ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
देवादिवदपि लोके ॥ २५ ॥
स्यादेतत् — उपपद्यते क्षीरादीनामचेतनानामनपेक्ष्यापि बाह्यं साधनं दध्यादिभावः, दृष्टत्वात् । चेतनाः पुनः कुलालादयः साधनसामग्रीमपेक्ष्यैव तस्मै तस्मै कार्याय प्रवर्तमाना दृश्यन्ते । कथं ब्रह्म चेतनं सत् असहायं प्रवर्तेतेति — देवादिवदिति ब्रूमः — यथा लोके देवाः पितर ऋषय इत्येवमादयो महाप्रभावाश्चेतना अपि सन्तोऽनपेक्ष्यैव किञ्चिद्बाह्यं साधनमैश्वर्यविशेषयोगादभिध्यानमात्रेण स्वत एव बहूनि नानासंस्थानानि शरीराणि प्रासादादीनि रथादीनि च निर्मिमाणा उपलभ्यन्ते, मन्त्रार्थवादेतिहासपुराणप्रामाण्यात् । तन्तुनाभश्च स्वत एव तन्तून्सृजति । बलाका चान्तरेणैव शुक्रं गर्भं धत्ते । पद्मिनी चानपेक्ष्य किञ्चित्प्रस्थानसाधनं सरोन्तरात्सरोन्तरं प्रतिष्ठते । एवं चेतनमपि ब्रह्म अनपेक्ष्य बाह्यं साधनं स्वत एव जगत्स्रक्ष्यति । स यदि ब्रूयात् — य एते देवादयो ब्रह्मणो दृष्टान्ता उपात्तास्ते दार्ष्टान्तिकेन ब्रह्मणा न समाना भवन्ति । शरीरमेव ह्यचेतनं देवादीनां शरीरान्तरादिविभूत्युत्पादने उपादानम् । न तु चेतन आत्मा । तन्तुनाभस्य च क्षुद्रतरजन्तुभक्षणाल्लाला कठिनतामापद्यमाना तन्तुर्भवति । बलाका च स्तनयित्नुरवश्रवणाद्गर्भं धत्ते । पद्मिनी च चेतनप्रयुक्ता सती अचेतनेनैव शरीरेण सरोन्तरात्सरोन्तरमुपसर्पति, वल्लीव वृक्षम् । न तु स्वयमेवाचेतना सरोन्तरोपसर्पणे व्याप्रियते । तस्मान्नैते ब्रह्मणो दृष्टान्ता इति — तं प्रति ब्रूयात् — नायं दोषः । कुलालादिदृष्टान्तवैलक्षण्यमात्रस्य विवक्षितत्वादिति — यथा हि कुलालादीनां देवादीनां च समाने चेतनत्वे कुलालादयः कार्यारम्भे बाह्यं साधनमपेक्षन्ते, न देवादयः । तथा ब्रह्म चेतनमपि न बाह्यं साधनमपेक्षिष्यत इत्येतावद्वयं देवाद्युदाहरणेन विवक्षामः । तस्माद्यथैकस्य सामर्थ्यं दृष्टं तथा सर्वेषामेव भवितुमर्हतीति नास्त्येकान्त इत्यभिप्रायः ॥ २५ ॥

सूत्रव्यावर्त्यामाशङ्कामाह -

स्यादेतदिति ।

चेतनत्वविशेषणेन व्यभिचारनिवारणमाह -

उपपद्यत इति ।

विशिष्टेन हेतुना ब्रह्मणो जगद्धेतुत्वं निषेद्धुं दृष्टान्तमाह -

चेतना इति ।

विवक्षितमनुमानं निगमयति -

कथमिति ।

विशिष्टस्यापि हेतोरनैकान्तिकत्वं तदवस्थमिति परिहरति -

देवादिवदिति ।

तत्र दृष्टान्तं व्याचष्टे -

यथेति ।

अस्मदादिभ्यो देवादिषु विशेषं दर्शयति -

महाप्रभावा इति ।

तेषामपीश्वरानुग्रहसापेक्षत्वादसिद्धमसहायत्वमित्याशङ्क्याह -

अनपेक्ष्येति ।

तथापि शुक्रशोणितसंनिपातस्य मृद्दार्वादीनां चाभावे कुतो देहादीनां प्रासादादीनां च निर्माणमित्याशङ्क्याह -

ऐश्वर्येति ।

अस्मदादिष्वसम्भाव्यमानमैश्वर्यविशेषस्तद्वशेन योगस्तत्कार्यघटनसामर्थ्यं तस्मादिति यावत् ।

तत्तत्कार्योचितसामग्रीसम्पत्तौ हेत्वन्तरमाह -

अभिध्यानेति ।

सङ्कल्पातिरिक्तकारणानपेक्षत्वमुक्तमेव मात्रशब्दार्थः ।

तस्यैव स्पष्टीकरणम् -

स्वत एवेति ।

लोके नैवमुपलम्भोऽस्तीत्यशङ्क्याह -

मन्त्रेति ।

सूत्रे लोकशब्देन लोक्यतेऽनेनेति व्युत्पत्त्या शास्त्रं, अपिशब्देन वृद्धव्यवहारश्च सङ्गृहीतः । यस्तु देवादिषु मन्त्रादिप्रामाण्ये च विप्रतिपद्यते, तं प्रति लौकिकान्युदाहरणानि दर्शयति -

तन्तुनाभश्चेति ।

उक्तदृष्टान्तानां दार्ष्टान्तिकमाह -

एवमिति ।

देवादिदृष्टान्तेन विशिष्टस्य हेतोर्न व्यभिचारः, तत्रोपादानांशे चेतनत्वाभावादिति शङ्कते -

स यदीति ।

ऊर्णनाभदृष्टान्ते च तुल्यं व्यभिचारनिवारणमित्याह -

तन्तुनाभस्येति ।

बलाकादृष्टान्ते चासहायत्वाभावाद्विशिष्टहेतोर्न व्यभिचारोऽस्तीत्याह -

बलाका चेति ।

पद्मिनीदृष्टान्तेऽप्यूर्णनाभदृष्टान्तवद्व्यभिचारसमाधिरित्याह -

पद्मिनी चेति ।

व्यभिचारपरिहारफलपूर्वोक्तानुमानोपपत्तिमाह -

तस्मादिति ।

देवादिदेहस्यापन्नचैतन्यस्यैव देहादिकारणत्वान्न व्यभिचारसमाधिरिति समाधत्ते -

तं प्रतीति ।

प्रागुक्तदृष्टान्तानामसम्भवोऽयमुच्यते ।

विवक्षितं वैलक्षण्यमेव स्पष्टयति -

यथा हीति ।

सिद्धे व्यभिचारे फलितं सूत्रतात्पर्यमुपसंहरति -

तस्मादिति ।

कुलालादेरिव ससहायस्यैव कारणत्वं ब्रह्मणो न शक्यं नियन्तुं देवादिवदसहायस्यापि तदुपपत्तेरिति भावः ॥ २५ ॥