ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
आत्मनि चैवं विचित्राश्च हि ॥ २८ ॥
अपि नैवात्र विवदितव्यम्कथमेकस्मिन्ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः स्यादितियत आत्मन्यप्येकस्मिन्स्वप्नदृशि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिः पठ्यते तत्र रथा रथयोगा पन्थानो भवन्त्यथ रथान्रथयोगान्पथः सृजते’ (बृ. उ. ४ । ३ । १०) इत्यादिनालोकेऽपि देवादिषु मायाव्यादिषु स्वरूपानुपमर्देनैव विचित्रा हस्त्यश्वादिसृष्टयो दृश्यन्तेतथैकस्मिन्नपि ब्रह्मणि स्वरूपानुपमर्देनैवानेकाकारा सृष्टिर्भविष्यतीति ॥ २८ ॥

सूत्रार्थं विवृण्वन्दृष्टान्तसद्भावाद्विवर्तवादे विवादो नास्तीत्याह -

अपि चेति ।

विवादस्याकर्तव्यत्वे हेतुमाह -

यत इति ।

दृष्टान्तदार्ष्टान्तिकयोरेकार्थत्वं विशिनष्टि -

स्वप्नदृशीति ।

स्वप्नस्य स्मृतित्वाभ्युपगमाद्विरुद्धा सृष्टिरेव तत्र नास्तीति कुतोऽस्य दृष्टान्ततेत्याशङ्क्यापरोक्षतया स्वप्नस्यास्मृतित्वमभिप्रेत्याह -

पठ्यत इति ।

स्वप्ने रथादीनामभावे कथं तत्प्रथेत्याशङ्क्याह -

अथेति ।

आत्मनि चेति व्याख्याय विचित्राश्च हीति व्याचष्टे -

लोकेऽपीति ।

एवमिति सूत्रपदं व्याकुर्वन्दार्ष्टान्तिकमाह -

तथेति ।

इतिशब्दो विवर्तवादसमाप्त्यर्थः ॥ २८ ॥