सूत्रव्यावर्त्यामाशङ्कामाह -
स्यादेतदिति ।
दृष्टान्ते निरपेक्षत्वनिश्चयहेतुं पृच्छति -
कथमिति ।
योग्यानुपलब्धेस्तथेत्याह -
निमित्तान्तरेति ।
तदनुपलब्धिमेव व्यतिरेकद्वारा स्फोरयति -
यदि हीति ।
योग्यानुपलब्ध्या निमित्तान्तराभावे सिद्धे फलितं दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमुपसंहरति -
तस्मादिति ।
धेन्वाश्चेतनस्य क्षीरपरिणामे नास्ति कारणता किन्तु तृणाद्युपयोगेनोपकारितेति चोद्यमनूद्य सूत्रमवतारयति -
अत्रेति ।
‘न तृणादिवत्’ इति भागं विभजते -
भवेदिति ।
आकाङ्क्षापूर्वकं सूत्रावयवमादत्ते -
कथमिति ।
तृणादेः सर्वत्र वा क्षीरीभावे निरपेक्षत्वं चेतने वेति विकल्प्याद्ये दोषमाह -
धेन्वैवेति ।
एवकारव्यावर्त्यं कीर्तयति -
न प्रहीणमिति ।
अनुडुहाद्युपयुक्तमिति तु भाष्य उपयुक्तत्वं नाशङ्कास्पदम् । एतदेव व्यतिरेकद्वारा विवृणोति -
यदि हीति ।
क्षीरीभवनं तृणादेरेतदित्युच्यते यत्तु निमित्तान्तरोपलम्भे तेनैव निमित्तेन तृणान्युपादाय यथाकामं क्षीरं सम्पाद्यतामिति, तत्राह -
न चेति ।
चेतनानपेक्षत्वपक्षं प्रत्याह -
भवति हीति ।
मनुष्याणां तृणादिना क्षीरसम्पादनं दुष्करमित्युपेत्योक्तम् । इदानीं तदेव नास्तीत्याह -
मनुष्या इति ।
तेषामुचितोपायोपादानेन तृणान्यादाय क्षीरसम्पादनसामर्थ्यमेवोदाहरति -
प्रभूतमिति ।
तृणादेः स्वाभाविकपरिणामासम्भवे स्थिते फलितमाह -
तस्मादिति ॥ ५ ॥