ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
युक्तेः शब्दान्तराच्च ॥ १८ ॥
शब्दान्तराच्चैतदवगम्यतेपूर्वसूत्रेऽसद्व्यपदेशिनः शब्दस्योदाहृतत्वात्ततोऽन्यः सद्व्यपदेशी शब्दः शब्दान्तरम्सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इत्यादि । ‘तद्धैक आहुरसदेवेदमग्र आसीत्इति चासत्पक्षमुपक्षिप्य, ‘कथमसतः सज्जायेतइत्याक्षिप्य, ‘सदेव सोम्येदमग्र आसीत्इत्यवधारयतितत्रेदंशब्दवाच्यस्य कार्यस्य प्रागुत्पत्तेः सच्छब्दवाच्येन कारणेन सामानाधिकरण्यस्य श्रूयमाणत्वात् , सत्त्वानन्यत्वे प्रसिध्यतःयदि तु प्रागुत्पत्तेरसत्कार्यं स्यात् , पश्चाच्चोत्पद्यमानं कारणे समवेयात् , तदान्यत्कारणात्स्यात् , तत्र येनाश्रुतꣳ श्रुतं भवति’ (छा. उ. ६ । १ । ३) इतीयं प्रतिज्ञा पीड्येतसत्त्वानन्यत्वावगतेस्त्वियं प्रतिज्ञा समर्थ्यते ॥ १८ ॥

सूत्रावयवान्तरमुपादत्ते -

शब्दान्तराच्चेति ।

युक्तेरिव शब्दादपि कार्यस्य सत्त्वमनन्यत्वं च सिध्यतीति वक्तव्ये कथमन्तरपदमन्तराले प्रयुज्यते, तत्राह -

पूर्वसूत्र इति ।

प्रकारान्तरेण शब्दान्तरं विभजते -

तद्धैक इति ।

कारणस्येत्थं सत्त्वेऽपि कथं कार्यस्य सत्त्वसिद्धिरित्याशङ्क्याह -

तत्रेति ।

उक्ता श्रुतिः सप्तम्यर्थः ।

प्रतिज्ञानुपपत्तेश्च न सत्कार्यवादानुपपत्तिरिति चकारसूचितामुपपत्तिमाह -

यदि त्विति ।

कथं तर्हि प्रतिज्ञोपपद्यते, तत्राह -

सत्त्वेति ॥ १८ ॥