन्धेऽभ्युपगम्यमाने, तस्य तस्यान्योन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थाप्रसङ्गः । अनभ्युपगम्यमाने च विच्छेदप्रसङ्गः । अथ समवायः स्वयं सम्बन्धरूपत्वादनपेक्ष्यैवापरं सम्बन्धं सम्बध्येत, संयोगोऽपि तर्हि स्वयं सम्बन्धरूपत्वादनपेक्ष्यैव समवायं सम्बध्येत । तादात्म्यप्रतीतेश्च द्रव्यगुणादीनां समवायकल्पनानर्थक्यम् । कथं च कार्यमवयविद्रव्यं कारणेष्ववयवद्रव्येषु वर्तमानं वर्तेत ? किं समस्तेष्ववयवेषु वर्तेत, उत प्रत्यवयवम् ? यदि तावत्समस्तेषु वर्तेत, ततोऽवयव्यनुपलब्धिः प्रसज्येत, समस्तावयवसन्निकर्षस्याशक्यत्वात् । न हि बहुत्वं समस्तेष्वाश्रयेषु वर्तमानं व्यस्ताश्रयग्रहणेन गृह्यते । अथावयवशः समस्तेषु वर्तेत, तदाप्यारम्भकावयवव्यतिरेकेणावयविनोऽवयवाः कल्प्येरन् , यैरारम्भकेष्ववयवेष्ववयवशोऽवयवी वर्तेत । कोशावयवव्यतिरिक्तैर्ह्यवयवैरसिः कोशं व्याप्नोति । अनवस्था चैवं प्रसज्येत, तेषु तेष्ववयवेषु वर्तयितुमन्येषामन्येषामवयवानां कल्पनीयत्वात् । अथ प्रत्यवयवं वर्तेत, तदैकत्र व्यापारेऽन्यत्राव्यापारः स्यात् । न हि देवदत्तः स्रुघ्ने सन्निधीयमानस्तदहरेव पाटलिपुत्रेऽपि सन्निधीयते । युगपदनेकत्र वृत्तावनेकत्वप्रसङ्गः स्यात् , देवदत्तयज्ञदत्तयोरिव स्रुघ्नपाटलिपुत्रनिवासिनोः । गोत्वादिवत्प्रत्येकं परिसमाप्तेर्न दोष इति चेत् , न; तथा प्रतीत्यभावात् । यदि गोत्वादिवत्प्रत्येकं परिसमाप्तोऽवयवी स्यात् , यथा गोत्वं प्रतिव्यक्ति प्रत्यक्षं गृह्यते, एवमवयव्यपि प्रत्यवयवं प्रत्यक्षं गृह्येत । न चैवं नियतं गृह्यते । प्रत्येकपरिसमाप्तौ चावयविनः कार्येणाधिकारात् , तस्य चैकत्वात् , शृङ्गेणापि स्तनकार्यं कुर्यात् , उरसा च पृष्ठकार्यम् । न चैवं दृश्यते । प्रागुत्पत्तेश्च कार्यस्यासत्त्वे, उत्पत्तिरकर्तृका निरात्मिका च स्यात् । उत्पत्तिश्च नाम क्रिया, सा सकर्तृकैव भवितुमर्हति, गत्यादिवत् । क्रिया च नाम स्यात् , अकर्तृका च — इति विप्रतिषिध्येत । घटस्य चोत्पत्तिरुच्यमाना न घटकर्तृका — किं तर्हि ? अन्यकर्तृका — इति कल्प्या स्यात् । तथा कपालादीनामप्युत्पत्तिरुच्यमानान्यकर्तृकैव कल्प्येत । तथा च सति ‘घट उत्पद्यते’ इत्युक्ते, ‘कुलालादीनि कारणान्युत्पद्यन्ते’ इत्युक्तं स्यात् । न च लोके घटोत्पत्तिरित्युक्ते कुलालादीनामप्युत्पद्यमानता प्रतीयते, उत्पन्नताप्रतीतेश्च । अथ स्वकारणसत्तासम्बन्ध एवोत्पत्तिरात्मलाभश्च कार्यस्येति चेत् — कथमलब्धात्मकं सम्बध्येतेति वक्तव्यम् । सतोर्हि द्वयोः सम्बन्धः सम्भवति, न सदसतोरसतोर्वा । अभावस्य च निरुपाख्यत्वात्प्रागुत्पत्तेरिति मर्यादाकरणमनुपपन्नम् । सतां हि लोके क्षेत्रगृहादीनां मर्यादा दृष्टा नाभावस्य । न हि वन्ध्यापुत्रो राजा बभूव प्राक्पूर्णवर्मणोऽभिषेकादित्येवंजातीयकेन मर्यादाकरणेन निरुपाख्यो वन्ध्यापुत्रः राजा बभूव भवति भविष्यतीति वा विशेष्यते । यदि च वन्ध्यापुत्रोऽपि कारकव्यापारादूर्ध्वमभविष्यत् , तत इदमप्युपापत्स्यत — कार्याभावोऽपि कारकव्यापारादूर्ध्वं भविष्यतीति । वयं तु पश्यामः — वन्ध्यापुत्रस्य कार्याभावस्य चाभावत्वाविशेषात् , यथा वन्ध्यापुत्रः कारकव्यापारादूर्ध्वं न भविष्यति, एवं कार्याभावोऽपि कारकव्यापारादूर्ध्वं न भविष्यतीति । नन्वेवं सति कारकव्यापारोऽनर्थकः प्रसज्येत । यथैव हि प्राक्सिद्धत्वात्कारणस्वरूपसिद्धये न कश्चिद्व्याप्रियते, एवं प्राक्सिद्धत्वात्तदनन्यत्वाच्च कार्यस्य स्वरूपसिद्धयेऽपि न कश्चिद्व्याप्रियेत । व्याप्रियते च । अतः कारकव्यापारार्थवत्त्वाय मन्यामहे प्रागुत्पत्तेरभावः कार्यस्येति । नैष दोषः । यतः कार्याकारेण कारणं व्यवस्थापयतः कारकव्यापारस्यार्थवत्त्वमुपपद्यते । कार्याकारोऽपि कारणस्यात्मभूत एव, अनात्मभूतस्यानारभ्यत्वात् — इत्यभाणि । न च विशेषदर्शनमात्रेण वस्त्वन्यत्वं भवति । न हि देवदत्तः सङ्कोचितहस्तपादः प्रसारितहस्तपादश्च विशेषेण दृश्यमानोऽपि वस्त्वन्यत्वं गच्छति, स एवेति प्रत्यभिज्ञानात् । तथा प्रतिदिनमनेकसंस्थानानामपि पित्रादीनां न वस्त्वन्यत्वं भवति, मम पिता मम भ्राता मम पुत्र इति प्रत्यभिज्ञानात् । जन्मोच्छेदानन्तरितत्वात्तत्र युक्तम् , नान्यत्रेति चेत् , न; क्षीरादीनामपि दध्याद्याकारसंस्थानस्य प्रत्यक्षत्वात् । अदृश्यमानानामपि वटधानादीनां समानजातीयावयवान्तरोपचितानामङ्कुरादिभावेन दर्शनगोचरतापत्तौ जन्मसंज्ञा । तेषामेवावयवानामपचयवशाददर्शनापत्तावुच्छेदसंज्ञा । तत्रेदृग्जन्मोच्छेदान्तरितत्वाच्चेदसतः सत्त्वापत्तिः, सतश्चासत्त्वापत्तिः, तथा सति गर्भवासिन उत्तानशायिनश्च भेदप्रसङ्गः । तथा बाल्ययौवनस्थाविरेष्वपि भेदप्रसङ्गः, पित्रादिव्यवहारलोपप्रसङ्गश्च । एतेन क्षणभङ्गवादः प्रतिवदितव्यः । यस्य पुनः प्रागुत्पत्तेरसत्कार्यम् , तस्य निर्विषयः कारकव्यापारः स्यात् , अभावस्य विषयत्वानुपपत्तेः — आकाशहननप्रयोजनखड्गाद्यनेकायुधप्रयुक्तिवत् । समवायिकारणविषयः कारकव्यापारः स्यादिति चेत् , न; अन्यविषयेण कारकव्यापारेणान्यनिष्पत्तेरतिप्रसङ्गात् । समवायिकारणस्यैवात्मातिशयः कार्यमिति चेत् , न; सत्कार्यतापत्तेः । तस्मात्क्षीरादीन्येव द्रव्याणि दध्यादिभावेनावतिष्ठमानानि कार्याख्यां लभन्त इति न कारणादन्यत्कार्यं वर्षशतेनापि शक्यं निश्चेतुम् । तथा मूलकारणमेव आ अन्त्यात्कार्यात् तेन तेन कार्याकारेण नटवत्सर्वव्यवहारास्पदत्वं प्रतिपद्यते । एवं युक्तेः, कार्यस्य प्रागुत्पत्तेः सत्त्वम् , अनन्यत्वं च कारणात् , अवगम्यते ॥
युक्तिरिति ; नेत्यादिना ; तदिति ; अविशिष्टे हीति ; अथेति ; अत इति ; शक्तिश्चेति ; असत्त्वेति ; तस्मादिति ; अपिचेति ; समवायेति ; अनभ्युगम्यमाने चेति ; अथेति ; संयोगोऽपीति ; तादात्म्येति ; कथं चेति ; किमिति ; यदीत्यादिना ; समस्तेति ; नहीति ; अथेति ; तदापीति ; कोशेति ; अनवस्थेति ; अथेति ; तदेति ; नहीति ; युगपदिति ; गोत्वादिवदिति ; न तथेति ; यदीति ; प्रत्येकेति ; कार्येणेति ; प्रागिति ; निरात्मिकेति ; उत्पत्तिश्चेति ; क्रिया चेति ; घटस्येति ; तथेति ; तथाचेति ; नचेति ; अथेति ; आत्मलाभश्चेति ; कथमिति ; सतोर्हीति ; अभावस्येति ; सतां हीति ; नहीति ; यदि चेति ; वयं त्विति ; नन्विति ; यथेति ; तदनन्यत्वाच्चेति ; व्याप्रियते चेति ; अत इति ; नैष दोष इति ; कार्याकारोऽपीति ; नचेति ; नहीति ; स एवेति ; तथेति ; जन्मेति ; नेत्यादिना ; अदृश्यमानानामिति ; तत्रेति ; तथेति ; पित्रादीति ; एतेनेति ; यस्येति ; अभावस्येति ; समवायीति ; नेत्यादिना ; समवायीति ; तस्मादिति ; तथेति ; एवमिति ;

कासौ युक्तिरित्यपेक्षायां युक्तिं प्रकटयन्नसदुत्पत्तिं तावत्प्रत्याह -

युक्तिरिति ।

प्रतिनियममेव प्रकटयति -

नेत्यादिना ।

कार्यार्थिनां प्रतिनियतकारणोपादानानुपपत्त्या कार्यस्य तत्र सत्त्वं सिद्धयतीत्यर्थापत्तिमाह -

तदिति ।

नन्वपेक्ष्यमाणघटादिजनकत्वान्मृदादिरेवोपादानं न तु मृदादौ घटादेः सत्त्वादित्यन्यथोपपत्तिरर्थापत्तेरिति, तत्राह -

अविशिष्टे हीति ।

नियामकाभावादसज्जननासम्भवान्नान्यथोपपत्तिरित्यर्थः ।

नियामकमतिशयमाशङ्कते -

अथेति ।

अतिशयो हि कार्यस्य कारणस्य वेति विकल्प्याद्ये धर्मस्य धर्मिपरतन्त्रत्वादपसिद्धान्तापत्तिरित्याह -

अत इति ।

सार्वविभक्तिकत्वात्तसिः सप्तम्यर्थे शङ्कितपक्षवाची । प्रागवस्था दध्यादिकार्यावस्था ।

द्वितीयं दूषयति -

शक्तिश्चेति ।

कारणस्य हि धर्मः । शक्तिरतिशयशब्दिता नियामकत्वेनेष्टा कार्यकारणाभ्यामन्या कार्यात्मना चासती कार्यं न नियच्छेदिति । अत्र हेतुमाह -

असत्त्वेति ।

कार्यात्मना शक्तेरसत्त्वे तथैवानियामकत्वमसत्त्वस्योभयत्र तुल्यत्वात् । द्वाभ्यामन्यत्वे च तस्या न नियामकत्वं, तयोरिवान्योन्यं शक्तेस्ताभ्यामन्यत्वस्येष्टत्वादित्यर्थः ।

शक्तेरसत्त्वेऽन्यत्वे च नियामकत्वासम्भवे फलितमाह -

तस्मादिति ।

तथाचापसिद्धान्ततादवस्थ्यमिति शेषः ।

असत्कार्यवादे दोषान्तरमाह -

अपिचेति ।

भेदबुद्ध्यभावे समवायो निमित्तं न तु तादात्म्यमित्याशङ्क्य समवायस्तर्हि परतन्त्रः स्वतन्त्रो वेति विकल्प्याद्ये सम्बन्धद्वारा स्वभावाद्वा पारतन्त्र्यमिति पुनर्विकल्प्याद्यं प्रत्याह -

समवायेति ।

समवायस्य स्वातन्त्र्यपक्षं दूषयति -

अनभ्युगम्यमाने चेति ।

समवायस्य समवायिभिः सम्बन्धो नेष्यते किन्तु स्वातन्त्र्यमेवेत्यत्रावयवावयविनोर्द्रव्यगुणादीनां च विप्रकर्षः स्यात्संनिधापकाभावादित्यर्थः ।

स्वभावादेव समवायस्य पारतन्त्र्यमिति पक्षमुत्थापयति -

अथेति ।

स्वपरनिर्वाहकत्वं संयोगस्यापि स्यादविशेषादिति परिहरति -

संयोगोऽपीति ।

तर्कपादे चैतद्व्यक्तीभविष्यति ।

द्रव्यगुणादिषु समवायकल्पनामङ्गीकृत्य दोषमुक्त्वा तत्कल्पनैवायुक्तेत्याह -

तादात्म्येति ।

सिद्धे हि भेदे द्रव्यगुणादीनां समवायसिद्धिः समवायसिद्धौ च भेदसिद्धिरित्यत्रान्योन्याश्रयता । नहि सामानाधिकरण्येन तादात्म्ये तेषां भाति स्वारसिको भेदः सिध्यतीति भावः ।

असत्कार्यवादनिरासेन कार्यस्य कारणे कल्पितत्वमुक्तम् । इदानीं कार्यस्य कारणे वृत्त्यनुपपत्तेश्च कल्पितत्वमित्याह -

कथं चेति ।

कथंशब्दसूचितं विकल्पद्वयं विशदयति -

किमिति ।

तत्राद्यमनूद्यावयविनः स्वरूपेण वावयवेषु वृत्तिरवयवशो वेति विकल्प्याद्ये दोषमाह -

यदीत्यादिना ।

तत्र हेतुमाह -

समस्तेति ।

मध्यपरभागयोरर्वाग्भागव्यवहितत्वादित्यर्थः ।

सर्वावयवव्याप्तावपि कतिपयावयवसंनिकर्षादवयविनो दृष्टिरिष्टेत्याशङ्क्याह -

नहीति ।

कल्पान्तरमुत्थापयति -

अथेति ।

तथाच यथावयवैः सूत्रं कुसुमानि व्याप्नुवत्कतिपयकुसुमग्रहणेऽपि गृह्यते तथा कतिपयावयवग्रहणेऽपि भवत्यवयविनो ग्रहणमित्यर्थः ।

तत्र किमारम्भकावयवैरेव तेष्ववयवी वर्तते किंवा तदतिरिक्तावयवैरिति विकल्प्याद्यं प्रत्याह -

तदापीति ।

यत्र यद्वर्तते तत्तदरिक्तावयवैरेव तत्र वर्तमानं दृष्टमिति दृष्टान्तगर्भं हेतुमाचष्टे -

कोशेति ।

द्वितीयं दूषयति -

अनवस्थेति ।

कल्पितानन्तावयवव्यवहिततया प्रकृतावयविनो दूरविप्रकर्षात्तन्तुनिष्ठत्वं पटस्य न स्यादिति भावः ।

कल्पान्तरमनुवदति -

अथेति ।

तत्रापि क्रमेण वा प्रत्यवयवं वर्तेताक्रमेण वेति विकल्प्याद्ये दोषमाह -

तदेति ।

तदेव दृष्टान्तेनोपपादयति -

नहीति

द्वितीयं निराचष्टे -

युगपदिति ।

यथा प्रतिव्यक्ति साकल्येन युगपद्वर्तमानं सामान्यं न भिद्यते तथावयविनोऽपि वस्तुतो न भेदोऽस्तीति शङ्कते -

गोत्वादिवदिति ।

वैषम्यं दर्शयन्दूषयति -

न तथेति ।

तदेव स्पष्टयति -

यदीति ।

प्रत्येकमवयवेष्ववयविनः परिसमाप्तिपक्षे दोषान्तरमाह -

प्रत्येकेति ।

यद्धि गोत्वस्य शाबलेये कार्यं न तद्बाहुलेेयेऽस्ति तथेहापि स्यादित्याशङ्क्याह -

कार्येणेति ।

न हि गोत्वस्य कार्यान्वयः किन्तु व्यक्तेरेव । प्रकृते त्ववयवानां तदनन्वयादवयविनस्तद्भावात्तस्य सर्वत्रैक्यादर्थक्रियाव्यवस्थानुपपत्तिः । न च तत्तदवयवनिष्ठस्यैवावयविनस्तत्कार्यमवयवानां कार्यानन्वये सत्युक्तनियमायोगात्प्रतीत्या तन्नियमे युक्त्यभिमानित्वव्याघातादिति भावः ।

वृत्तिविकल्पानुपपत्त्या कार्यस्य कारणे कल्पितत्वं प्रसाध्यासत्कार्यवादे दोषान्तरमाह -

प्रागिति ।

भवत्वकर्तृकत्वमित्याशङ्क्याश्रयरूपकारणाभावादुत्पत्तिक्रियाख्यं कार्यमनुत्पन्नं निरात्मकं स्यादित्याह -

निरात्मिकेति ।

इतश्चोत्पत्तेरकर्तृकत्वमयुक्तमित्यनुमानेन दर्शयति -

उत्पत्तिश्चेति ।

क्रियात्वेऽपि सकर्तृकत्वाभावे किं बाधकमित्याशङ्क्याह -

क्रिया चेति ।

अस्तु तर्हि कारणाश्रयोत्पत्तिस्तथाच सिद्धसाध्यतेत्याशङ्क्याह -

घटस्येति ।

घटोत्पत्तावुक्तन्यायं कपालोत्पत्तावतिदिशति -

तथेति ।

इष्टापत्तिमाशङ्क्य निराचष्टे -

तथाचेति ।

उत्पादना हि कारकव्यापारो नोत्पत्तिः । नच तयोरैक्यं, प्रयोज्यप्रयोजकव्यापारतया भिन्नत्वात् । अन्यथा घटमुत्पादयतीतिवद्धटमुत्पद्यत इति स्यादिति भावः ।

ननु घटो जायत इत्यत्र घटशब्दो घटजननोन्मुखेषु कारकेषु तादात्म्यनिमित्तोपचारात्प्रयुज्यते, तथाच घटोत्पत्त्युक्तौ कुलालादिकारकोत्पत्त्युक्तिरविरुद्धेति, तत्राह -

नचेति ।

सिद्धसाध्यत्वाभावेऽपि क्रियात्वहेतोरसिद्धिरिति शङ्कते -

अथेति ।

स्वकारणसत्तासम्बन्धः । स्वकारणसमवायः सत्तासमवायो वेति यावत् ।

कार्यस्य क्रियारूपोत्पत्त्यनभ्युपगमे कथमात्मलाभः स्यादित्याशङ्क्याह -

आत्मलाभश्चेति ।

क्रियात्वाभावमङ्गीकृत्योत्पत्तेः साश्रयत्वं साधयति -

कथमिति ।

आक्षेपमेव विवृणोति -

सतोर्हीति ।

असतोर्वेति दृष्टान्तोक्तिः । उत्पत्तिः साश्रया, सम्बन्धत्वात् , संयोगवदित्यक्रियात्वेऽपि शक्यं साश्रयत्वं प्रतिपादयितुमिति भावः ।

कार्यस्यासतोऽपि तदाश्रयत्वोपपत्तेः सिद्धसाध्यतेत्याशङ्क्य निरुपाख्यत्वं तद्विलक्षणत्वं वा कार्यस्य विवक्षितमिति विकल्प्याद्ये मर्यादाकरणानुपपत्तिरित्याह -

अभावस्येति ।

कार्यशब्दितस्येति शेषः ।

अनुपपत्तिमेव स्फोरयति -

सतां हीति ।

अभावस्य मर्यादा न दृष्टेत्यत्र दृष्टान्तमाह -

नहीति ।

कार्यस्य कारकव्यापारसाध्यतया निरुपाख्यवैलक्षण्यान्न वन्ध्यापुत्रतुल्यतेति द्वितीयमाशङ्क्याह -

यदि चेति ।

घटप्रागभावस्य घटेन प्रतियोगिनोपाख्येयतया कारकव्यापारसाध्यत्वं युक्तं, वन्ध्यापुत्रस्य तु नैवमित्याशङ्क्याह -

वयं त्विति ।

विमतं न कारकव्यापारवत् , असत्त्वात् , संमतवदिति भावः ।

कार्यस्यासत्त्वं निरस्यता सत्त्वमेव साधितमिति मन्वानश्चोदयति –

नन्विति ।

कारकव्यापारो हि सत्कार्यवादे कार्यस्वरूपसिद्धये वा ।

नाद्य इत्याह -

यथेति ।

द्वितीयं प्रत्याह -

तदनन्यत्वाच्चेति ।

कार्यस्य कारणेनाभिन्नत्वस्य सत्कार्यवादे सदा भावान्न तादर्थ्येनापि कारकव्यापारोऽर्थवानित्यर्थः ।

मा तर्हि कारकव्यापारो भूदित्याशङ्क्याह -

व्याप्रियते चेति ।

परमते कारकव्यापारस्यानर्थक्यात्तदर्थवत्त्वानुपपत्तिरसत्त्वं कार्यस्य प्राक्काले साधयतीति फलितमाह -

अत इति ।

मायाविनो व्याघ्राद्याकारतापत्तौ मन्त्राद्यपेक्षावत्कारणस्यापि कार्याकारापत्तौ कारकव्यापारापेक्षास्तीति समाधत्ते -

नैष दोष इति ।

ननु प्रागपि कार्याकारोऽस्ति न वा । प्रथमे कारकव्यापारवैयर्थ्यम् । चरमे त्वसदुत्पत्तिः । तत्राह -

कार्याकारोऽपीति ।

रज्जुरिव भुजङ्गस्य कारणमेव कार्यस्य तत्त्वमतोऽनिर्वाच्यं कार्यरूपं भिन्नमिव चाभिन्नमिव च भाति । असत्कार्यवादस्य प्रागुक्तन्यायप्रत्युदस्तत्वादित्यर्थः ।

विवर्तवादेन परिहारमुक्त्वा परिणामवादेनापि परिहरति -

नचेति ।

वस्त्वन्यत्वं परमार्थतो भिन्नत्वमिति यावत् ।

तदेव दृष्टान्तेन स्पष्टयति -

नहीति ।

देवदत्ते विशेषदृष्टिमात्रेण वस्तुतोऽन्यत्वाभावे हेतुमाह -

स एवेति ।

उक्तार्थमुदाहरणान्तरेण द्रढयति -

तथेति ।

दृष्टान्ते जन्मोच्छेदव्यवधानाभावान्न वस्त्वन्यत्वमिति युक्तं, दार्ष्टान्तिके तु वस्त्वन्यत्वमेव जन्मोच्छेदरूपविरुद्धधर्माध्यासादिति शङ्कते -

जन्मेति ।

हेत्वसिद्ध्या परिहरति -

नेत्यादिना ।

क्षीरस्य मृदः सुवर्णादीनां च दधिघटरुचकादिभावस्याध्यक्षत्वात्संस्थाननाशेऽपि तदन्वयिन एवोपादानत्वाद्धेत्वसिद्धिरित्यर्थः ।

यत्रान्वयो दृश्यते तत्र हेत्वसिद्धावपि यत्र वटबीजादीनामङ्कुरादावन्वयो न दृश्यते जन्मविनाशव्यवधानात्तत्र वस्त्वन्यत्वमित्याशङ्क्याह -

अदृश्यमानानामिति ।

तत्राप्यन्वयिनामवयवानां न स्त एव जन्मविनाशौ किं त्ववयवोपचयापचयनिमित्तस्तद्व्यवहार इति नास्ति वस्त्वन्यत्वमित्यर्थः ।

यथोक्तजन्मविनाशोपगमेनापि वस्त्वन्यत्वमनुमेयमित्याशङ्क्यानैकान्तिकत्वमाह -

तत्रेति ।

बीजाङ्कुरादाविति यावत् ।

व्यभिचारान्तरमाह -

तथेति ।

अतिप्रसङ्गाच्च भेदानुमानमयुक्तमित्याह -

पित्रादीति ।

अन्वयिकारणस्य प्रत्यभिज्ञायमानतया नित्यत्वसाधनेन क्षणभङ्गवादोऽपि प्रत्युक्तो वेदितव्य इति प्रसङ्गादतिदिशति -

एतेनेति ।

स्वपक्षे दोषं परिहृत्य परपक्षे तं प्रसञ्जयति -

यस्येति ।

तन्मते कारकव्यापारस्य कार्यप्रागभावो वा तत्समवायिकारणं वा विषयः । नाद्य इत्याह -

अभावस्येति ।

द्वितीयं शङ्कते -

समवायीति ।

कार्यं समवायिकारणाद्भिन्नमभिन्नं वेति विकल्प्याद्यं निरस्यति -

नेत्यादिना ।

द्वितीयं शङ्कित्वा दूषयति -

समवायीति ।

असत्कार्यवादनिरसनफलमुपसंहरति -

तस्मादिति ।

कार्यस्य कारणादभेदे कारकव्यापारस्य सविषयत्वं नान्यथेति तच्छब्दार्थः ।

कथं तर्हि प्रतिकार्यं क्षीरादिकारणभेदात्कारणत्वं ब्रह्मणः सिध्यतीत्याशङ्क्याह -

तथेति ।

कारणान्नान्यत्कार्यमिति स्थिते सतीत्यर्थः । विवर्तवादं व्यक्तीकर्तुं नटवदित्युदाहरणम् ।

युक्तेरिति सूत्रावयवव्याख्यानमुपसंहरति -

एवमिति ।