सूत्रव्यावर्त्यामाशङ्कामाह -
स्यादेतदिति ।
चेतनत्वविशेषणेन व्यभिचारनिवारणमाह -
उपपद्यत इति ।
विशिष्टेन हेतुना ब्रह्मणो जगद्धेतुत्वं निषेद्धुं दृष्टान्तमाह -
चेतना इति ।
विवक्षितमनुमानं निगमयति -
कथमिति ।
विशिष्टस्यापि हेतोरनैकान्तिकत्वं तदवस्थमिति परिहरति -
देवादिवदिति ।
तत्र दृष्टान्तं व्याचष्टे -
यथेति ।
अस्मदादिभ्यो देवादिषु विशेषं दर्शयति -
महाप्रभावा इति ।
तेषामपीश्वरानुग्रहसापेक्षत्वादसिद्धमसहायत्वमित्याशङ्क्याह -
अनपेक्ष्येति ।
तथापि शुक्रशोणितसंनिपातस्य मृद्दार्वादीनां चाभावे कुतो देहादीनां प्रासादादीनां च निर्माणमित्याशङ्क्याह -
ऐश्वर्येति ।
अस्मदादिष्वसम्भाव्यमानमैश्वर्यविशेषस्तद्वशेन योगस्तत्कार्यघटनसामर्थ्यं तस्मादिति यावत् ।
तत्तत्कार्योचितसामग्रीसम्पत्तौ हेत्वन्तरमाह -
अभिध्यानेति ।
सङ्कल्पातिरिक्तकारणानपेक्षत्वमुक्तमेव मात्रशब्दार्थः ।
तस्यैव स्पष्टीकरणम् -
स्वत एवेति ।
लोके नैवमुपलम्भोऽस्तीत्यशङ्क्याह -
मन्त्रेति ।
सूत्रे लोकशब्देन लोक्यतेऽनेनेति व्युत्पत्त्या शास्त्रं, अपिशब्देन वृद्धव्यवहारश्च सङ्गृहीतः । यस्तु देवादिषु मन्त्रादिप्रामाण्ये च विप्रतिपद्यते, तं प्रति लौकिकान्युदाहरणानि दर्शयति -
तन्तुनाभश्चेति ।
उक्तदृष्टान्तानां दार्ष्टान्तिकमाह -
एवमिति ।
देवादिदृष्टान्तेन विशिष्टस्य हेतोर्न व्यभिचारः, तत्रोपादानांशे चेतनत्वाभावादिति शङ्कते -
स यदीति ।
ऊर्णनाभदृष्टान्ते च तुल्यं व्यभिचारनिवारणमित्याह -
तन्तुनाभस्येति ।
बलाकादृष्टान्ते चासहायत्वाभावाद्विशिष्टहेतोर्न व्यभिचारोऽस्तीत्याह -
बलाका चेति ।
पद्मिनीदृष्टान्तेऽप्यूर्णनाभदृष्टान्तवद्व्यभिचारसमाधिरित्याह -
पद्मिनी चेति ।
व्यभिचारपरिहारफलपूर्वोक्तानुमानोपपत्तिमाह -
तस्मादिति ।
देवादिदेहस्यापन्नचैतन्यस्यैव देहादिकारणत्वान्न व्यभिचारसमाधिरिति समाधत्ते -
तं प्रतीति ।
प्रागुक्तदृष्टान्तानामसम्भवोऽयमुच्यते ।
विवक्षितं वैलक्षण्यमेव स्पष्टयति -
यथा हीति ।
सिद्धे व्यभिचारे फलितं सूत्रतात्पर्यमुपसंहरति -
तस्मादिति ।
कुलालादेरिव ससहायस्यैव कारणत्वं ब्रह्मणो न शक्यं नियन्तुं देवादिवदसहायस्यापि तदुपपत्तेरिति भावः ॥ २५ ॥