व्यतिरेकानवस्थितिं दर्शयितुं परपक्षमनुवदति -
साङ्ख्यानामिति ।
सम्प्रति व्यतिरेकानवस्थितिं दर्शयति -
नेत्यादिना ।
धर्मादेः सत्त्वेऽपि प्रतिबन्धनिवृत्तिमात्रोपयोगादकादाचित्कत्वाच्च न कादाचित्कप्रवृत्त्यादिप्रयोजकतेति भावः ।
किञ्च प्रधानान्तर्भूतत्वाद्धर्मादेर्न तत्प्रवृत्तिप्रयोजकत्वम् । न हि किञ्चिदपि प्रधानातिरिक्तं तन्मते संमतमस्ति । न च तदेव तत्प्रवृत्त्यादौ प्रयोजकीभवतीत्यभिप्रेत्याह -
बाह्यमिति ।
मा भूद्धर्मादि प्रधानस्य प्रवर्तकं निवर्तकं वा, पुरुषस्तु तथेत्याशङ्क्याह -
पुरुषस्त्विति ।
अपेक्षणीयाभावादनपेक्षत्वे प्रधानस्यागन्तुकप्रवृत्तिनिवृत्त्योरनुपपत्तिरिति फलितमाह -
इत्यत इति ।
परपक्षेऽनुपपत्तिमुक्त्वा स्वपक्षमुपपादयति -
ईश्वरस्येति ॥ ४ ॥