ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
रचनानुपपत्तेश्च नानुमानम् ॥ १ ॥
तत्र वदामः — यदि दृष्टान्तबलेनैवैतन्निरूप्येत, नाचेतनं लोके चेतनानधिष्ठितं स्वतन्त्रं किञ्चिद्विशिष्टपुरुषार्थनिर्वर्तनसमर्थान्विकारान्विरचयद्दृष्टम् । गेहप्रासादशयनासनविहारभूम्यादयो हि लोके प्रज्ञावद्भिः शिल्पिभिर्यथाकालं सुखदुःखप्राप्तिपरिहारयोग्या रचिता दृश्यन्ते । तथेदं जगदखिलं पृथिव्यादि नानाकर्मफलोपभोगयोग्यं बाह्यमाध्यात्मिकं च शरीरादि नानाजात्यन्वितं प्रतिनियतावयवविन्यासमनेककर्मफलानुभवाधिष्ठानं दृश्यमानं प्रज्ञावद्भिः सम्भाविततमैः शिल्पिभिर्मनसाप्यालोचयितुमशक्यं सत् कथमचेतनं प्रधानं रचयेत् ? लोष्टपाषाणादिष्वदृष्टत्वात् । मृदादिष्वपि कुम्भकाराद्यधिष्ठितेषु विशिष्टाकारा रचना दृश्यते — तद्वत्प्रधानस्यापि चेतनान्तराधिष्ठितत्वप्रसङ्गः । न च मृदाद्युपादानस्वरूपव्यपाश्रयेणैव धर्मेण मूलकारणमवधारणीयम् , न बाह्यकुम्भकारादिव्यपाश्रयेण — इति किञ्चिन्नियामकमस्ति । न चैवं सति किञ्चिद्विरुध्यते, प्रत्युत श्रुतिरनुगृह्यते, चेतनकारणसमर्पणात् । अतो रचनानुपपत्तेश्च हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति । अन्वयाद्यनुपपत्तेश्चेति चशब्देन हेतोरसिद्धिं समुच्चिनोति । न हि बाह्याध्यात्मिकानां भेदानां सुखदुःखमोहात्मकतयान्वय उपपद्यते, सुखादीनां चान्तरत्वप्रतीतेः, शब्दादीनां चातद्रूपत्वप्रतीतेः, तन्निमित्तत्वप्रतीतेश्च, शब्दाद्यविशेषेऽपि च भावनाविशेषात्सुखादिविशेषोपलब्धेः । तथा परिमितानां भेदानां मूलाङ्कुरादीनां संसर्गपूर्वकत्वं दृष्ट्वा बाह्याध्यात्मिकानां भेदानां परिमितत्वात्संसर्गपूर्वकत्वमनुमिमानस्य सत्त्वरजस्तमसामपि संसर्गपूर्वकत्वप्रसङ्गः, परिमितत्वाविशेषात् । कार्यकारणभावस्तु प्रेक्षापूर्वकनिर्मितानां शयनासनादीनां दृष्ट इति न कार्यकारणभावाद्बाह्याध्यात्मिकानां भेदानामचेतनपूर्वकत्वं शक्यं कल्पयितुम् ॥ १ ॥

समन्वयस्य साङ्ख्ययुक्तिविरोधादसम्भवे प्राप्ते सिद्धान्तयति -

तत्रेति ।

यत्त्वनुमानैरचेतनप्रकृतिकं जगदिति तत्राचेतनप्रकृतिकत्वमात्रं जगतः साध्यं स्वतन्त्राचेतनप्रकृतिकत्वं वा । प्रथमे सिद्धसाधनम् , ईश्वराधिष्ठितत्रिगुणात्मकमायाया जगत्प्रकृतिकत्वावगमात् । द्वितीये विरुद्धता सत्प्रतिपक्षसाधनता चेति मत्वाह -

यदीति ।

स्वतन्त्रमचेतनं जगदुपादानमेतदित्युक्तम् ।

दृष्टान्तस्य साध्यविकलतामभिसन्धायोक्तम् -

नाचेतनमिति ।

स्वातन्त्र्यमेव व्याचष्टे -

चेतनेति ।

यादृच्छिकवायुजलादिभूतान्तरसम्पर्काधीनतया कार्यमात्रोत्पत्तावपि जलाहरणादिसमर्थघटादिकार्यजनकत्वं चेतनानधिष्ठितस्य मृदादेर्नास्तीति मन्वानो विशिनष्टि -

विशिष्टेति ।

अधुना विरुद्धतां सप्रतिसाधनतां च दर्शयन्व्याप्तिमाह -

गेहेति ।

यद्धि विचित्रं कार्यं तन्न स्वतन्त्राचेतनप्रकृतिकं यथा गृहप्रासादादीत्यर्थः ।

विचित्रकार्यत्वस्य पक्षधर्मतामादर्शयति -

तथेति ।

जगद्विविधं बाह्यमाध्यात्मिकं च । बाह्यं पृथिव्यादि । तद्विशिनष्टि -

नानेति ।

नानाविधं कर्म शुभाशुभं व्यामिश्ररूपं, अस्य फलं सुखं दुःखं च, तदुपभोगयोग्यम् , साधनमित्यर्थः ।

आध्यात्मिकं देहादिजगद्विशिनष्टि -

नानेत्यादिना ।

देवतिर्यङ्मनुष्यत्वाद्या नानाविधा जातयस्ताभिरन्वितम् , तासामधिष्ठानमित्यर्थः ।

तस्य चेतनकृतत्वसम्भावनार्थमाह -

प्रतिनियतेति ।

प्रतिनियता अवयवविन्यासा यत्र देहादौ तत्तथोक्तम् । देहाद्याश्रयस्यैवात्मनः सुखाद्यनुभवात्तदधिष्ठानत्वं देहादेरौपचारिकमिति मत्वोक्तम् -

अनेककर्मेति ।

विशिष्टरचनात्मकतां जगतो दर्शयति -

प्रज्ञावद्भिरिति ।

तेन क्षेत्रज्ञानधिष्ठितप्रधानकार्यत्वं जगतोऽर्थादपास्तम् ।

विमतं न स्वतन्त्राचेतनकार्यं, विचित्रकार्यत्वात् , विशिष्टरचनात्मकत्वाद्वा, विशिष्टशिल्पिनिर्मितप्रासादादिवदित्यनुमानमाह -

कथमिति ।

किञ्च न प्रधानं जगत्कारणं, केवलाचेतनत्वात् , लोष्टवदित्याह -

लोष्टेति ।

किञ्च विमतं विशिष्टचेतनाधिष्ठितमेव स्वकार्यकरम् , अचेतनत्वात् , मृदादिवदित्याह -

मृदादिष्वपीति ।

ननु दृष्टान्तधर्मिण्यचेतनं तावदुपादानं दृष्टं तत्र चेतनप्रयुक्तत्वे दृष्टेऽपि तत्प्रयुक्तत्वं बहिरङ्गत्वादप्रयोजकमचेतनत्वमात्रमुपादानगतमन्तरङ्गत्वात्प्रयोजकम् । तथा च यथा निषिद्धत्वप्रयुक्ता व्याप्तिरधर्मत्वस्य हिंसात्वेऽध्यस्यते तथा विशिष्टरचनात्मकत्वादावेकत्र साधने प्रकृतिगताचेतनत्वचेतनाधिष्ठितत्वसाध्यद्वयवत्यन्तरङ्गाचेतनत्वप्रयुक्ता हेतुसाध्ययोर्व्याप्तिर्बहिरङ्गचेतनाधिष्ठितत्वेऽध्यस्तेति कुतो जगतश्चेतनाधिष्ठिताचेतनप्रकृतिकत्वमत आह -

न चेति ।

नान्तरङ्गबहिरङ्गत्वकृते व्यापकत्वाव्यापकत्वे किं त्वव्यभिचारव्यभिचारकृते । महानसादिस्वरूपस्यान्तरङ्गस्यापि व्यभिचाराद्धूमवत्त्वं प्रत्यव्यापकत्वात् , बहिरङ्गस्यापि वह्निसंयोगस्याव्यभिचाराद्व्यापकत्वादिति भावः ।

किञ्च मृदादिगतचेतनप्रयुक्तत्वस्य जगत्प्रकृतावनुपगमो मानान्तरविरोधाद्वा तदनुग्रहाभावाद्वेति विकल्प्याद्यं दूषयति -

न चैवमिति ।

मृदादिलौकिकप्रकृतिषु दृष्टचेतनप्रयुक्तत्वस्य जगत्प्रकृतावभ्युपगमे सतीति यावत् ।

द्वितीयं प्रत्याह -

प्रत्युतेति ।

सम्प्रति साधनत्वादिफलमुपसंहरति -

अत इति ।

पादस्याद्ये सूत्रे हेत्वन्तरानुक्तिपरे चशब्दानुपपत्तिरित्याशङ्क्याह -

अन्वयादीति ।

नाचेतनं जगत्कारणमनुमातव्यमिति पूर्वेण हेत्वन्तरं सम्बध्यते ।

ननु सर्वस्यापि कार्यस्य यथायथं सुखादिव्यञ्जकत्वेन तदन्वितत्वानुभवात्कथमन्वयानुपपत्तिः, तत्राह -

न हीति ।

प्रत्यक्षविरुद्धतया कालात्ययापदिष्टत्वाच्चायुक्तः समन्वयहेतुरित्याह -

सुखादीनामिति ।

किञ्च शब्दादयो न सुखाद्यात्मानः, तन्निमित्तत्वात् , यद्यन्निमित्तं न तत्तदात्मकं, यथा कुलालादि कुम्भादिनिमित्तं न तदात्मकमिति प्रत्यनुमानमाह -

तन्निमित्तत्वेति ।

किञ्च शब्दाद्युपलभमानानां प्रत्येकमपर्यायेण सुखदुःखमोहप्रतीत्यभावाद्योग्यानुपलब्धिविरुद्धमनुमानमित्याह -

शब्दादीति ।

भावना तत्तज्जातियोग्या वासना तद्विशेषादुष्ट्रादीनां कण्टकादौ सुखादिदर्शनात्स्वतः सुखादिरूपताभावाद्रूपादीनां सामान्यादीनां च द्रव्येष्वनुगतनामतदुपादानत्वादनैकान्तिकश्च समन्वयः । तस्मादनुपपत्तिः सिद्धेत्यर्थः ।

आदिशब्दोपात्तां परिमितत्वानुपपत्तिं कथयति -

तथेति ।

तस्याः स्फुटीकरणार्थं परोक्तमनुमानमनुवदति -

परिमितानामिति ।

अविभक्तमेकमनुगतं वस्तु संसर्गशब्देन लक्ष्यते । देशतो वा कालतो वा वस्तुतो वा परिमितत्वम् । आद्ये भागासिद्धिराकाशादिष्वभावात् । द्वितीये स्वरूपासिद्धिः, पञ्चविंशतितत्त्वातिरिक्तकालानभ्युपगमात् । न च कारणमेव केनचिदुपाधिना कालशब्दवाच्यं, तथा सति परिमितत्वस्य तद्व्याप्यत्वस्य पुरुषेष्वनैकान्तिकत्वादित्यभिप्रेत्य तृतीयं प्रत्याह -

सत्त्वेति ।

संसर्गपूर्वकत्वप्रसङ्ग इति ।

गुणानां संसृष्टानेकवस्तुप्रकृतिकत्वप्रसक्तिरित्यर्थः ।

प्रकृतिविकारतुल्यस्वभावानुमानस्य प्रत्यनुमानविरोधमाह -

कार्येति ।

विमतं न केवलाचेतनपूर्वकं, कार्यत्वात् , सम्प्रतिपन्नवदित्यर्थः ॥ १ ॥