ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
प्रवृत्तेश्च ॥ २ ॥
आस्तां तावदियं रचना । तत्सिद्ध्यर्था या प्रवृत्तिः — साम्यावस्थानात्प्रच्युतिः, सत्त्वरजस्तमसामङ्गाङ्गिभावरूपापत्तिः, विशिष्टकार्याभिमुखप्रवृत्तिता — सापि नाचेतनस्य प्रधानस्य स्वतन्त्रस्योपपद्यते, मृदादिष्वदर्शनाद्रथादिषु च । न हि मृदादयो रथादयो वा स्वयमचेतनाः सन्तश्चेतनैः कुलालादिभिरश्वादिभिर्वानधिष्ठिता विशिष्टकार्याभिमुखप्रवृत्तयो दृश्यन्ते । दृष्टाच्चादृष्टसिद्धिः । अतः प्रवृत्त्यनुपपत्तेरपि हेतोर्नाचेतनं जगत्कारणमनुमातव्यं भवति । ननु चेतनस्यापि प्रवृत्तिः केवलस्य न दृष्टा — सत्यमेतत् — तथापि चेतनसंयुक्तस्य रथादेरचेतनस्य प्रवृत्तिर्दृष्टा; न त्वचेतनसंयुक्तस्य चेतनस्य प्रवृत्तिर्दृष्टा । किं पुनरत्र युक्तम् — यस्मिन्प्रवृत्तिर्दृष्टा तस्य सा, उत यत्सम्प्रयुक्तस्य दृष्टा तस्य सेति ? ननु यस्मिन्दृश्यते प्रवृत्तिस्तस्यैव सेति युक्तम् , उभयोः प्रत्यक्षत्वात्; न तु प्रवृत्त्याश्रयत्वेन केवलश्चेतनो रथादिवत्प्रत्यक्षः । प्रवृत्त्याश्रयदेहादिसंयुक्तस्यैव तु चेतनस्य सद्भावसिद्धिः — केवलाचेतनरथादिवैलक्षण्यं जीवद्देहस्य दृष्टमिति । अत एव च प्रत्यक्षे देहे सति दर्शनादसति चादर्शनाद्देहस्यैव चैतन्यमपीति लोकायतिकाः प्रतिपन्नाः । तस्मादचेतनस्यैव प्रवृत्तिरिति । तदभिधीयते — न ब्रूमः यस्मिन्नचेतने प्रवृत्तिर्दृश्यते न तस्य सेति । भवतु तस्यैव सा । सा तु चेतनाद्भवतीति ब्रूमः, तद्भावे भावात्तदभावे चाभावात् — यथा काष्ठादिव्यपाश्रयापि दाहप्रकाशादिलक्षणा विक्रिया, अनुपलभ्यमानापि च केवले ज्वलने, ज्वलनादेव भवति, तत्संयोगे दर्शनात्तद्वियोगे चादर्शनात् — तद्वत् । लोकायतिकानामपि चेतन एव देहोऽचेतनानां रथादीनां प्रवर्तको दृष्ट इत्यविप्रतिषिद्धं चेतनस्य प्रवर्तकत्वम् । ननु तव देहादिसंयुक्तस्याप्यात्मनो विज्ञानस्वरूपमात्रव्यतिरेकेण प्रवृत्त्यनुपपत्तेरनुपपन्नं प्रवर्तकत्वमिति चेत् , न । अयस्कान्तवद्रूपादिवच्च प्रवृत्तिरहितस्यापि प्रवर्तकत्वोपपत्तेः । यथायस्कान्तो मणिः स्वयं प्रवृत्तिरहितोऽप्ययसः प्रवर्तको भवति, यथा वा रूपादयो विषयाः स्वयं प्रवृत्तिरहिता अपि चक्षुरादीनां प्रवर्तका भवन्ति, एवं प्रवृत्तिरहितोऽपीश्वरः सर्वगतः सर्वात्मा सर्वज्ञः सर्वशक्तिश्च सन् सर्वं प्रवर्तयेदित्युपपन्नम् । एकत्वात्प्रवर्त्याभावे प्रवर्तकत्वानुपपत्तिरिति चेत् , न । अविद्याप्रत्युपस्थापितनामरूपमायावेशवशेनासकृत्प्रत्युक्तत्वात् । तस्मात्सम्भवति प्रवृत्तिः सर्वज्ञकारणत्वे, न त्वचेतनकारणत्वे ॥ २ ॥

यद्यपि स्वतन्त्रस्य कारणस्य प्रवृत्तिरत्र निरस्यते तथापि तुल्यन्यायतया कार्यस्यापि सा निरस्तैव भवतीति ‘शक्तितः प्रवृत्तेश्च’ इत्यस्य हेतोर्विरुद्धतोपदर्शनमिदमित्याशयवानाह -

आस्तामिति ।

का सा रचनार्था प्रवृत्तिर्यस्याः संप्रत्यनुपपत्तिरुपन्यस्यते, तामाह -

साम्येति ।

नन्वेषैव रचना न पुना रचनार्थेत्याशङ्क्याह -

सत्त्वेति ।

तस्य रचनार्थत्वं स्पष्टयति -

विशिष्टेति ।

न हि साम्यावस्थायां प्रधानस्य विचित्रविकाररचनाभिमुख्येन प्रवृत्तिरवकल्पते, तथा च गुणवैषम्यापत्तेर्भवति रचनार्थेत्यास्थेयमित्यर्थः ।

विमतं न प्रवृत्तिशक्तिमत् , केवलाचेतनत्वात् , संमतवदित्याह -

सापीति ।

दृष्टान्तस्य साध्यवैकल्यमुद्धरति -

न हीति ।

तेषु स्वतन्त्रेषु प्रवृत्त्यभावेऽपि प्रधाने तथाविधे सा स्यादिति व्यवस्थामाशङ्क्याह -

दृष्टाच्चेति ।

अचेतनं मृदादि चेतनानधिष्ठितं प्रवृत्तिशक्तिशून्यं दृष्टं, ततश्चादृष्टे प्रधानेऽपि स्वतन्त्रे प्रवृत्तिशक्तिराहित्यामिति कल्पनाया दृष्टानुसारित्वादित्यर्थः ।

अनुमानफलं निगमयति -

अत इति ।

समन्वयाद्यनुपपत्तिं दृष्टान्तयितुमपिशब्दः ।

अचेतनस्य प्रवृत्तिं प्रतिषेधता केवलचेतनस्य वा तस्यैवाचेतनसंयुक्तस्य वा प्रवृत्तिर्विवक्षितेति विकल्प्याद्यं दूषयन्नाशङ्कते -

नन्विति ।

केवलस्य चेतनस्य प्रवृत्तिरदृष्टेत्येतदङ्गीकरोति -

सत्यमिति ।

केवलस्याचेतनस्यैव प्रवृत्तिः स्यादित्याशङ्क्याह -

तथापीति ।

चेतनमात्रस्यादृष्टापि प्रवृत्तिरुभयसम्बन्धादुत्पद्यमाना किमित्यचेतनाधीना, चेतनाधीनैव किं न स्यादित्यर्थः ।

उभयसम्बन्धात्प्रवृत्त्युत्पत्तावपि चेतनस्य तदाश्रयत्वादर्शनादचेतनस्यैव तद्दर्शनात्तस्यैव प्रवृत्तिरिति मन्वानो द्वितीयं निराकुर्वन्नाशङ्कते -

न त्विति ।

तुशब्दश्चेतनस्य जगत्सर्गे प्रवृत्तिरिति मतव्यावृत्त्यर्थः । सर्वा प्रवृत्तिरचेतनाश्रयैव दृष्टा न तु चेतनाश्रया तन्न सिद्धान्तसिद्धिरित्यर्थः ।

तन्न प्रश्नपूर्वकं सिद्धान्ती गूढाभिसन्धिर्विमृशति -

किं पुनरिति ।

केवलस्य चेतनस्याचेतनस्य वा प्रवृत्त्यदर्शनदशायामिति सप्तम्यर्थः ।

यस्मिन्नित्यचेतनस्य रथादेरुक्तिः । तस्येति संयोगिनश्चेतनस्याभिधानम् । तत्र साङ्ख्यो ब्रूते -

नन्विति ।

युक्तत्वे हेतुमाह -

उभयोरिति ।

प्रवृत्तितदाश्रययोरिति यावत् ।

आत्मनोऽपि प्रत्यक्षत्वात्प्रवृत्तितदाश्रययोस्तुल्यं प्रत्यक्षत्वं पक्षान्तरेऽपीत्याशङ्क्याह -

न त्विति ।

प्रत्यक्षत्वाभावे कथमात्मसिद्धिरित्याशङ्क्यानुमानादित्याह -

प्रवृत्तीति ।

अनुमानसिद्धस्य चेतनस्य न प्रवृत्त्याश्रयतेति दर्शयितुमेवकारः ।

कथमनुमानमित्यपेक्षायां तत्प्रकारं सूचयति -

केवलेति ।

वैलक्षण्यं प्राणादिमत्त्वम् । इतिशब्दो यस्मादर्थे । जीवद्देहः सात्मकः, प्राणादिमत्त्वात् , न यः सात्मको न स प्राणादिमान् यथा रथ इत्यनुमानात्तत्सद्भावमात्रं सिध्यतीत्यर्थः ।

केवलचेतनो न प्रवृत्त्याश्रयतया प्रत्यक्षो भवतीत्यत्र लिङ्गमाह -

अत एवेति ।

केवलश्चेतनो यतो न प्रत्यक्षीभवत्यत एव लोकायतानां विवादः । अन्यथा व्यतिरिक्तात्मनि विवादो न स्यादित्यर्थः । दर्शनात्प्रवृत्तेश्चैतन्यस्य चेत्यध्याहारः ।

चेतनाश्रयप्रवृत्तिरप्रत्यक्षा प्रत्यक्षा त्वचेतनाश्रयेति स्थिते फलितमाह -

तस्मादिति ।

अचेतनस्य प्रवृत्तिमत्त्वमुपेत्य चेतनस्य तत्र प्रयोजकत्वमेष्टव्यमिति परिहरति -

तदभिधीयत इति ।

किमचेतनस्य प्रवृत्त्याश्रयत्वमेव साध्यते किं वा प्रवृत्तेश्चेतनानपेक्षत्वमपीति विकल्प्याद्यमङ्गीकरोति -

नेत्यादिना ।

द्वितीयं प्रत्याह -

सा त्विति ।

प्रवृत्तेश्चेतनकृतत्वेऽन्वयव्यतिरेकौ प्रमाणयति -

तद्भाव इति ।

न च रथादौ प्राणाद्यभावेऽपि प्रवृत्त्यभावासम्भवाद्व्यतिरेकासिद्धिः । प्राणादेरपि रथादिवदचेतनत्वाच्चेतनाधीनप्रवृत्तिकत्वानुमानात्प्राणादीनां च प्राणाद्यन्तराभावेऽपि प्रवृत्तिदर्शनादिति भावः ।

अन्यगतापि प्रवृत्तिरन्याधीनेत्यत्र दृष्टान्तमाह -

यथेति ।

तत्राप्यन्वयव्यतिरेकौ दर्शयति -

तत्संयोग इति ।

तथोक्ताभ्यामन्वयव्यतिरेकाभ्यामचेतने दृष्टापि प्रवृत्तिश्चेतने सम्भवतीति चेतनकृतैवेत्याह -

तद्वदिति ।

लोकायतमते चेतनस्यैवानुपगमात्कथमन्वयादिना तस्य प्रवृत्तौ प्रयोजकत्वमित्याशङ्क्याह -

लौकायतिकानामिति ।

अचेतनस्य प्रवृत्तिरत्त्वेऽपि प्रवृत्तेश्चेतनाधीनत्वमावश्यकमिति सिद्धान्तिना स्वाभिसन्धिरुक्तः । सम्प्रति प्रवृत्तिमतामेव राजप्रभृतीनां प्रवर्तकत्वोपलम्भादात्मनस्तदभावान्न प्रवर्तकतेति शङ्कते -

नन्विति ।

लोकसिद्धेन साङ्ख्यसम्मतेन च दृष्टान्तेन निराचष्टे -

नेत्यादिना ।

लोकसिद्धदृष्टान्तं विवृणोति -

यथेति ।

द्वितीयमुदाहरणं प्रपञ्चयति -

यथा वेति ।

दृष्टान्तयोर्दार्ष्टान्तिकमाह -

एवमिति ।

तस्य प्रवर्तकत्वार्थं प्रवर्त्यसम्बन्धमाह -

सर्वगत इति ।

सर्वमूर्तसंयोगं व्यावर्तयति -

सर्वात्मेति ।

बुद्धिपूर्वकारिणो हि प्रवर्तकत्वं दृष्टमित्युपेत्यात्रापि तदापादयति -

सर्वज्ञ इति ।

ईश्वरस्य सर्वप्रवर्तकत्वे युक्त्यन्तरमाह -

सर्वेति ।

सर्वात्मेत्युक्तमद्वितीयत्वं श्रुत्या चोदयति -

एकत्वादिति ।

कल्पितस्य द्वैतस्य प्रवर्त्यत्वसम्भवान्मायोपाधिकस्येश्वरस्य प्रवर्तकत्वमविरुद्धमिति परिहरति -

न । आविद्येति ।

अनादिरनिर्वाच्याविद्या तया प्रत्युपस्थापिते कल्पिते नामरूपे एव मायाकार्यत्वान्माया तत्रावेशोऽध्यस्तचिदात्मसम्बन्धस्तद्वशेन तस्येश्वरादिभावस्यासकृदुक्तत्वेनास्य चोद्यस्य प्रत्युक्तत्वान्मैवमित्यर्थः ।

स्वपक्षे रचनार्थप्रवृत्त्युपपत्तिमुपसंहरति -

तस्मादिति ।

परमते तदनुपपत्तिं निगमयति -

न त्विति ॥ २ ॥