ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
पयोम्बुवच्चेत्तत्रापि ॥ ३ ॥
स्यादेतत् — यथा क्षीरमचेतनं स्वभावेनैव वत्सविवृद्ध्यर्थं प्रवर्तते, यथा च जलमचेतनं स्वभावेनैव लोकोपकाराय स्यन्दते, एवं प्रधानमचेतनं स्वभावेनैव पुरुषार्थसिद्धये प्रवर्तिष्यत इति । नैतत्साधूच्यते, यतस्तत्रापि पयोम्बुनोश्चेतनाधिष्ठितयोरेव प्रवृत्तिरित्यनुमिमीमहे, उभयवादिप्रसिद्धे रथादावचेतने केवले प्रवृत्त्यदर्शनात् । शास्त्रं च — ‘योऽप्सु तिष्ठन् … योऽपोऽन्तरो यमयति’ (बृ. उ. ३ । ७ । ४) ‘एतस्य वा अक्षरस्य प्रशासने गार्गि प्राच्योऽन्या नद्यः स्यन्दन्ते’ (बृ. उ. ३ । ८ । ९) इत्येवंजातीयकं समस्तस्य लोकपरिस्पन्दितस्येश्वराधिष्ठिततां श्रावयति । तस्मात्साध्यपक्षनिक्षिप्तत्वात्पयोम्बुवदित्यनुपन्यासः — चेतनायाश्च धेन्वाः स्नेहेच्छया पयसः प्रवर्तकत्वोपपत्तेः, वत्सचोषणेन च पयस आकृष्यमाणत्वात् । न चाम्बुनोऽप्यत्यन्तमनपेक्षा, निम्नभूम्याद्यपेक्षत्वात्स्यन्दनस्य; चेतनापेक्षत्वं तु सर्वत्रोपदर्शितम् । ‘उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि’ (ब्र. सू. २ । १ । २४) इत्यत्र तु बाह्यनिमित्तनिरपेक्षमपि स्वाश्रयं कार्यं भवतीत्येतल्लोकदृष्ट्या निदर्शितम् । शास्त्रदृष्ट्या पुनः सर्वत्रैवेश्वरापेक्षत्वमापद्यमानं न पराणुद्यते ॥ ३ ॥

सूत्रे शङ्काभागं विभजते -

स्यादेतदिति ।

क्षीरस्यापि चेतनाधिष्ठितस्यैव प्रवृत्तिरित्याशङ्क्य विशिनष्टि -

स्वभावेनेति ।

तत्प्रवृत्तेरर्थवत्त्वमाह -

वत्सेति ।

केवलचेतनस्याप्रवृत्तिरित्यत्र क्षीरे व्यभिचारमुक्त्वा जलेऽपि व्यभिचारमाह -

यथा चेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

पुरुषार्थो भोगश्चापवर्गश्च ।

तत्रापीति परिहारमवतार्य व्याचष्टे -

नैतदिति ।

कथमनुमानमित्युक्ते तत्प्रकारं सूचयति -

उभयवादीति ।

विमता प्रवृत्तिश्चेतनाधिष्ठानपूर्विका, अचेतनप्रवृत्तित्वात् , सम्प्रतिपन्नप्रवृत्तिवदित्यनुमानात्पयोम्बुनोरपि पक्षान्तर्भावान्न व्यभिचाराशङ्केत्यर्थः ।

किञ्च शास्त्रेण तत्रापि चेतनाधिष्ठितत्वस्य सिद्धत्वेन सपक्षत्वान्न व्यभिचार इत्याह -

शास्त्रं चेति ।

तस्यार्थं सङ्क्षिपति -

समस्तस्येति ।

शास्त्रानुमानाभ्यां सिद्धमर्थमुपसंहरति -

तस्मादिति ।

साध्यपक्षनिक्षिप्तत्वं साध्यवति पक्षे प्रविष्टत्वमेव । तच्च सपक्षनिक्षिप्तत्वस्याप्युपलक्षणम् । अनुपन्यासो न व्यभिचारभूमिरित्यर्थः ।

इतश्च क्षीरदृष्टान्तेऽपि व्यभिचारो नास्तीत्याह -

चेतनायाश्चेति ।

केवलाचेतनस्य पयसो न प्रवृत्तिरित्यत्र हेत्वन्तरमाह -

वत्सचोषणेनेति ।

अम्बुदृष्टान्तेऽपि सर्वथानपेक्षत्वं चेतनानपेक्षत्वं वा प्रवृत्ताविति विकल्प्याद्यं दूषयति -

न चेति ।

द्वितीयं निरस्यति -

चेतनेति ।

उपदर्शितम् । शास्त्रेणेति शेषः ।

सूत्रकारस्य पूर्वापरविरोधमाशङ्क्य परिहरति -

उपसंहारेति ।

लोकदृष्ट्या शास्त्रदृष्टया चेति सूत्रद्वयमविरुद्धमित्यर्थः ॥ ३ ॥