जीवाभिन्नं ब्रह्म जगदुपादानं वदन्समन्वयो विषयः । स किं यदि तादृग्ब्रह्म जगज्जनयेत्तर्हि स्वानिष्टं न जनयेदिति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वपक्षसूत्रतात्पर्यमाह -
अन्यथेति ।
समन्वयस्य न्यायविरोधसमाधानात्पादादिसङ्गतीरभिप्रेत्य फलं च पूर्ववत्पूर्वोत्तरपक्षयोर्विवक्षित्वाक्षेपं विवृण्वन्प्रतिज्ञाभागं विभजते -
चेतनाद्धीति ।
यस्य ब्रह्मणः स्रष्टृत्वं न तस्य हितादिसम्बन्धः, यस्य च जीवस्य हितादिसम्बन्धो न तस्य स्रष्टृत्वमित्याक्षिपति -
कुत इति ।
सूत्रावयवेन परिहरति -
इतरेति ।
इतरशब्दो जीवविषय इति व्याख्याय परमात्मविषय इति व्याख्यान्तरमाह -
इतरस्य चेति ।
परिणामिब्रह्मणोऽनुप्रवेशपक्षं प्रतिक्षिपति -
अविकृतस्येति ।
ब्रह्मकर्तृको व्यपदेश इतरव्यपदेश इति व्याख्यानान्तरमाह -
अनेनेति ।
जीवब्रह्मणोरभेदे श्रुतिसिद्धे फलितमाह -
तस्मादिति ।
भृत्यो राजादिना नियुक्तः स्वयमेव स्वस्यानर्थं कुर्वन्दृश्यते ततो विशिनष्टि -
स्वतन्त्र इति ।
स्वतन्त्रस्याप्यज्ञस्य स्वानर्थकारित्वं सम्भवति । ब्रह्मणस्तु सर्वज्ञस्य नैवमिति भावः ।
हितमेव विभजते -
आत्मन इति ।
अहितं विशिनष्टि -
जन्मेति ।
जीवस्योपाध्यविवेकात्परमात्माभेदमपश्यतो युक्तमनर्थकारित्वमित्याशङ्क्य तस्य परमात्मताननुभवेऽपि परमात्मा जीवमात्माभिन्नमनुभवन्न तं बध्नीयादित्याह -
नहीति ।
मिथ्याज्ञानमुक्त्वा तात्त्विकोऽनुप्रवेशोऽपि नास्तीत्याशङ्क्यातात्त्विकोऽपि न स्यादित्याह -
नचेति ।
लीलया परस्यात्मनो जगत्कर्तृत्वमित्याशङ्क्याह -
कृतमपीति ।
स्मर्तृत्वमपि प्रसज्येत सर्वज्ञत्वादित्याह -
स्मरेच्चेति ।
अनुभूते स्मृतिनियमाभावान्मैवमित्याशङ्क्य स्पष्टत्वेन स्मृतियोग्यमेतदतित्याह -
सर्वो हीति ।
न चेश्वरस्यास्त्येव स्मर्तृत्वं जीवेऽपि तदभिन्ने तत्प्रसङ्गादिति भावः ।
जगतो मायामयत्वादुक्तदोषानवकाशात्तत्परिहारार्थमधिकरणमनारभ्यमित्याशङ्क्याह -
यथा चेति ।
शारीरस्यापि क्वचिदुपसंहर्तृत्वं दृष्टमित्यनिष्टापत्तिराहित्यमाशङ्क्याह -
स्वमपीति ।
बुद्धिपूर्वकारी हितमेवात्मनः सृजतीति न्यायविरोधाज्जीवाभिन्नाद्ब्रह्मणो विश्वसृष्टिवादिनः समन्वयस्यासिद्धिरित्युपसंहरति -
एवमिति ।
ब्रह्मानिष्टस्य कार्यप्रपञ्चस्य न कारणं, चेतनत्वे सति स्वतन्त्रत्वात् , विवक्षितपुरुषवदिति भावः ॥ २१ ॥