मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
यथा च प्राणादि ॥ २० ॥
यथा
च
लोके
प्राणापानादिषु
प्राणभेदेषु
प्राणायामेन
निरुद्धेषु
कारणमात्रेण
रूपेण
वर्तमानेषु
जीवनमात्रं
कार्यं
निर्वर्त्यते
,
नाकुञ्चनप्रसारणादिकं
कार्यान्तरम्
।
तेष्वेव
प्राणभेदेषु
पुनः
प्रवृत्तेषु
जीवनादधिकमाकुञ्चनप्रसारणादिकमपि
कार्यान्तरं
निर्वर्त्यते
।
न
च
प्राणभेदानां
प्रभेदवतः
प्राणादन्यत्वम्
,
समीरणस्वभावाविशेषात्
—
एवं
कार्यस्य
कारणादनन्यत्वम्
।
अतश्च
कृत्स्नस्य
जगतो
ब्रह्मकार्यत्वात्तदनन्यत्वाच्च
सिद्धैषा
श्रौती
प्रतिज्ञा
—
‘
येनाश्रुतꣳ
श्रुतं
भवत्यमतं
मतमविज्ञातं
विज्ञातम्
’ (छा. उ. ६ । १ । ३)
इति
॥ २० ॥
यथा चेति
;
कार्यमुपादानाद्भिन्नं, भिन्नकार्यकरत्वात् , संमतवदित्याशङ्क्य व्यभिचारमाह -
यथा चेति ।