ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
सर्वोपेता च तद्दर्शनात् ॥ ३० ॥
एकस्यापि ब्रह्मणो विचित्रशक्तियोगादुपपद्यते विचित्रो विकारप्रपञ्च इत्युक्तम् । तत्पुनः कथमवगम्यते — विचित्रशक्तियुक्तं परं ब्रह्मेति ? तदुच्यते — सर्वोपेता च तद्दर्शनात् । सर्वशक्तियुक्ता च परा देवतेत्यभ्युपगन्तव्यम् । कुतः ? तद्दर्शनात् । तथा हि दर्शयति श्रुतिः सर्वशक्तियोगं परस्या देवतायाः — ‘सर्वकर्मा सर्वकामः सर्वगन्धः सर्वरसः सर्वमिदमभ्यात्तोऽवाक्यनादरः’ (छा. उ. ३ । १४ । ४) ‘सत्यकामः सत्यसङ्कल्पः’ (छा. उ. ८ । ७ । १) ‘यः सर्वज्ञः सर्ववित्’ (मु. उ. १ । १ । ९) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतौ तिष्ठतः’ (बृ. उ. ३ । ८ । ९) इत्येवंजातीयका ॥ ३० ॥

तस्य किमशरीरस्य नास्ति मायेति न्यायेन विरोधोऽस्ति न वेति तदनाभासत्वभासत्वाभ्यामेव सन्देहे सङ्गतिमाह -

एकस्येति ।

प्रमाणप्रश्नपूर्वकं तदुपन्यासपरं सूत्रमादत्ते -

तत्पुनरिति ।

पूर्ववदिहापि सङ्गतिफले द्रष्टव्ये ।

सूत्राक्षराणि व्याचष्टे -

सर्वेति ।

अवगतिहेतुं प्रश्नपूर्वकमाह -

कुत इति ।

सिद्धान्तहेतुं नानाविधश्रुत्यवष्टम्भेन विवृणोति -

तथा हीति ॥ ३० ॥