मुख्यपृष्ठम्
अनुग्रहसन्देशः
ग्रन्थाः
अन्वेषणम्
साहाय्यम्
ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायः
प्रथमः पादः
पूर्वपृष्ठम्
उत्तरपृष्ठम्
न्यायनिर्णयव्याख्या
आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥
अपि
च
नैवात्र
विवदितव्यम्
—
कथमेकस्मिन्ब्रह्मणि
स्वरूपानुपमर्देनैवानेकाकारा
सृष्टिः
स्यादिति
।
यत
आत्मन्यप्येकस्मिन्स्वप्नदृशि
स्वरूपानुपमर्देनैवानेकाकारा
सृष्टिः
पठ्यते
—
‘
न
तत्र
रथा
न
रथयोगा
न
पन्थानो
भवन्त्यथ
रथान्रथयोगान्पथः
सृजते
’ (बृ. उ. ४ । ३ । १०)
इत्यादिना
।
लोकेऽपि
देवादिषु
मायाव्यादिषु
च
स्वरूपानुपमर्देनैव
विचित्रा
हस्त्यश्वादिसृष्टयो
दृश्यन्ते
।
तथैकस्मिन्नपि
ब्रह्मणि
स्वरूपानुपमर्देनैवानेकाकारा
सृष्टिर्भविष्यतीति
॥ २८ ॥
आत्मनीति
;
उक्तं विवर्तवादं सूत्रकाराभिप्रेतत्वेन स्पष्टयति -
आत्मनीति ।