सूत्रार्थं विवृण्वन्दृष्टान्तसद्भावाद्विवर्तवादे विवादो नास्तीत्याह -
अपि चेति ।
विवादस्याकर्तव्यत्वे हेतुमाह -
यत इति ।
दृष्टान्तदार्ष्टान्तिकयोरेकार्थत्वं विशिनष्टि -
स्वप्नदृशीति ।
स्वप्नस्य स्मृतित्वाभ्युपगमाद्विरुद्धा सृष्टिरेव तत्र नास्तीति कुतोऽस्य दृष्टान्ततेत्याशङ्क्यापरोक्षतया स्वप्नस्यास्मृतित्वमभिप्रेत्याह -
पठ्यत इति ।
स्वप्ने रथादीनामभावे कथं तत्प्रथेत्याशङ्क्याह -
अथेति ।
आत्मनि चेति व्याख्याय विचित्राश्च हीति व्याचष्टे -
लोकेऽपीति ।
एवमिति सूत्रपदं व्याकुर्वन्दार्ष्टान्तिकमाह -
तथेति ।
इतिशब्दो विवर्तवादसमाप्त्यर्थः ॥ २८ ॥