तत्र स्वरूपवैचित्र्यपरमश्मदृष्टान्तं व्याचष्टे -
यथा चेति ।
धर्मवैचित्र्यदृष्टान्तमाह -
यथा चैकेति ।
अर्थक्रियावैचित्र्यमुदाहरति -
यथा चैकस्येति ।
दृष्टान्तत्रयस्य दार्ष्टन्तिकं दर्शयति -
एवमिति ।
ब्रह्मणश्चेतनत्वात्तत्कार्यत्वे जगतोऽपि तथात्वं स्यात्तदभावान्न ब्रह्म जगत्कारणमिति परपरिकल्पितो दोषः ।
सौत्रस्य चकारस्यार्थमाह -
श्रुतेश्चेति ।
ब्रह्मकारणवादिन्याः श्रुतेरप्रामाण्ये हेत्वभावात्पूर्वपक्षानुमानं तद्बिरोधादप्रमाणमित्वर्थः ।
ब्रह्म स्वाभिन्नं जीवं न पश्यति चेदसर्वज्ञं स्यात् , पश्यति चेदात्मन्येव संसारं पश्येदित्याशङ्क्याह -
विकारस्येति ।
यथा दर्पणादौ मलिनमात्मानं पश्यन्नपि मैत्रस्तस्य मिथ्यात्वं जानन्न तेनात्मानं शोचति । तथा स्वाभिन्नं जीवं पश्यदपि ब्रह्म तद्गतत्वेन भातसंसारस्य वाचारम्भणमात्रत्वान्न तेनात्मानं शोचितुमर्हतीत्यर्थः ।
यत्तु जगत्येकरूपब्रह्मकार्ये कुतो वैचित्र्यमिति, तत्राह -
स्वप्नेति ।
यथा स्वप्रदृश्यानां भावानामेकस्वप्नदृगधिष्ठानत्वेऽपि पण्डितमूर्खादिवैचित्र्यं दृष्टमेवमेकचिदात्माधिष्ठानत्वेऽपि जीवेश्वरादिवैचित्र्याविरोधाज्जगतश्चेतनकारणत्वमविरुद्धमिति भावः ॥ २३ ॥