परिणामवादमेवाश्रित्य प्रथमं व्याचष्टे -
तुशब्देनेति ।
परिहारमेवाभिनयति -
न खल्विति ।
यदुक्तं ब्रह्मणो जगदाकारेण परिणामे कृत्स्नप्रसक्तिरिति, तत्राह -
न तावदिति ।
निरवयवं ब्रह्म परिणमते च, न च कृत्स्नमिति कुतः सम्भावनेति पृच्छति -
कुत इति ।
श्रौतेऽर्थे नासम्भावनेति परिहरति -
श्रुतेरिति ।
यत्तु ब्रह्मणो विरुद्धाकारेण परिणामे मूलोच्छेदाद्द्रष्टव्यतोपदेशानर्थक्यमिति तत्परिहरन्हेतुं विवृणोति -
यथेति ।
विकारातिरेकेण स्थितं ब्रह्मेति श्रुतिरश्रुता, तत्कुतस्तथाविधं ब्रह्माधिकृत्य द्रष्टव्यतोपदेशस्यार्थवत्तेत्याशङ्क्याह -
प्रकृतीति ।
तत्र द्रष्टृद्रष्टव्यत्वेन प्रवेष्टृप्रवेष्टव्यत्वेन व्याकर्तृव्याकार्यत्वेन च भेदव्यपदेशं दर्शयति -
सेयमिति ।
व्याप्यव्यापकत्वेनापि भेदव्यपदेशोऽस्तीत्याह -
तावानिति ।
अंशांशित्वेनापि भेदव्यपदेशमुदाहरति -
पादोऽस्येति ।
इतश्चाविकृतमस्ति ब्रह्मेत्याह -
त्रिपादिति ।
अविकृतब्रह्मास्तित्वे हेत्वन्तरमाह -
तथेति ।
सर्वस्य ब्रह्मणो विकारात्मना समाप्तौ सर्वायतनत्वाद्विशेषेण हृदयायतनत्वं ‘हृद्यन्तर्ज्योतिः’ इत्यादिना नोच्येत तद्वचनादविकृतस्यैव हृद्यवस्थानसिद्धेस्तदस्तितेत्यर्थः ।
अस्त्यविकृतं ब्रह्मेत्यत्र हेत्वन्तरमाह -
सदिति ।
सुषुप्तौ जीवस्य सत्सम्पत्तिश्रुतिमात्रेण कथमविकृतमस्ति ब्रह्मेत्याशङ्क्याह -
यदि चेति ।
कुतो विशेषणानुपपत्तिरित्याशङ्क्य विकृतेनाविकृतेन वा ब्रह्मणा सम्पत्तिः सुषुप्ताविष्टेति विकल्प्य क्रमेण दूषयन्ननुपपत्तिं प्रकटयति -
विकृतेनेत्यादिना ।
किञ्च विकारस्येन्द्रियगोचरत्वात् ‘न चक्षुषा गृह्यते नापि वाचा’ इत्यादिना ब्रह्मणस्तद्गोचरत्वनिषेधात्तदस्ति विकारातिरिक्तमित्याह -
तथेति ।
यत्तु परिणामित्वे ब्रह्मणो निरवयवत्वशब्दकोपः स्यादिति, तत्राह -
न चेति ।
श्रुत्यापि कथं विरुद्धोऽर्थः समर्प्यते, तस्याः स्वार्थप्रतिपादनस्याविरोधसापेक्षत्वादित्याशङ्क्याह -
शब्देति ।
ब्रह्मणः शब्दप्रमाणकत्वाद्यथाशब्दमिष्टत्वेऽपि कथमकृत्स्नपरिणामनिरवयवत्वयोरुपपत्तिः, तत्राह -
शब्दश्चेति ।
तत्राकृत्स्नप्रसक्तौ भेदव्यपदेशश्रुतिरुक्ता, निरवयवत्वे तु श्रुतिरुदाहृता पूर्वपक्षे ।
ननु निरवयवत्वपरिणामित्वे नैकाधिकरणे सिध्यतो मिथो विरुद्धत्वादौष्ण्यशैत्यवदित्याशङ्क्य श्रुतिविरोधान्मैवमिति मत्वा कैमुतिकन्यायमाह -
लौकिकानामपीति ।
स्वरूपेण प्रत्यक्षादिसिद्धानामपि यत्र शक्तयस्तर्कागोचरास्तत्र किमु वक्तव्यं शब्दैकगम्यस्य तर्कागोचरत्वमित्यर्थः ।
उक्तेऽर्थे स्मृतिं संवादयति -
तथा चेति ।
अचिन्त्यानां भावानामचिन्त्यत्वादेव तर्कायोग्यत्वेऽपि किं तदचिन्त्यमित्यपेक्षायामाह -
प्रकृतिभ्य इति ।
प्रत्यक्षदृष्टपदार्थस्वभावेभ्यो यत्परं विलक्षणमाचार्याद्युपदेशगम्यं तदचिन्त्यमित्यर्थः ।
शब्दमूलं चेत्यादिना शब्दमूलत्वादित्येतद्व्याख्याय शब्दैकसमधिगम्यस्य ब्रह्मणस्तर्कागोचरत्वे फलितमाह -
तस्मादिति ।
आकाङ्क्षादिवशेन शब्दस्यार्थप्रत्यायकत्वाद्विरुद्धार्थप्रत्यायने चाकाङ्क्षाद्यभावान्न शब्दस्यापि तथाविधार्थबोधकतेत्येकदेशिव्याख्यानमाक्षिपति -
नन्विति ।
विरोधमेव दर्शयति -
निरवयवं चेति ।
कथमयमर्थो विरुध्यते, न हि प्रमाणसिद्धं विरुद्धमुपयन्तीत्याशङ्क्य विरोधं प्रपञ्चयति -
यदीति ।
सावयवेष्वेव क्षीरादिषु परिणामदृष्टेरित्यर्थः । विपक्षे कृत्स्नप्रसक्तितादवस्थ्यमित्याह -
कृत्स्नमेवेति ।
यदि कथञ्चित्कृत्स्नप्रसक्तिः समाधीयते तदा निरवयवशब्दकोपः स्यादित्याशयवानाह -
अथेति ।
एकत्रापि परिणामापरिणामौ षोडशिग्रहणाग्रहणवदविरुद्धावित्याशङ्क्याह -
क्रियेति ।
इहेति । ब्रह्मणि परिणामापरिणामयोरित्यर्थः । परिणामादिविषयो वस्तुशब्दः ।
स्वयूथ्यो व्याख्यानस्यानुपपन्नत्वमुपसंहरति -
तस्मादिति ।
विवर्तवादमादाय सिद्धान्ती परिहरति -
नैष दोष इति ।
निरवयवस्य ब्रह्मणो विकारास्पृष्टतयावस्थानस्य विकारात्मना परिणामस्य च श्रूयमाणस्य मिथो विरोधे तात्त्विकं विकारास्पृष्टत्वं मायिकं च परिणामित्वमिति व्यवस्थायां नास्ति दौस्थ्यमित्यर्थः ।
रूपभेदमभ्युपगच्छतस्तत्सावयवत्वं दुर्वारमित्याशङ्क्याह -
न हीति ।
तदेव दृष्टान्तेन स्पष्टयति -
नहि तिमिरेति ।
नामरूपभेदश्चेदविद्याकृतस्तर्हि ब्रह्मणो न कारणत्वमविद्याया एव तद्भावादित्याशङ्क्याह -
अविद्येति ।
नामरूपभेदसिद्धौ कारणत्वसिद्धिस्तत्सिद्धौ च नामरूपभेदसिद्धिरित्यन्योन्याश्रयतेत्याशङ्क्याह -
व्याकृतेति ।
विवर्तवादेऽपि विरुद्धाकारप्राप्तौ पूर्वरूपनिवृत्तेस्तुल्या मूलोच्छित्तिरित्याशङ्क्यानिर्वाच्यरजताकारापत्तौ शुक्तिकादेरन्यथात्वादर्शनाद्ब्रह्मणोऽपि कल्पिताकारापत्तौ पूर्वरूपानिवृत्तेर्मैवमित्याह -
तत्त्वेति ।
ब्रह्मणो मायाविवन्मायया सर्वव्यवहारास्पदत्वेऽपि कुतोऽस्यापरिणामित्वादिसिद्धिरित्याशङ्क्याह -
पारमार्थिकेनेति ।
एवं कृत्स्नप्रसक्तिं निराकृत्य निरवयवत्वशब्दकोपं निराकरोति -
वाचारम्भणेति ।
प्रतिपाद्यत्वं सृष्टेरभ्युपेत्यैतदुक्तम् । तदेव नास्तीत्याह -
न चेति ।
किम्परा तर्हीयं श्रुतिरित्याशङ्क्याह -
सर्वेति ।
ब्रह्मात्म्यैक्यप्रतिपादनपरतया सृष्टिवाक्यानां स्वशेषिविरोधित्वायोगान्नास्ति सृष्टौ तात्पर्यमित्यर्थः ।
ब्रह्मात्मप्रतिपत्तौ फलावगतिमुदाहरति -
स एष इति ।
विवर्तवादे दोषाभावमुपसंहरति -
तस्मादिति ॥ २७ ॥