ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अभ्युपगमेऽप्यर्थाभावात् ॥ ६ ॥
स्वाभाविकी प्रधानस्य प्रवृत्तिर्न भवतीति स्थापितम् । अथापि नाम भवतः श्रद्धामनुरुध्यमानाः स्वाभाविकीमेव प्रधानस्य प्रवृत्तिमभ्युपगच्छेम, तथापि दोषोऽनुषज्येतैव । कुतः ? अर्थाभावात् । यदि तावत्स्वाभाविकी प्रधानस्य प्रवृत्तिर्न किञ्चिदन्यदिहापेक्षत इत्युच्यते, ततो यथैव सहकारि किञ्चिन्नापेक्षते एवं प्रयोजनमपि किञ्चिन्नापेक्षिष्यते — इत्यतः प्रधानं पुरुषस्यार्थं साधयितुं प्रवर्तत इतीयं प्रतिज्ञा हीयेत । स यदि ब्रूयात् — सहकार्येव केवलं नापेक्षते, न प्रयोजनमपीति । तथापि प्रधानप्रवृत्तेः प्रयोजनं विवेक्तव्यम् — भोगो वा स्यात् , अपवर्गो वा, उभयं वेति । भोगश्चेत् — कीदृशोऽनाधेयातिशयस्य पुरुषस्य भोगो भवेत् ? अनिर्मोक्षप्रसङ्गश्च । अपवर्गश्चेत् — प्रागपि प्रवृत्तेरपवर्गस्य सिद्धत्वात्प्रवृत्तिरनर्थिका स्यात् , शब्दाद्यनुपलब्धिप्रसङ्गश्च । उभयार्थताभ्युपगमेऽपि भोक्तव्यानां प्रधानमात्राणामानन्त्यादनिर्मोक्षप्रसङ्ग एव । न चौत्सुक्यनिवृत्त्यर्था प्रवृत्तिः । न हि प्रधानस्याचेतनस्यौत्सुक्यं सम्भवति । न च पुरुषस्य निर्मलस्य निष्कलस्यौत्सुक्यम् । दृक्शक्तिसर्गशक्तिवैयर्थ्यभयाच्चेत्प्रवृत्तिः, तर्हि दृक्शक्त्यनुच्छेदवत्सर्गशक्त्यनुच्छेदात्संसारानुच्छेदादनिर्मोक्षप्रसङ्ग एव । तस्मात्प्रधानस्य पुरुषार्था प्रवृत्तिरित्येतदयुक्तम् ॥ ६ ॥

वृत्तमनूद्याभ्युपगमेऽपीति भागमपेक्षितं पूरयन्व्याकरोति -

स्वाभाविकीति ।

प्रश्नपूर्वकं हेतुमादत्ते -

कुत इति ।

पराभिप्रायमनूद्य प्रयोजनापेक्षाभावप्रसङ्गादित्येवंपरतया हेतुं व्याचष्टे -

यदीति ।

प्रसङ्गफलं प्रतिज्ञाहानिं प्रदर्शयति -

इत्यत इति ।

हेतोरर्थान्तरं वक्तुं शङ्कते -

स यदीति ।

व्यवस्थापकाभावान्नैषा व्यवस्थेत्यभिप्रेत्यार्थासम्भवादिति हेत्वर्थं वदन्विकल्पयति -

तथापीति ।

आद्यमनूद्याक्षिपति -

भोगश्चेदिति ।

अनाधेयातिशयस्य सुखदुःखप्राप्तिपरिहाररूपातिशयशून्यस्येत्यर्थः ।

भोगार्थैव प्रधानप्रवृत्तिरित्यत्र दोषान्तरमाह -

अनिर्मोक्षेति ।

न हि निरतिशयस्य पुरुषस्य स्वारसिकौ भोगापवर्गावङ्गीक्रियते । तेन प्रधानप्रवृत्तेर्भोगैकप्रयोजनत्वे हेत्वभावान्नैव पुंसो मोक्षः सेद्धुमर्हेदित्यर्थः ।

द्वितीयमनूद्य दूषयति -

अपवर्गश्चेदिति ।

स्वरूपावस्थानस्य सदातनत्वादित्यर्थः ।

ननु बन्धप्रध्वंसरूपापवर्गसिद्ध्यर्थंः प्रधानप्रवृत्तिरर्थवतीति चेत् । न । प्रधानाविवेकं विना पुरुषे बन्धासिद्धेः । न च तदविवेकनिवृत्त्यर्था तत्प्रवृत्तिरिति युक्तं, तथा सति हेत्वभावाद्भोगाभावप्रसङ्गादित्याह -

शब्दादीति ।

तदुपलब्धेर्भोगत्वादित्यर्थः ।

तृतीयेऽपि कतिपयशब्दाद्युपलब्धिर्वा समस्ततदुपलब्धिर्वा भोग इति विकल्प्याद्ये सर्वेषामेकदैव मुक्तिः स्यादिति मन्वानो द्वितीयं प्रत्याह -

उभयार्थतेति ।

औत्सुक्यनिवृत्त्यर्था प्रधानचेष्टेतीष्टत्वाद्यावदौत्सुक्यं तत्प्रवृत्तेर्नोक्ते दोषोऽस्तीत्याशङ्क्याह -

न चेति ।

ब्रह्मसूत्रा भाष्या तद्धि प्रधानस्य वा पुरुषस्य वा । नाद्य इत्याह -

न हीति ।

औत्सुक्यापरपर्यायकुतूहलितायाश्चेतनगामित्वावगमादित्यर्थः ।

न द्वितीय इत्याह -

न चेति ।

स्वरसतो हि पुरुषो निर्मलोऽभिलप्यते न तस्यौत्सुक्यरूपमलसम्बन्धः सिध्यति । तेन पुरुषस्यापि न सम्भवत्यौत्सुक्यमित्यर्थः ।

अस्ति पुरुषस्य दृक्शक्तिर्न च सा दृश्यमन्तरेणार्थवती, प्रधानस्य च सर्गशक्तिः सा सृष्टिं विनानर्थिका, तत्र चोभयविधशक्तिवैयर्थ्यपरिहारार्थं प्रधानप्रवृत्तिरिति शङ्कते -

दृक्शक्तीति ।

तर्हि शक्त्योर्नित्यत्वात्तदर्थवत्त्वाय सदा प्रधानप्रवृत्तेर्मोक्षासिद्धिरिति दूषयति -

सर्गेति ।

अर्थासम्भवान्निरपेक्षस्यैव प्रधानस्य प्रवृत्तिरित्येतदयुक्तमित्युपसंहरति -

तस्मादिति ॥ ६ ॥