ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
अश्मादिवच्च तदनुपपत्तिः ॥ २३ ॥
यथा लोके पृथिवीत्वसामान्यान्वितानामप्यश्मनां केचिन्महार्हा मणयो वज्रवैडूर्यादयः, अन्ये मध्यमवीर्याः सूर्यकान्तादयः, अन्ये प्रहीणाः श्ववायसप्रक्षेपणार्हाः पाषाणाःइत्यनेकविधं वैचित्र्यं दृश्यतेयथा चैकपृथिवीव्यपाश्रयाणामपि बीजानां बहुविधं पत्रपुष्पफलगन्धरसादिवैचित्र्यं चन्दनकिंपाकादिषूपलक्ष्यतेयथा चैकस्याप्यन्नरसस्य लोहितादीनि केशलोमादीनि विचित्राणि कार्याणि भवन्तिएवमेकस्यापि ब्रह्मणो जीवप्राज्ञपृथक्त्वं कार्यवैचित्र्यं चोपपद्यत इत्यतः तदनुपपत्तिः, परपरिकल्पितदोषानुपपत्तिरित्यर्थःश्रुतेश्च प्रामाण्यात् , विकारस्य वाचारम्भणमात्रत्वात् स्वप्नदृश्यभाववैचित्र्यवच्चइत्यभ्युच्चयः ॥ २३ ॥

तत्र स्वरूपवैचित्र्यपरमश्मदृष्टान्तं व्याचष्टे -

यथा चेति ।

धर्मवैचित्र्यदृष्टान्तमाह -

यथा चैकेति ।

अर्थक्रियावैचित्र्यमुदाहरति -

यथा चैकस्येति ।

दृष्टान्तत्रयस्य दार्ष्टन्तिकं दर्शयति -

एवमिति ।

ब्रह्मणश्चेतनत्वात्तत्कार्यत्वे जगतोऽपि तथात्वं स्यात्तदभावान्न ब्रह्म जगत्कारणमिति परपरिकल्पितो दोषः ।

सौत्रस्य चकारस्यार्थमाह -

श्रुतेश्चेति ।

ब्रह्मकारणवादिन्याः श्रुतेरप्रामाण्ये हेत्वभावात्पूर्वपक्षानुमानं तद्बिरोधादप्रमाणमित्वर्थः ।

ब्रह्म स्वाभिन्नं जीवं न पश्यति चेदसर्वज्ञं स्यात् , पश्यति चेदात्मन्येव संसारं पश्येदित्याशङ्क्याह -

विकारस्येति ।

यथा दर्पणादौ मलिनमात्मानं पश्यन्नपि मैत्रस्तस्य मिथ्यात्वं जानन्न तेनात्मानं शोचति । तथा स्वाभिन्नं जीवं पश्यदपि ब्रह्म तद्गतत्वेन भातसंसारस्य वाचारम्भणमात्रत्वान्न तेनात्मानं शोचितुमर्हतीत्यर्थः ।

यत्तु जगत्येकरूपब्रह्मकार्ये कुतो वैचित्र्यमिति, तत्राह -

स्वप्नेति ।

यथा स्वप्रदृश्यानां भावानामेकस्वप्नदृगधिष्ठानत्वेऽपि पण्डितमूर्खादिवैचित्र्यं दृष्टमेवमेकचिदात्माधिष्ठानत्वेऽपि जीवेश्वरादिवैचित्र्याविरोधाज्जगतश्चेतनकारणत्वमविरुद्धमिति भावः ॥ २३ ॥