निरवद्याद्ब्रह्मणो जगत्सर्वं वदन्समन्वयो विषयः । स किं यो विषमसृष्टिकारी स सावद्यो ब्रह्म च विषमं सृजतीति न्यायेन विरुध्यते न वेति यथापूर्वं सन्देहे पूर्वपक्षमाह -
पुनश्चेति ।
पुनराक्षेपस्य फलमाह -
स्थूणेति ।
जगतो ब्रह्मैव कारणमिति प्रतिज्ञातोऽर्थस्तद्दृढीकरणमाक्षेपद्वारेणाधिकरणकृत्यमित्यर्थः । पादादिसङ्गतिफले पूर्ववदुन्नेये ।
आक्षेपं विवृण्वन् ‘वैषम्यनैर्घृण्ये न’ इति सूत्रावयवं पूर्वपक्षे योजयन्नञर्थमाह -
नेश्वर इति ।
प्रश्नपूर्वकं हेतुं गृहीत्वा प्रथमं वैषम्यप्रसङ्गं प्रकृटयति -
कुत इत्यादिना ।
देवादीनामेवं वैषम्येऽपि कथमीश्वरस्य वैषम्यमित्याशङ्क्याह -
इत्येवमिति ।
वैषम्येऽपि किं स्यादित्याशङ्क्योक्तम् -
श्रुतीति ।
‘निष्कलं निष्क्रियम्’ इत्याद्या श्रुतिः । ‘न मे द्वेष्योऽस्ति न प्रियः', ‘बलं बलवतां चाहं कामरागविवर्जितम्’ इत्याद्या च स्मृतिः । स्वच्छत्वादीत्यादिशब्देन निष्क्रियत्वनिष्कलत्वादि गृह्यते ।
वैषम्यप्रसङ्गं प्रदर्श्य नैर्घृण्यप्रसङ्गं दर्शयति -
तथेति ।
ब्रह्म परेषामर्थानर्थहेतुकार्यस्य न कारणं, चेतनत्वे सत्यनवद्यत्वात् , विशिष्टपुरुषवदित्यभिप्रेत्योपसंहरति -
तस्मादिति ।
पूर्वपक्षमनूद्य सिद्धान्तमवतार्य प्रतिजानीते -
एवं प्राप्त इति ।