ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
इतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिः ॥ २१ ॥
अन्यथा पुनश्चेतनकारणवाद आक्षिप्यते — चेतनाद्धि जगत्प्रक्रियायामाश्रीयमाणायां हिताकरणादयो दोषाः प्रसज्यन्ते । कुतः ? इतरव्यपदेशात् । इतरस्य शारीरस्य ब्रह्मात्मत्वं व्यपदिशति श्रुतिः — ‘स आत्मा तत्त्वमसि श्वेतकेतो’ (छा. उ. ६ । ८ । ७) इति प्रतिबोधनात् । यद्वा — इतरस्य च ब्रह्मणः शारीरात्मत्वं व्यपदिशति — ‘तत्सृष्ट्वा तदेवानुप्राविशत्’ (तै. उ. २ । ६ । १) इति स्रष्टुरेवाविकृतस्य ब्रह्मणः कार्यानुप्रवेशेन शारीरात्मत्वदर्शनात्; ‘अनेन जीवेनात्मनानुप्रविश्य नामरूपे व्याकरवाणि’ (छा. उ. ६ । ३ । २) इति च परा देवता जीवमात्मशब्देन व्यपदिशन्ती, न ब्रह्मणो भिन्नः शारीर इति दर्शयति । तस्माद्यद्ब्रह्मणः स्रष्टृत्वं तच्छारीरस्यैवेति । अतस्सः स्वतन्त्रः कर्ता सन् हितमेवात्मनः सौमनस्यकरं कुर्यात् , नाहितं जन्ममरणजरारोगाद्यनेकानर्थजालम् । न हि कश्चिदपरतन्त्रो बन्धनागारमात्मनः कृत्वानुप्रविशति । न च स्वयमत्यन्तनिर्मलः सन् अत्यन्तमलिनं देहमात्मत्वेनोपेयात् । कृतमपि कथञ्चिद्यद्दुःखकरं तदिच्छया जह्यात् । सुखकरं चोपाददीत । स्मरेच्च — मयेदं जगद्बिम्बं विचित्रं विरचितमिति । सर्वो हि लोकः स्पष्टं कार्यं कृत्वा स्मरति — मयेदं कृतमिति । यथा च मायावी स्वयं प्रसारितां मायामिच्छया अनायासेनैवोपसंहरति, एवं शारीरोऽपीमां सृष्टिमुपसंहरेत् । स्वकीयमपि तावच्छरीरं शारीरो न शक्नोत्यनायासेनोपसंहर्तुम् । एवं हितक्रियाद्यदर्शनादन्याय्या चेतनाज्जगत्प्रक्रियेति गम्यते ॥ २१ ॥

जीवाभिन्नं ब्रह्म जगदुपादानं वदन्समन्वयो विषयः । स किं यदि तादृग्ब्रह्म जगज्जनयेत्तर्हि स्वानिष्टं न जनयेदिति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वपक्षसूत्रतात्पर्यमाह -

अन्यथेति ।

समन्वयस्य न्यायविरोधसमाधानात्पादादिसङ्गतीरभिप्रेत्य फलं च पूर्ववत्पूर्वोत्तरपक्षयोर्विवक्षित्वाक्षेपं विवृण्वन्प्रतिज्ञाभागं विभजते -

चेतनाद्धीति ।

यस्य ब्रह्मणः स्रष्टृत्वं न तस्य हितादिसम्बन्धः, यस्य च जीवस्य हितादिसम्बन्धो न तस्य स्रष्टृत्वमित्याक्षिपति -

कुत इति ।

सूत्रावयवेन परिहरति -

इतरेति ।

इतरशब्दो जीवविषय इति व्याख्याय परमात्मविषय इति व्याख्यान्तरमाह -

इतरस्य चेति ।

परिणामिब्रह्मणोऽनुप्रवेशपक्षं प्रतिक्षिपति -

अविकृतस्येति ।

ब्रह्मकर्तृको व्यपदेश इतरव्यपदेश इति व्याख्यानान्तरमाह -

अनेनेति ।

जीवब्रह्मणोरभेदे श्रुतिसिद्धे फलितमाह -

तस्मादिति ।

भृत्यो राजादिना नियुक्तः स्वयमेव स्वस्यानर्थं कुर्वन्दृश्यते ततो विशिनष्टि -

स्वतन्त्र इति ।

स्वतन्त्रस्याप्यज्ञस्य स्वानर्थकारित्वं सम्भवति । ब्रह्मणस्तु सर्वज्ञस्य नैवमिति भावः ।

हितमेव विभजते -

आत्मन इति ।

अहितं विशिनष्टि -

जन्मेति ।

जीवस्योपाध्यविवेकात्परमात्माभेदमपश्यतो युक्तमनर्थकारित्वमित्याशङ्क्य तस्य परमात्मताननुभवेऽपि परमात्मा जीवमात्माभिन्नमनुभवन्न तं बध्नीयादित्याह -

नहीति ।

मिथ्याज्ञानमुक्त्वा तात्त्विकोऽनुप्रवेशोऽपि नास्तीत्याशङ्क्यातात्त्विकोऽपि न स्यादित्याह -

नचेति ।

लीलया परस्यात्मनो जगत्कर्तृत्वमित्याशङ्क्याह -

कृतमपीति ।

स्मर्तृत्वमपि प्रसज्येत सर्वज्ञत्वादित्याह -

स्मरेच्चेति ।

अनुभूते स्मृतिनियमाभावान्मैवमित्याशङ्क्य स्पष्टत्वेन स्मृतियोग्यमेतदतित्याह -

सर्वो हीति ।

न चेश्वरस्यास्त्येव स्मर्तृत्वं जीवेऽपि तदभिन्ने तत्प्रसङ्गादिति भावः ।

जगतो मायामयत्वादुक्तदोषानवकाशात्तत्परिहारार्थमधिकरणमनारभ्यमित्याशङ्क्याह -

यथा चेति ।

शारीरस्यापि क्वचिदुपसंहर्तृत्वं दृष्टमित्यनिष्टापत्तिराहित्यमाशङ्‌क्याह -

स्वमपीति ।

बुद्धिपूर्वकारी हितमेवात्मनः सृजतीति न्यायविरोधाज्जीवाभिन्नाद्ब्रह्मणो विश्वसृष्टिवादिनः समन्वयस्यासिद्धिरित्युपसंहरति -

एवमिति ।

ब्रह्मानिष्टस्य कार्यप्रपञ्चस्य न कारणं, चेतनत्वे सति स्वतन्त्रत्वात् , विवक्षितपुरुषवदिति भावः ॥ २१ ॥