ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
लोकवत्तु लीलाकैवल्यम् ॥ ३३ ॥
तुशब्देनाक्षेपं परिहरतियथा लोके कस्यचिदाप्तैषणस्य राज्ञो राजामात्यस्य वा व्यतिरिक्तं किञ्चित्प्रयोजनमनभिसन्धाय केवलं लीलारूपाः प्रवृत्तयः क्रीडाविहारेषु भवन्ति; यथा चोच्छ्वासप्रश्वासादयोऽनभिसन्धाय बाह्यं किञ्चित्प्रयोजनं स्वभावादेव सम्भवन्ति; एवमीश्वरस्याप्यनपेक्ष्य किञ्चित्प्रयोजनान्तरं स्वभावादेव केवलं लीलारूपा प्रवृत्तिर्भविष्यति हीश्वरस्य प्रयोजनान्तरं निरूप्यमाणं न्यायतः श्रुतितो वा सम्भवति स्वभावः पर्यनुयोक्तुं शक्यतेयद्यप्यस्माकमियं जगद्बिम्बविरचना गुरुतरसंरम्भेवाभाति, तथापि परमेश्वरस्य लीलैव केवलेयम् , अपरिमितशक्तित्वात्यदि नाम लोके लीलास्वपि किञ्चित्सूक्ष्मं प्रयोजनमुत्प्रेक्ष्येत, तथापि नैवात्र किञ्चित्प्रयोजनमुत्प्रेक्षितुं शक्यते, आप्तकामश्रुतेःनाप्यप्रवृत्तिरुन्मत्तप्रवृत्तिर्वा, सृष्टिश्रुतेः, सर्वज्ञश्रुतेश्च चेयं परमार्थविषया सृष्टिश्रुतिःअविद्याकल्पितनामरूपव्यवहारगोचरत्वात् , ब्रह्मात्मभावप्रतिपादनपरत्वाच्चइत्येतदपि नैव विस्मर्तव्यम् ॥ ३३ ॥

सूत्रं व्याचष्टे -

तुशब्देनेति ।

यत्तु साक्षात्परम्परया वा स्वप्रयोजनाभावान्न ब्रह्म जगत्कारणमिति, तत्र सुखोल्लासनिमित्तक्रीडायामुच्छ्वासादौ च फलाभिसन्ध्यभावादनैकान्तिको हेतुरित्याह -

यथेति ।

एषणासम्पत्तौ सम्भावितमुदाहरणद्वयमाह -

राज्ञ इति ।

व्यतिरिक्तं लीलायाः सकाशादिति यावत् । क्रीडार्था विहारा देशविशेषाः संस्कृतास्तेष्विति यावत् ।

भवतु वा राजादीनां लीलारूपासु प्रवृत्तिष्वपि किञ्चिदुद्देश्यं प्रयोजनं, तथापि न निःश्वासादिषु तथाविधं फलमुपलभ्यमित्यनैकान्तिकत्वतादवस्थ्यमित्याह -

यथा चेति ।

दृष्टान्ते स्वभावो देहस्य प्राणादिमत्त्वं, दार्ष्टान्तिके तु स्वभावोऽविद्येति द्रष्टव्यम् ।

अथेश्वरस्य जगद्बिम्बविरचनां किमित्यविद्याकृतलीलामात्रत्वेनाफला कल्प्यते ? फलमेव किञ्चित्कल्प्यतामित्याशङ्क्याप्तकामत्वन्यायविरोधात्परमानन्दत्वश्रुतिविरोधाच्च नैवमित्याह -

न हीति ।

ननु लीलादावस्मदादीनामकस्मादेव निवृत्तेरपि दर्शनादीश्वरस्यापि मायामय्यां लीलायां तथाभावे विनापि सम्यग्ज्ञानं संसारसमुच्छित्तिरिति, तत्राह -

न चेति ।

अनिर्वाच्या खल्वविद्या परस्येश्वरस्य स्वभावो लीलेति चोच्यते । तत्र न प्रातीतिकस्वभावायामनुपपत्तिरवतरतीत्यर्थः ।

यत्तु जगद्रचनाया गुरुतरसंरम्भत्वाद्भवितव्यं फलेनेति, तत्रास्मद्दृष्ट्या वा तस्या गुरुतरसंरम्भत्वमीश्वरदृष्ट्या वेति विकल्प्याद्ये हेतुसद्भावेऽपि प्रागुक्तश्रुतिन्यायविरोधान्नानुमानप्रवृत्तिरित्यभिप्रेत्य द्वितीयं निरस्यति -

यद्यपीत्यादिना ।

लीलास्वपि तात्कालिकं फलमुद्देश्यफलाभावेऽपि भातीत्युक्तमित्याशङ्क्याह -

यदीति ।

ईश्वरप्रवृत्तिरत्रेत्युक्ता ।

किञ्चिदिति ।

स्वकीयं परकीयं वेत्यर्थः ।

प्रयोजनाभावे वेत्यादिनोक्तं प्रत्याह -

नापीति ।

किञ्च सृष्टेरविद्यानिबन्धनत्वेनावस्तुत्वाद्गन्धर्वनगरादिभ्रमेष्विव न फलापेक्षेत्याह -

न चेति ।

किञ्च ब्रह्मात्मत्वधीपरत्वान्न सृष्टौ सृष्टिश्रुतीनां तात्पर्यमतः सृष्टेरविवक्षितत्वात्तदाश्रयो दोषो निर्विषयत्वान्न प्रसरतीत्याह -

ब्रह्मेति ।

प्रकृतोपयोगित्वान्न तत्पुनरुक्तिरिति सूचयति -

इत्येतदपीति ॥ ३३ ॥