सूत्राक्षराणि व्याचष्टे -
परेषामिति ।
तथा च ब्रह्मवादिनि विशेषेणानुद्भाव्यतेति शेषः ।
तत्र प्रधानवादे दोषसाम्यं वक्तुं तत्पक्षमनुभाषते -
प्रधानेति ।
दोषसाम्यमधुना दर्शयति -
तत्रापीति ।
प्रधानं हि महदाद्याकारेण परिणममानं साकल्येन वा परिणमत एकदेशेन वा प्रथमे निरवयवत्वात्प्रधानस्य कृत्स्नस्यैव कार्याकारेण परिणतत्वादवशिष्टस्याभावात्तदाश्रितस्य कार्यस्याप्ययोगात्कार्यं कारणं चेत्युभयमपि समुच्छिद्येत । द्वितीये प्रधानस्य निरवयवत्वस्वीकारो विरुध्येतेत्यर्थः ।
दोषद्वयं परिहर्तुं शङ्कते -
नन्विति ।
निरवयवत्वानुपगमं स्फुटयितुं प्रधानस्वरूपमनुवदति -
सत्त्वेति ।
कथमेतावता निरवयवत्वानभ्युपगमः, तत्राह -
तैरिति ।
सावयवत्वे च प्रधानस्यैकदेशेन परिणामोऽवस्थानं चैकदेशेनेत्यङ्गीकारान्न कृत्स्नप्रसक्त्यादिदोषावकाशोऽस्तीत्यर्थः ।
उक्तं सावयवत्वमङ्गीकृत्य परिहरति -
नेत्यादिना ।
तत्र हेतुमाह -
यत इति ।
समुदायस्य सावयवत्वेऽपि प्रत्येकं सत्त्वादीनां निरवयवत्वात्तेषां च परिणामस्वीकारात्कृत्स्नपरिणामे मूलोच्छित्तेकदेशपरिणामे सावयवत्वम् । अतो दोषद्वयं प्रधानवादे दुर्वारमित्यर्थः ।
सम्भूय सत्त्वादीनां परिणामपरिग्रहान्न दोषद्वयमित्याशङक्याह -
एकैकमेवेति ।
समुदायस्यैव परिणामित्वे कार्यवैषम्यासिद्धिरिति भावः ।
एवं प्रधानवादे कृत्स्नप्रसकत्यादिदोषसाम्यान्न तेन ब्रह्मवादिनि तदुद्भावनीयमित्युपसंहरति -
समानत्वादिति ।
तर्काप्रतिष्ठानन्यायेन निरवयवत्वापादकतर्कस्याप्रतिष्ठानत्वात्प्रधानस्य सावयवत्वमेवेति शङ्कते -
तर्केति ।
अभ्युपेतहानमपिना सूचयन्दूषयति -
एवमपीति ।
आदिशब्देन घटादिवन्मूलकारणत्वासम्भवोऽपि गृहीतः ।
घटादीनामिव द्रव्यावयवत्वेन प्रधानस्य सावयवत्वानभ्युपगमादनेकधर्मवत्तया तदङ्गीकारान्नानित्यात्वादिदोषप्रसक्तिरित्याह -
अथेति ।
ब्रह्मणोऽपि कार्यवैचित्र्यसूचितविचित्रशक्तिरूपावयवोपगमादुक्तदोषसमाधिरित्याह -
ता इति ।
प्रधानवादिनो दोषसाम्यमुक्त्वा परमाणुवादिनोऽपि तत्साम्यमाह -
तथेति ।
अणुवादिनोऽपि समान एव दोष इत्यत्र सम्बन्धः ।
द्वाभ्यामणुभ्यां संयुज्यमानाभ्यां द्व्यणुकमारभ्यते त्रिभिर्द्व्यणुकैः संयुक्तैस्त्र्यणुकं त्र्यणुकैः संयुक्तैश्चतुरणुकमित्यस्यां प्रक्रियायामणुरण्वन्तरेण संयुज्यमानः कार्त्स्न्येन वा संयुज्यत एकदेशेन वेति विकल्प्याद्यमनूद्य दूषयति -
अणुरिति ।
कार्त्स्न्यन संयोगे सत्येकस्मिन्परमाणौ परमाण्वन्तरस्य संमितत्वात्तदारब्धे द्व्यणुके परमाणोरधिकपरिमाणाभावात्तस्यापि पारिमाण्डल्यवत्त्वप्रसङ्गादणुत्वादिपरिमाणान्तराङ्गीकारविरोधः स्यादित्यर्थः ।
द्वितीयमनूद्य प्रत्याह -
अथेति ।
तदेवं परमाणुवादिन्यपि प्रागुक्तदोषसाम्यान्न तेनापि ब्रह्मवादिनि तदुद्भावनमुचितमित्याह -
इति स्वपक्षेऽपीति ।
त्वं चोर इत्युक्ते त्वमपि चोर इतिवत्स्वस्य दोषोद्भावने परस्यापि तदुद्भावनमात्रेण न तत्परिहारसिद्धिरित्याशङ्क्य परस्य यः परिहारः स एवास्माकमपीत्यभिप्रेत्याह -
समानत्वाच्चेति ।
आपाततः साम्यमुक्त्वा पारमार्थिकं कार्यकारणत्वमिच्छतामेव चायं दोषो नास्माकं विवर्तवादिनां कार्यं कारणं च कल्पितमिच्छतामित्याह -
परिहृतस्त्विति ॥ २९ ॥
पूर्वाधिकरणे ब्रह्मणो विचित्रशक्तियुक्तत्वाद् युक्तं कारणत्वमित्युक्तम् ।