ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि ॥ २४ ॥
चेतनं ब्रह्मैकमद्वितीयं जगतः कारणमिति यदुक्तम् , तन्नोपपद्यतेकस्मात् ? उपसंहारदर्शनात्इह हि लोके कुलालादयो घटपटादीनां कर्तारो मृद्दण्डचक्रसूत्रसलिलाद्यनेककारकोपसंहारेण सङ्गृहीतसाधनाः सन्तस्तत्तत्कार्यं कुर्वाणा दृश्यन्तेब्रह्म चासहायं तवाभिप्रेतम्तस्य साधनान्तरानुपसङ्ग्रहे सति कथं स्रष्टृत्वमुपपद्येत ? तस्मान्न ब्रह्म जगत्कारणमिति चेत् , नैष दोषःयतः क्षीरवद्द्रव्यस्वभावविशेषादुपपद्यतेयथा हि लोके क्षीरं जलं वा स्वयमेव दधिहिमकरकादिभावेन परिणमतेऽनपेक्ष्य बाह्यं साधनम् , तथेहापि भविष्यतिननु क्षीराद्यपि दध्यादिभावेन परिणममानमपेक्षत एव बाह्यं साधनमौष्ण्यादिकम्कथमुच्यतेक्षीरवद्धिइति ? नैष दोषःस्वयमपि हि क्षीरं यां यावतीं परिणाममात्रामनुभवत्येवत्वार्यते त्वौष्ण्यादिना दधिभावाययदि स्वयं दधिभावशीलता स्यात् , नैवौष्ण्यादिनापि बलाद्दधिभावमापद्येत हि वायुराकाशो वा औष्ण्यादिना बलाद्दधिभावमापद्यतेसाधनसामग्र्या तस्य पूर्णता सम्पाद्यतेपरिपूर्णशक्तिकं तु ब्रह्म तस्यान्येन केनचित्पूर्णता सम्पादयितव्याश्रुतिश्च भवति तस्य कार्यं करणं विद्यते तत्समश्चाभ्यधिकश्च दृश्यतेपरास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया ’ (श्वे. उ. ६ । ८) इतितस्मादेकस्यापि ब्रह्मणो विचित्रशक्तियोगात् क्षीरादिवद्विचित्रपरिणाम उपपद्यते ॥ २४ ॥

असहायाद्ब्रह्मणो जगत्सर्गं ब्रुवन्समन्वयो विषयः । स किं ब्रह्म नोपादानमसहायत्वात्संमतवदिति न्यायेन विरुध्यते न वेति तदनाभासत्वाभासत्वाभ्यां सन्देहे पूर्वत्रौपाधिकभेदाद्धिताकरणादिदोषः समाहितः । संप्रत्युपाधितोऽपि विभक्तमधिष्ठात्रादि नास्तीश्वरनानात्वाभावात् , ततश्च विचित्रकार्यानुपपत्तिरिति पूर्वपक्षमाह -

चेतनमिति ।

अत्रापि समन्वयस्य न्यायविशेषविरोधसमाधानात्पूर्ववदेव पादादिसङ्गतिफले ।

प्रतिज्ञाते पूर्वपक्षे प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

लोके कारणभेदादेव कार्यभेददर्शनादन्यथा तदाकस्मिकत्वापातात् , कार्यक्रमस्य च कारणक्रमापेक्षत्वादद्वितीये ब्रह्मणि क्रमवत्सहकारिसम्बन्धाभावादैकरूप्याच्च न क्रमवद्विचित्ररूपजगज्जन्महेतुतेत्याह -

इह हीति ।

अत्र साधनशब्दस्तत्सामग्रीं ब्रूते । ब्रह्म नोपादानं, असहायत्वात् , केवलमृद्वत् । ब्रह्म जगतो न निमित्तं, असहायत्वात् , केवलकुम्भकारवदिति मन्वानः सन्नाह -

ब्रह्म चेति ।

उक्तानुमानफलमुपसंहरति -

तस्मादिति ।

विशुद्धब्रह्मापेक्षया विशिष्टब्रह्मापेक्षया वेदमुच्यते, नाद्यः, सिद्धसाध्यत्वादित्यभिप्रेत्य द्वितीये तस्योपादानत्वनिषेधं दूषयति -

नैष दोष इति ।

किं बाह्यसहकारिविरहादनुपादानत्वं, किं वान्तरसहकारिराहित्यादिति विकल्प्याद्यं व्यभिचारित्वेन निरस्यन्नुदाहरणं विवृणोति -

यथा हीति ।

दृष्टान्ते विवदमानः शङ्कते -

नन्विति ।

क्षीरादिषु स्वत एव कालपरिपाकवशेन परिणामदर्शनादसम्प्रतिपत्तिरयुक्तेति परिहरति -

नैष दोष इति ।

औष्ण्याद्यपेक्षया तत्रान्वयव्यतिरेकसिद्धेति कुतो नैरपेक्ष्यमित्याशङ्क्याह -

त्वार्यते त्विति ।

त्वार्यते शैध्र्यं कार्यते क्षीरं दधिभावायौष्ण्यादिना ।

किञ्चाशक्तस्य सहकार्यपेक्षयापि कार्योत्पादकत्वादर्शनाद्दध्यादिभावे स्वतःसिद्धं क्षीरादेः सामर्थ्यमित्याह -

यदि चेति ।

तदेव दृष्टान्तेन स्पष्टयति -

नहीति ।

किमर्था तर्हि कारणसामग्र्यपेक्षेति, तत्राह -

साधनेति ।

नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यत इति न्यायाद्विद्यमानैव क्षीरादिशक्तिः साधनसामग्र्योपचीयत इत्यर्थः ।

क्षीरादेर्बाह्यसाधनाभावेऽप्यान्तरसाधनसद्भावात्कारणता युक्ता । ब्रह्मणस्त्वैकरस्यान्नान्तरमपि साधनमदृष्टादीष्टमिति कथं कारणतेति द्वितीयमाशङ्क्याह -

परिपूर्णेति ।

ब्रह्म परिपूर्णशक्तिकमित्यत्र प्रमाणमाह -

श्रुतिश्चेति ।

कार्यक्रमेण तच्छक्तिपरिपाकोऽपि क्रमवानुन्नेयः शक्तिभेदाच्च तद्विशिष्टकारणेऽपि भेदसिद्धिरित्यभिसन्धायोपसंहरति -

तस्मादिति ॥ २४ ॥