सूत्रं व्याचष्टे -
तुशब्देनेति ।
यत्तु साक्षात्परम्परया वा स्वप्रयोजनाभावान्न ब्रह्म जगत्कारणमिति, तत्र सुखोल्लासनिमित्तक्रीडायामुच्छ्वासादौ च फलाभिसन्ध्यभावादनैकान्तिको हेतुरित्याह -
यथेति ।
एषणासम्पत्तौ सम्भावितमुदाहरणद्वयमाह -
राज्ञ इति ।
व्यतिरिक्तं लीलायाः सकाशादिति यावत् । क्रीडार्था विहारा देशविशेषाः संस्कृतास्तेष्विति यावत् ।
भवतु वा राजादीनां लीलारूपासु प्रवृत्तिष्वपि किञ्चिदुद्देश्यं प्रयोजनं, तथापि न निःश्वासादिषु तथाविधं फलमुपलभ्यमित्यनैकान्तिकत्वतादवस्थ्यमित्याह -
यथा चेति ।
दृष्टान्ते स्वभावो देहस्य प्राणादिमत्त्वं, दार्ष्टान्तिके तु स्वभावोऽविद्येति द्रष्टव्यम् ।
अथेश्वरस्य जगद्बिम्बविरचनां किमित्यविद्याकृतलीलामात्रत्वेनाफला कल्प्यते ? फलमेव किञ्चित्कल्प्यतामित्याशङ्क्याप्तकामत्वन्यायविरोधात्परमानन्दत्वश्रुतिविरोधाच्च नैवमित्याह -
न हीति ।
ननु लीलादावस्मदादीनामकस्मादेव निवृत्तेरपि दर्शनादीश्वरस्यापि मायामय्यां लीलायां तथाभावे विनापि सम्यग्ज्ञानं संसारसमुच्छित्तिरिति, तत्राह -
न चेति ।
अनिर्वाच्या खल्वविद्या परस्येश्वरस्य स्वभावो लीलेति चोच्यते । तत्र न प्रातीतिकस्वभावायामनुपपत्तिरवतरतीत्यर्थः ।
यत्तु जगद्रचनाया गुरुतरसंरम्भत्वाद्भवितव्यं फलेनेति, तत्रास्मद्दृष्ट्या वा तस्या गुरुतरसंरम्भत्वमीश्वरदृष्ट्या वेति विकल्प्याद्ये हेतुसद्भावेऽपि प्रागुक्तश्रुतिन्यायविरोधान्नानुमानप्रवृत्तिरित्यभिप्रेत्य द्वितीयं निरस्यति -
यद्यपीत्यादिना ।
लीलास्वपि तात्कालिकं फलमुद्देश्यफलाभावेऽपि भातीत्युक्तमित्याशङ्क्याह -
यदीति ।
ईश्वरप्रवृत्तिरत्रेत्युक्ता ।
किञ्चिदिति ।
स्वकीयं परकीयं वेत्यर्थः ।
प्रयोजनाभावे वेत्यादिनोक्तं प्रत्याह -
नापीति ।
किञ्च सृष्टेरविद्यानिबन्धनत्वेनावस्तुत्वाद्गन्धर्वनगरादिभ्रमेष्विव न फलापेक्षेत्याह -
न चेति ।
किञ्च ब्रह्मात्मत्वधीपरत्वान्न सृष्टौ सृष्टिश्रुतीनां तात्पर्यमतः सृष्टेरविवक्षितत्वात्तदाश्रयो दोषो निर्विषयत्वान्न प्रसरतीत्याह -
ब्रह्मेति ।
प्रकृतोपयोगित्वान्न तत्पुनरुक्तिरिति सूचयति -
इत्येतदपीति ॥ ३३ ॥