ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
न कर्माविभागादिति चेन्नानादित्वात् ॥ ३५ ॥
‘सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम्’ (छा. उ. ६ । २ । १) इति प्राक्सृष्टेरविभागावधारणान्नास्ति कर्म, यदपेक्ष्य विषमा सृष्टिः स्यात् । सृष्ट्युत्तरकालं हि शरीरादिविभागापेक्षं कर्म, कर्मापेक्षश्च शरीरादिविभागः — इतीतरेतराश्रयत्वं प्रसज्येत । अतो विभागादूर्ध्वं कर्मापेक्ष ईश्वरः प्रवर्ततां नाम । प्राग्विभागाद्वैचित्र्यनिमित्तस्य कर्मणोऽभावात्तुल्यैवाद्या सृष्टिः प्राप्नोतीति चेत् , नैष दोषः । अनादित्वात्संसारस्य; भवेदेष दोषः, यद्यादिमान् संसारः स्यात् । अनादौ तु संसारे बीजाङ्कुरवद्धेतुहेतुमद्भावेन कर्मणः सर्गवैषम्यस्य च प्रवृत्तिर्न विरुध्यते ॥ ३५ ॥

दूषयति –

सदेवेति ।

द्वितीयं निरस्यति –

सृष्टीति ।

पराचीनं हि कर्म प्रथमसृष्टेश्चरमसृष्टेर्वा हेतुरिति विकल्प्याद्ये

सापेक्षत्वमाक्षिप्य समाधत्ते -

न कर्मेति ।

चोद्यं व्याकुर्वन्प्राचीनं पराचीनं वा कर्मापेक्षमाणमिति विकल्प्याद्यं परस्पराश्रयत्वमुक्त्वा द्वितीयं प्रत्याह -

अत इति ।

देवादिवैचित्र्यादूर्ध्वं कर्मवैचित्र्ये सति तदपेक्षयेश्वरस्य प्राणिषु सुखादिवैचित्र्यनिर्मातृत्वेऽपि प्राथमिकविचित्रसृष्टिहेत्वभावात्तदैकरूप्यं स्यादित्यर्थः ।

सूत्रावयवं व्याकुर्वंन्नुत्तरमाह -

नैष दोष इति ।

तदेव स्फोरयति -

भवेदित्यादिना ।

सृष्टेरैकरूप्यं संसारस्य सादित्वेन नानाहेत्वभावाद्भवति । तस्य त्वनादित्वे पूर्वपूर्वकर्मवैचित्र्यवशादुत्तरोत्तरविचित्रसृष्टिसिद्धिरित्यर्थः ॥ ३५ ॥