ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अन्यत्राभावाच्च न तृणादिवत् ॥ ५ ॥
स्यादेतत् — यथा तृणपल्लवोदकादि निमित्तान्तरनिरपेक्षं स्वभावादेव क्षीराद्याकारेण परिणमते, एवं प्रधानमपि महदाद्याकारेण परिणंस्यत इति । कथं च निमित्तान्तरनिरपेक्षं तृणादीति गम्यते ? निमित्तान्तरानुपलम्भात् । यदि हि किञ्चिन्निमित्तमुपलभेमहि, ततो यथाकामं तेन तेन तृणाद्युपादाय क्षीरं सम्पादयेमहि; न तु सम्पादयामहे । तस्मात्स्वाभाविकस्तृणादेः परिणामः । तथा प्रधानस्यापि स्यादिति । अत्रोच्यते — भवेत्तृणादिवत्स्वाभाविकः प्रधानस्यापि परिणामः, यदि तृणादेरपि स्वाभाविकः परिणामोऽभ्युपगम्येत; न त्वभ्युपगम्यते, निमित्तान्तरोपलब्धेः । कथं निमित्तान्तरोपलब्धिः ? अन्यत्राभावात् । धेन्वैव ह्युपभुक्तं तृणादि क्षीरीभवति, न प्रहीणम् अनडुदाद्युपभुक्तं वा । यदि हि निर्निमित्तमेतत्स्यात् , धेनुशरीरसम्बन्धादन्यत्रापि तृणादि क्षीरीभवेत् । न च यथाकामं मानुषैर्न शक्यं सम्पादयितुमित्येतावता निर्निमित्तं भवति । भवति हि किञ्चित्कार्यं मानुषसम्पाद्यम् , किञ्चिद्दैवसम्पाद्यम् । मनुष्या अपि शक्नुवन्त्येवोचितेनोपायेन तृणाद्युपादाय क्षीरं सम्पादयितुम् । प्रभूतं हि क्षीरं कामयमानाः प्रभूतं घासं धेनुं चारयन्ति; ततश्च प्रभूतं क्षीरं लभन्ते । तस्मान्न तृणादिवत्स्वाभाविकः प्रधानस्य परिणामः ॥ ५ ॥

सूत्रव्यावर्त्यामाशङ्कामाह -

स्यादेतदिति ।

दृष्टान्ते निरपेक्षत्वनिश्चयहेतुं पृच्छति -

कथमिति ।

योग्यानुपलब्धेस्तथेत्याह -

निमित्तान्तरेति ।

तदनुपलब्धिमेव व्यतिरेकद्वारा स्फोरयति -

यदि हीति ।

योग्यानुपलब्ध्या निमित्तान्तराभावे सिद्धे फलितं दृष्टान्तमुपसंहृत्य दार्ष्टान्तिकमुपसंहरति -

तस्मादिति ।

धेन्वाश्चेतनस्य क्षीरपरिणामे नास्ति कारणता किन्तु तृणाद्युपयोगेनोपकारितेति चोद्यमनूद्य सूत्रमवतारयति -

अत्रेति ।

‘न तृणादिवत्’ इति भागं विभजते -

भवेदिति ।

आकाङ्क्षापूर्वकं सूत्रावयवमादत्ते -

कथमिति ।

तृणादेः सर्वत्र वा क्षीरीभावे निरपेक्षत्वं चेतने वेति विकल्प्याद्ये दोषमाह -

धेन्वैवेति ।

एवकारव्यावर्त्यं कीर्तयति -

न प्रहीणमिति ।

अनुडुहाद्युपयुक्तमिति तु भाष्य उपयुक्तत्वं नाशङ्कास्पदम् । एतदेव व्यतिरेकद्वारा विवृणोति -

यदि हीति ।

क्षीरीभवनं तृणादेरेतदित्युच्यते यत्तु निमित्तान्तरोपलम्भे तेनैव निमित्तेन तृणान्युपादाय यथाकामं क्षीरं सम्पाद्यतामिति, तत्राह -

न चेति ।

चेतनानपेक्षत्वपक्षं प्रत्याह -

भवति हीति ।

मनुष्याणां तृणादिना क्षीरसम्पादनं दुष्करमित्युपेत्योक्तम् । इदानीं तदेव नास्तीत्याह -

मनुष्या इति ।

तेषामुचितोपायोपादानेन तृणान्यादाय क्षीरसम्पादनसामर्थ्यमेवोदाहरति -

प्रभूतमिति ।

तृणादेः स्वाभाविकपरिणामासम्भवे स्थिते फलितमाह -

तस्मादिति ॥ ५ ॥