ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःप्रथमः पादः
न्यायनिर्णयव्याख्या
 
उपपद्यते चाप्युपलभ्यते च ॥ ३६ ॥
उपपद्यते च संसारस्यानादित्वम् — आदिमत्त्वे हि संसारस्याकस्मादुद्भूतेर्मुक्तानामपि पुनः संसारोद्भूतिप्रसङ्गः, अकृताभ्यागमप्रसङ्गश्च, सुखदुःखादिवैषम्यस्य निर्निमित्तत्वात्; न चेश्वरो वैषम्यहेतुरित्युक्तम् । न चाविद्या केवला वैषम्यस्य कारणम् , एकरूपत्वात् । रागादिक्लेशवासनाक्षिप्तकर्मापेक्षा त्वविद्या वैषम्यकरी स्यात् । न च कर्म अन्तरेण शरीरं सम्भवति, न च शरीरमन्तरेण कर्म सम्भवति — इतीतरेतराश्रयत्वप्रसङ्गः । अनादित्वे तु बीजाङ्कुरन्यायेनोपपत्तेर्न कश्चिद्दोषो भवति । उपलभ्यते च संसारस्यानादित्वं श्रुतिस्मृत्योः । श्रुतौ तावत् — ‘अनेन जीवेनात्मना’ (छा. उ. ६ । ३ । २) इति सर्गप्रमुखे शारीरमात्मानं जीवशब्देन प्राणधारणनिमित्तेनाभिलपन्ननादिः संसार इति दर्शयति । आदिमत्त्वे तु प्रागधारितप्राणः सन् कथं प्राणधारणनिमित्तेन जीवशब्देन सर्गप्रमुखेऽभिलप्येत ? न च धारयिष्यतीत्यतोऽभिलप्येत — अनागताद्धि सम्बन्धादतीतः सम्बन्धो बलवान्भवति, अभिनिष्पन्नत्वात् । ‘सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्’ (ऋ. सं. १० । १९० । ३) इति च मन्त्रवर्णः पूर्वकल्पसद्भावं दर्शयति । स्मृतावप्यनादित्वं संसारस्योपलभ्यते — ‘न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा’ (भ. गी. १५ । ३) इति । पुराणे चातीतानामनागतानां च कल्पानां न परिमाणमस्तीति स्थापितम् ॥ ३६ ॥

उपपत्तिमेव मोक्षकाण्डप्रमाण्यानुपपत्तिलक्षणां विवृणोति -

आदिमत्त्व इति ।

अन्यथा कर्मकाण्डप्रामाण्यानुपपत्तेश्च संसारस्थानादित्वमादेयमित्याह -

अकृतेति ।

अननुष्ठिते कर्मणि फलप्राप्तौ विधिनिषेधशास्त्रानर्थक्यमिति भावः ।

सुखादिवैषम्यस्य कर्मनिमित्तत्वाभावेऽपि निमित्तान्तरं भविष्यतीति चेत्तत्किमीश्वरः किंवाऽविद्या अथवा शरीरमिति विकल्प्याद्यं दूषयति -

नचेति ।

उक्तम् ।

‘ईश्वरस्तु पर्जन्यवत्’ इत्यादाविति शेषः ।

द्वितीयेऽपि केवलाविद्या वैषम्यहेतुरुत रागाद्यपेक्षेति विकल्प्याद्यं प्रत्याह -

नचाविद्येति ।

स्वापादावदर्शनादिति भावः ।

कल्पान्तरे संसारस्थानादित्वं दुर्वारमिति मत्वाह -

रागादीति ।

रागद्वेषमोहा रागादयः । ते च पुरुषं दुःखादिभिः क्लिश्यन्तीति क्लेशास्तेषां वासनाः कर्मप्रवृत्त्यनुगुणास्ताभिराक्षिप्तं धर्मादिलक्षणं कर्म तदपेक्षाऽविद्या स्वाश्रये सुखादिवैषम्यं करोति । अविद्या खल्वनादिरनिर्वाच्या चिन्मात्रे प्रतीचि वर्तमाना तत्र भ्रान्तिमुपनयति, सा च शोभनाशोभनाध्यासरूपा रागद्वेषद्वारा पुण्यापुण्ये निर्वर्तयति, ते च विचित्रे सुखदुःखे सञ्चिनुत इत्यनाद्यविद्यायाः परम्परया वैषम्यहेतुत्वे संसारस्यानादित्वमावश्यकम् , उक्तविभ्रमादेरेव संसारत्वात्तस्य च प्रवाहरूपेणानादित्वादिति भावः ।

तृतीयं निरस्यति -

नचति ।

अस्तु तर्हि कर्मनिबन्धनं शरीरं वैषम्यकारणं, तत्राह -

नच शरीरमिति ।

कथं तर्हि परस्पराश्रयत्वं परिहर्तुं पार्यते, तत्राह -

अनादित्वे त्विति ।

उपपत्तेः हेतुफलभावस्येति शेषः ।

संसारस्यानादित्वसाधनमुपपत्तिरनुग्राह्यमानाभावे न तदुपपादयितुमलमित्याशङ्क्य सूत्रावयवं व्याकरोति -

उपलभ्यते चेति ।

संसारोऽनादिरित्येवंवादिन्यौ श्रुतिस्मृती नैव दृश्येते, तत्कथमिदमीदृशमित्याशङ्क्य श्रौतं लिङ्गं संसारस्यानादित्वसाधकमादर्शयति -

श्रुतौ तावदिति ।

शारीरस्यात्मनः सर्गप्रमुखे प्राणधारणनिमित्तेन जीवशब्देन परदेवतायाः परामृश्यमानत्वेऽपि कुतः संसारस्यानादित्वमित्याशङ्क्याह -

आदिमत्त्वे त्विति ।

प्रागनवधारितप्रणः । सन्नात्मा शारीर इति शेषः ।

ननु भाविनीं वृत्तिमाश्रित्यात्मनि जीवशब्दो ‘गृहस्थः सदृशीं भार्याम्’ इतिवद्भविष्यति, नेत्याह -

नचेति ।

संसारस्यानादित्वे श्रौतं लिङ्गान्तरमाह -

सूर्येति ।

श्रुतौ स्मृतौ चोपलभ्यते संसारस्यानादित्वमिति प्रतिज्ञाय श्रौतमुपलम्भमुपदर्श्य स्मार्तमुपलम्भमुपदर्शयति -

स्मृताविति ।

अस्य संसारवृक्षस्य परिकल्पितस्य रूपं पारमार्थिकमधिष्ठानं परं ब्रह्म तत्तथा घटादिवत्प्राकृतैर्व्यवहारभूमौ नोपलभ्यते । न चान्तोऽवसानमन्तरेण ब्रह्मविद्यामस्य दृश्यते । आदिश्चासत्त्वादेवास्य नावसीयते । सम्प्रतिष्ठा मध्यं चास्य न प्रतिभाति । अनिर्वाच्यत्वादित्यर्थः ।

श्रुतिस्मृतिसिद्धेऽर्थे पौराणिकीं संमतिमाह -

पुराणे चेति ॥ ३६ ॥