ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
स्वपक्षदोषाच्च ॥ २९ ॥
परेषामप्येष समानः स्वपक्षे दोषःप्रधानवादिनोऽपि हि निरवयवमपरिच्छिन्नं शब्दादिहीनं प्रधानं सावयवस्य परिच्छिन्नस्य शब्दादिमतः कार्यस्य कारणमिति स्वपक्षःतत्रापि कृत्स्नप्रसक्तिर्निरवयवत्वात्प्रधानस्य प्राप्नोति, निरवयवत्वाभ्युपगमकोपो वाननु नैव तैर्निरवयवं प्रधानमभ्युपगम्यतेसत्त्वरजस्तमांसि हि त्रयो गुणाःतेषां साम्यावस्था प्रधानम्तैरेवावयवैस्तत्सावयवमितिनैवंजातीयकेन सावयवत्वेन प्रकृतो दोषः परिहर्तुं पार्यते, यतः सत्त्वरजस्तमसामप्येकैकस्य समानं निरवयवत्वम् एकैकमेव चेतरद्वयानुगृहीतं सजातीयस्य प्रपञ्चस्योपादानमितिसमानत्वात्स्वपक्षदोषप्रसङ्गस्यतर्काप्रतिष्ठानात्सावयवत्वमेवेति चेत्एवमप्यनित्यत्वादिदोषप्रसङ्गःअथ शक्तय एव कार्यवैचित्र्यसूचिता अवयवा इत्यभिप्रायः, तास्तु ब्रह्मवादिनोऽप्यविशिष्टाःतथा अणुवादिनोऽप्यणुरण्वन्तरेण संयुज्यमानो निरवयवत्वाद्यदि कार्त्स्न्येन संयुज्येत, ततः प्रथिमानुपपत्तेरणुमात्रत्वप्रसङ्गःअथैकदेशेन संयुज्येत, तथापि निरवयवत्वाभ्युपगमकोप इतिस्वपक्षेऽपि समान एष दोषःसमानत्वाच्च नान्यतरस्मिन्नेव पक्षे उपक्षेप्तव्यो भवतिपरिहृतस्तु ब्रह्मवादिना स्वपक्षे दोषः ॥ २९ ॥

सूत्राक्षराणि व्याचष्टे -

परेषामिति ।

तथा च ब्रह्मवादिनि विशेषेणानुद्भाव्यतेति शेषः ।

तत्र प्रधानवादे दोषसाम्यं वक्तुं तत्पक्षमनुभाषते -

प्रधानेति ।

दोषसाम्यमधुना दर्शयति -

तत्रापीति ।

प्रधानं हि महदाद्याकारेण परिणममानं साकल्येन वा परिणमत एकदेशेन वा प्रथमे निरवयवत्वात्प्रधानस्य कृत्स्नस्यैव कार्याकारेण परिणतत्वादवशिष्टस्याभावात्तदाश्रितस्य कार्यस्याप्ययोगात्कार्यं कारणं चेत्युभयमपि समुच्छिद्येत । द्वितीये प्रधानस्य निरवयवत्वस्वीकारो विरुध्येतेत्यर्थः ।

दोषद्वयं परिहर्तुं शङ्कते -

नन्विति ।

निरवयवत्वानुपगमं स्फुटयितुं प्रधानस्वरूपमनुवदति -

सत्त्वेति ।

कथमेतावता निरवयवत्वानभ्युपगमः, तत्राह -

तैरिति ।

सावयवत्वे च प्रधानस्यैकदेशेन परिणामोऽवस्थानं चैकदेशेनेत्यङ्गीकारान्न कृत्स्नप्रसक्त्यादिदोषावकाशोऽस्तीत्यर्थः ।

उक्तं सावयवत्वमङ्गीकृत्य परिहरति -

नेत्यादिना ।

तत्र हेतुमाह -

यत इति ।

समुदायस्य सावयवत्वेऽपि प्रत्येकं सत्त्वादीनां निरवयवत्वात्तेषां च परिणामस्वीकारात्कृत्स्नपरिणामे मूलोच्छित्तेकदेशपरिणामे सावयवत्वम् । अतो दोषद्वयं प्रधानवादे दुर्वारमित्यर्थः ।

सम्भूय सत्त्वादीनां परिणामपरिग्रहान्न दोषद्वयमित्याशङक्याह -

एकैकमेवेति ।

समुदायस्यैव परिणामित्वे कार्यवैषम्यासिद्धिरिति भावः ।

एवं प्रधानवादे कृत्स्नप्रसकत्यादिदोषसाम्यान्न तेन ब्रह्मवादिनि तदुद्भावनीयमित्युपसंहरति -

समानत्वादिति ।

तर्काप्रतिष्ठानन्यायेन निरवयवत्वापादकतर्कस्याप्रतिष्ठानत्वात्प्रधानस्य सावयवत्वमेवेति शङ्कते -

तर्केति ।

अभ्युपेतहानमपिना सूचयन्दूषयति -

एवमपीति ।

आदिशब्देन घटादिवन्मूलकारणत्वासम्भवोऽपि गृहीतः ।

घटादीनामिव द्रव्यावयवत्वेन प्रधानस्य सावयवत्वानभ्युपगमादनेकधर्मवत्तया तदङ्गीकारान्नानित्यात्वादिदोषप्रसक्तिरित्याह -

अथेति ।

ब्रह्मणोऽपि कार्यवैचित्र्यसूचितविचित्रशक्तिरूपावयवोपगमादुक्तदोषसमाधिरित्याह -

ता इति ।

प्रधानवादिनो दोषसाम्यमुक्त्वा परमाणुवादिनोऽपि तत्साम्यमाह -

तथेति ।

अणुवादिनोऽपि समान एव दोष इत्यत्र सम्बन्धः ।

द्वाभ्यामणुभ्यां संयुज्यमानाभ्यां द्व्यणुकमारभ्यते त्रिभिर्द्व्यणुकैः संयुक्तैस्त्र्यणुकं त्र्यणुकैः संयुक्तैश्चतुरणुकमित्यस्यां प्रक्रियायामणुरण्वन्तरेण संयुज्यमानः कार्त्स्न्येन वा संयुज्यत एकदेशेन वेति विकल्प्याद्यमनूद्य दूषयति -

अणुरिति ।

कार्त्स्न्यन संयोगे सत्येकस्मिन्परमाणौ परमाण्वन्तरस्य संमितत्वात्तदारब्धे द्व्यणुके परमाणोरधिकपरिमाणाभावात्तस्यापि पारिमाण्डल्यवत्त्वप्रसङ्गादणुत्वादिपरिमाणान्तराङ्गीकारविरोधः स्यादित्यर्थः ।

द्वितीयमनूद्य प्रत्याह -

अथेति ।

तदेवं परमाणुवादिन्यपि प्रागुक्तदोषसाम्यान्न तेनापि ब्रह्मवादिनि तदुद्भावनमुचितमित्याह -

इति स्वपक्षेऽपीति ।

त्वं चोर इत्युक्ते त्वमपि चोर इतिवत्स्वस्य दोषोद्भावने परस्यापि तदुद्भावनमात्रेण न तत्परिहारसिद्धिरित्याशङ्क्य परस्य यः परिहारः स एवास्माकमपीत्यभिप्रेत्याह -

समानत्वाच्चेति ।

आपाततः साम्यमुक्त्वा पारमार्थिकं कार्यकारणत्वमिच्छतामेव चायं दोषो नास्माकं विवर्तवादिनां कार्यं कारणं च कल्पितमिच्छतामित्याह -

परिहृतस्त्विति ॥ २९ ॥

पूर्वाधिकरणे ब्रह्मणो विचित्रशक्तियुक्तत्वाद् युक्तं कारणत्वमित्युक्तम् ।