ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
वैषम्यनैर्घृण्ये न सापेक्षत्वात्तथाहि दर्शयति ॥ ३४ ॥
पुनश्च जगज्जन्मादिहेतुत्वमीश्वरस्याक्षिप्यते, स्थूणानिखननन्यायेन प्रतिज्ञातस्यार्थस्य दृढीकरणाय । नेश्वरो जगतः कारणमुपपद्यते । कुतः ? वैषम्यनैर्घृण्यप्रसङ्गात् — कांश्चिदत्यन्तसुखभाजः करोति देवादीन् , कांश्चिदत्यन्तदुःखभाजः पश्वादीन् , कांश्चिन्मध्यमभोगभाजो मनुष्यादीन् — इत्येवं विषमां सृष्टिं निर्मिमाणस्येश्वरस्य पृथग्जनस्येव रागद्वेषोपपत्तेः, श्रुतिस्मृत्यवधारितस्वच्छत्वादीश्वरस्वभावविलोपः प्रसज्येत । तथा खलजनैरपि जुगुप्सितं निर्घृणत्वमतिक्रूरत्वं दुःखयोगविधानात्सर्वप्रजोपसंहाराच्च प्रसज्येत । तस्माद्वैषम्यनैर्घृण्यप्रसङ्गान्नेश्वरः कारणमित्येवं प्राप्ते ब्रूमः —

निरवद्याद्ब्रह्मणो जगत्सर्वं वदन्समन्वयो विषयः । स किं यो विषमसृष्टिकारी स सावद्यो ब्रह्म च विषमं सृजतीति न्यायेन विरुध्यते न वेति यथापूर्वं सन्देहे पूर्वपक्षमाह -

पुनश्चेति ।

पुनराक्षेपस्य फलमाह -

स्थूणेति ।

जगतो ब्रह्मैव कारणमिति प्रतिज्ञातोऽर्थस्तद्दृढीकरणमाक्षेपद्वारेणाधिकरणकृत्यमित्यर्थः । पादादिसङ्गतिफले पूर्ववदुन्नेये ।

आक्षेपं विवृण्वन् ‘वैषम्यनैर्घृण्ये न’ इति सूत्रावयवं पूर्वपक्षे योजयन्नञर्थमाह -

नेश्वर इति ।

प्रश्नपूर्वकं हेतुं गृहीत्वा प्रथमं वैषम्यप्रसङ्गं प्रकृटयति -

कुत इत्यादिना ।

देवादीनामेवं वैषम्येऽपि कथमीश्वरस्य वैषम्यमित्याशङ्क्याह -

इत्येवमिति ।

वैषम्येऽपि किं स्यादित्याशङ्क्योक्तम् -

श्रुतीति ।

‘निष्कलं निष्क्रियम्’ इत्याद्या श्रुतिः । ‘न मे द्वेष्योऽस्ति न प्रियः', ‘बलं बलवतां चाहं कामरागविवर्जितम्’ इत्याद्या च स्मृतिः । स्वच्छत्वादीत्यादिशब्देन निष्क्रियत्वनिष्कलत्वादि गृह्यते ।

वैषम्यप्रसङ्गं प्रदर्श्य नैर्घृण्यप्रसङ्गं दर्शयति -

तथेति ।

ब्रह्म परेषामर्थानर्थहेतुकार्यस्य न कारणं, चेतनत्वे सत्यनवद्यत्वात् , विशिष्टपुरुषवदित्यभिप्रेत्योपसंहरति -

तस्मादिति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिजानीते -

एवं प्राप्त इति ।