ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
पटवच्च ॥ १९ ॥
यथा च संवेष्टितः पटो न व्यक्तं गृह्यते — किमयं पटः, किं वान्यद्द्रव्यमिति । स एव प्रसारितः, यत्संवेष्टितं द्रव्यं तत्पट एवेति प्रसारणेनाभिव्यक्तो गृह्यते । यथा च संवेष्टनसमये पट इति गृह्यमाणोऽपि न विशिष्टायामविस्तारो गृह्यते । स एव प्रसारणसमये विशिष्टायामविस्तारो गृह्यते — न संवेष्टितरूपादन्योऽयं भिन्नः पट इति, एवं तन्त्वादिकारणावस्थं पटादिकार्यमस्पष्टं सत् , तुरीवेमकुविन्दादिकारकव्यापारादभिव्यक्तं स्पष्टं गृह्यते । अतः संवेष्टितप्रसारितपटन्यायेनैवानन्यत्कारणात्कार्यमित्यर्थः ॥ १९ ॥

सूत्रं व्याचष्टे -

यथा चेति ।

व्याख्यानान्तरमाह -

यथा चेत्यादिना ।

दृष्टान्तनिविष्टमर्थं दार्ष्टान्तिके योजयति -

एवमिति ।

तथापि किमायातं जगद्ब्रह्मणोरित्याशङ्क्याह -

अत इति ।

प्रागुक्तहेतोः सव्यभिचारत्वेन दुष्टत्वादिति यावत् ॥ १९ ॥