सूत्रावयवान्तरमुपादत्ते -
शब्दान्तराच्चेति ।
युक्तेरिव शब्दादपि कार्यस्य सत्त्वमनन्यत्वं च सिध्यतीति वक्तव्ये कथमन्तरपदमन्तराले प्रयुज्यते, तत्राह -
पूर्वसूत्र इति ।
प्रकारान्तरेण शब्दान्तरं विभजते -
तद्धैक इति ।
कारणस्येत्थं सत्त्वेऽपि कथं कार्यस्य सत्त्वसिद्धिरित्याशङ्क्याह -
तत्रेति ।
उक्ता श्रुतिः सप्तम्यर्थः ।
प्रतिज्ञानुपपत्तेश्च न सत्कार्यवादानुपपत्तिरिति चकारसूचितामुपपत्तिमाह -
यदि त्विति ।
कथं तर्हि प्रतिज्ञोपपद्यते, तत्राह -
सत्त्वेति ॥ १८ ॥