अत्र पूर्वपक्षे साङ्ख्ययुक्तिविरोधादसिद्धिः समन्वयस्य फलति, सिद्धान्ते तु तदविरोधात्तत्सिद्धिः । तत्र प्रधानमचेतनं जगदुपादानमिति साङ्ख्यराद्धान्तो विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति विप्रतिपत्तेः सन्देहे पूर्वपक्षमाह -
तत्रेति ।
साङ्ख्यीयमनुमानं वक्तुं व्याप्तिमाह -
यथेति ।
ये यत्स्वभावान्वितास्ते तत्स्वभाववस्तुप्रकृतिकाः, यथा घटादयो मृत्स्वभावान्वितास्तत्प्रकृतिका इत्यर्थः ।
पक्षधर्मतां हेतोर्दर्शयन्ननुमानमाह -
तथेति ।
सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकं, तत्स्वभावान्वितत्वात् , घटादिवदित्यर्थः ।
ननु सर्वस्य कार्यस्योपादानं सुखदुःखमोहात्मकं किञ्चिद्भविष्यति तथापि कथं प्रधानसिद्धिः, तत्राह -
यत्तदिति ।
सुखदुःखमोहात्मतैव सत्त्वरजस्तमोरूपतेति मन्वानो विशिनष्टि -
तत्त्रिगुणमिति ।
कार्यमचेतनं दृष्ट्वा तत्कारणमपि तादृगेवानुमेयमित्याह -
मृद्वदिति ।
किमर्थं तत्परिणमते, तत्राह -
चेतनस्येति ।
अर्थशब्दो भोगापवर्गार्थः ।
अचेतनस्य प्रयोजनपरिज्ञानाभावादप्रवृत्तिः ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति न्यायादित्याशङ्क्याह -
स्वभावेनेति ।
विचित्रो विविधो महदहङ्कारादिविकारस्तद्रूपेणेति यावत् ।‘भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य’ इत्यव्यक्तसिद्धिहेतुषु परोक्तेषु समन्वयाख्यं हेतुमुपसंहर्तुमितिशब्दः ।
हेत्वन्तराण्यवतारयति -
तथेति ।
भिद्यन्त इति भेदा विकारास्तेषां परिमाणमियत्ता, ततो लिङ्गत्तदेव प्रधानमनुमिमते । विमतमविभक्तैकवस्तुप्रकृतिकं, परिमितत्वात् , घटादिवत् । प्रवृत्तिशक्तिमत्त्वादपि तदेव प्रधानमनुमिन्वन्ति । विमतं जडप्रकृतिकं सादित्वे सति प्रवृत्तिशक्तिमत्त्वात् , रथादिवत् । सादित्वात्प्रकृतिमात्रसिद्धौ तद्विशेषसिद्ध्यर्थं विशेषणम् । कारणकार्यविभागादपि लिङ्गात्तदेव निश्चिन्वन्ति । यत उत्पद्यते तत्कारणं यच्चोत्पद्यते तत्कार्यमित्येतयोर्लोकप्रसिद्ध्योर्विभागः । स च समयोरेव दृष्टः । तथाच जगत्प्रकृती तुल्यस्वभावे, प्रकृतिविकारसम्बन्धसम्बन्धित्वात् , मृद्धटवत् । वैश्वरूप्यं विचित्रनानारूपत्वं तस्याविभागादविभक्तजडवस्तुप्रकृतिगमकत्वादपि तदेवाध्यवस्यन्ति । विमतमेकजडवस्तुप्रकृतिकं, विचित्ररचनात्मकत्वात् , एकबीजप्रसूताङ्कुरपुष्पफलादिवदित्यर्थः ।