ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥
तत्र साङ्ख्या मन्यन्ते — यथा घटशरावादयो भेदा मृदात्मकतयान्वीयमाना मृदात्मकसामान्यपूर्वका लोके दृष्टाः, तथा सर्व एव बाह्याध्यात्मिका भेदाः सुखदुःखमोहात्मकतयान्वीयमानाः सुखदुःखमोहात्मकसामान्यपूर्वका भवितुमर्हन्ति । यत्तत्सुखदुःखमोहात्मकं सामान्यं तत्त्रिगुणं प्रधानं मृद्वदचेतनं चेतनस्य पुरुषस्यार्थं साधयितुं स्वभावेनैव विचित्रेण विकारात्मना प्रवर्तत इति । तथा परिमाणादिभिरपि लिङ्गैस्तदेव प्रधानमनुमिमते ॥

अत्र पूर्वपक्षे साङ्ख्ययुक्तिविरोधादसिद्धिः समन्वयस्य फलति, सिद्धान्ते तु तदविरोधात्तत्सिद्धिः । तत्र प्रधानमचेतनं जगदुपादानमिति साङ्ख्यराद्धान्तो विषयः । स किं प्रमाणमूलो भ्रान्तिमूलो वेति विप्रतिपत्तेः सन्देहे पूर्वपक्षमाह -

तत्रेति ।

साङ्ख्यीयमनुमानं वक्तुं व्याप्तिमाह -

यथेति ।

ये यत्स्वभावान्वितास्ते तत्स्वभाववस्तुप्रकृतिकाः, यथा घटादयो मृत्स्वभावान्वितास्तत्प्रकृतिका इत्यर्थः ।

पक्षधर्मतां हेतोर्दर्शयन्ननुमानमाह -

तथेति ।

सर्वं कार्यं सुखदुःखमोहात्मकवस्तुप्रकृतिकं, तत्स्वभावान्वितत्वात् , घटादिवदित्यर्थः ।

ननु सर्वस्य कार्यस्योपादानं सुखदुःखमोहात्मकं किञ्चिद्भविष्यति तथापि कथं प्रधानसिद्धिः, तत्राह -

यत्तदिति ।

सुखदुःखमोहात्मतैव सत्त्वरजस्तमोरूपतेति मन्वानो विशिनष्टि -

तत्त्रिगुणमिति ।

कार्यमचेतनं दृष्ट्वा तत्कारणमपि तादृगेवानुमेयमित्याह -

मृद्वदिति ।

किमर्थं तत्परिणमते, तत्राह -

चेतनस्येति ।

अर्थशब्दो भोगापवर्गार्थः ।

अचेतनस्य प्रयोजनपरिज्ञानाभावादप्रवृत्तिः ‘प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते’ इति न्यायादित्याशङ्क्याह -

स्वभावेनेति ।

विचित्रो विविधो महदहङ्कारादिविकारस्तद्रूपेणेति यावत् ।‘भेदानां परिमाणात्समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य’ इत्यव्यक्तसिद्धिहेतुषु परोक्तेषु समन्वयाख्यं हेतुमुपसंहर्तुमितिशब्दः ।

हेत्वन्तराण्यवतारयति -

तथेति ।

भिद्यन्त इति भेदा विकारास्तेषां परिमाणमियत्ता, ततो लिङ्गत्तदेव प्रधानमनुमिमते । विमतमविभक्तैकवस्तुप्रकृतिकं, परिमितत्वात् , घटादिवत् । प्रवृत्तिशक्तिमत्त्वादपि तदेव प्रधानमनुमिन्वन्ति । विमतं जडप्रकृतिकं सादित्वे सति प्रवृत्तिशक्तिमत्त्वात् , रथादिवत् । सादित्वात्प्रकृतिमात्रसिद्धौ तद्विशेषसिद्ध्यर्थं विशेषणम् । कारणकार्यविभागादपि लिङ्गात्तदेव निश्चिन्वन्ति । यत उत्पद्यते तत्कारणं यच्चोत्पद्यते तत्कार्यमित्येतयोर्लोकप्रसिद्ध्योर्विभागः । स च समयोरेव दृष्टः । तथाच जगत्प्रकृती तुल्यस्वभावे, प्रकृतिविकारसम्बन्धसम्बन्धित्वात् , मृद्धटवत् । वैश्वरूप्यं विचित्रनानारूपत्वं तस्याविभागादविभक्तजडवस्तुप्रकृतिगमकत्वादपि तदेवाध्यवस्यन्ति । विमतमेकजडवस्तुप्रकृतिकं, विचित्ररचनात्मकत्वात् , एकबीजप्रसूताङ्कुरपुष्पफलादिवदित्यर्थः ।