ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
यथा च प्राणादि ॥ २० ॥
यथा लोके प्राणापानादिषु प्राणभेदेषु प्राणायामेन निरुद्धेषु कारणमात्रेण रूपेण वर्तमानेषु जीवनमात्रं कार्यं निर्वर्त्यते, नाकुञ्चनप्रसारणादिकं कार्यान्तरम्तेष्वेव प्राणभेदेषु पुनः प्रवृत्तेषु जीवनादधिकमाकुञ्चनप्रसारणादिकमपि कार्यान्तरं निर्वर्त्यते प्राणभेदानां प्रभेदवतः प्राणादन्यत्वम् , समीरणस्वभावाविशेषात्एवं कार्यस्य कारणादनन्यत्वम्अतश्च कृत्स्नस्य जगतो ब्रह्मकार्यत्वात्तदनन्यत्वाच्च सिद्धैषा श्रौती प्रतिज्ञायेनाश्रुतꣳ श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम्’ (छा. उ. ६ । १ । ३) इति ॥ २० ॥

कार्यमुपादानाद्भिन्नं, भिन्नकार्यकरत्वात् , संमतवदित्याशङ्क्य व्यभिचारमाह -

यथा चेति ।