ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
व्यतिरेकानवस्थितेश्चानपेक्षत्वात् ॥ ४ ॥
साङ्ख्यानां त्रयो गुणाः साम्येनावतिष्ठमानाः प्रधानम्; न तु तद्व्यतिरेकेण प्रधानस्य प्रवर्तकं निवर्तकं वा किञ्चिद्बाह्यमपेक्ष्यमवस्थितमस्ति । पुरुषस्तूदासीनो न प्रवर्तको न निवर्तकः — इत्यतोऽनपेक्षं प्रधानम् । अनपेक्षत्वाच्च कदाचित्प्रधानं महदाद्याकारेण परिणमते, कदाचिन्न परिणमते, इत्येतदयुक्तम् । ईश्वरस्य तु सर्वज्ञत्वात्सर्वशक्तित्वान्महामायत्वाच्च प्रवृत्त्यप्रवृत्ती न विरुध्येते ॥ ४ ॥

व्यतिरेकानवस्थितिं दर्शयितुं परपक्षमनुवदति -

साङ्ख्यानामिति ।

सम्प्रति व्यतिरेकानवस्थितिं दर्शयति -

नेत्यादिना ।

धर्मादेः सत्त्वेऽपि प्रतिबन्धनिवृत्तिमात्रोपयोगादकादाचित्कत्वाच्च न कादाचित्कप्रवृत्त्यादिप्रयोजकतेति भावः ।

किञ्च प्रधानान्तर्भूतत्वाद्धर्मादेर्न तत्प्रवृत्तिप्रयोजकत्वम् । न हि किञ्चिदपि प्रधानातिरिक्तं तन्मते संमतमस्ति । न च तदेव तत्प्रवृत्त्यादौ प्रयोजकीभवतीत्यभिप्रेत्याह -

बाह्यमिति ।

मा भूद्धर्मादि प्रधानस्य प्रवर्तकं निवर्तकं वा, पुरुषस्तु तथेत्याशङ्क्याह -

पुरुषस्त्विति ।

अपेक्षणीयाभावादनपेक्षत्वे प्रधानस्यागन्तुकप्रवृत्तिनिवृत्त्योरनुपपत्तिरिति फलितमाह -

इत्यत इति ।

परपक्षेऽनुपपत्तिमुक्त्वा स्वपक्षमुपपादयति -

ईश्वरस्येति ॥ ४ ॥