ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
पुरुषाश्मवदिति चेत्तथापि ॥ ७ ॥
स्यादेतत् — यथा कश्चित्पुरुषो दृक्शक्तिसम्पन्नः प्रवृत्तिशक्तिविहीनः पङ्गुः अपरं पुरुषं प्रवृत्तिशक्तिसम्पन्नं दृक्शक्तिविहीनमन्धमधिष्ठाय प्रवर्तयति, यथा वा अयस्कान्तोऽश्मा स्वयमप्रवर्तमानोऽप्ययः प्रवर्तयति, एवं पुरुषः प्रधानं प्रवर्तयिष्यति — इति दृष्टान्तप्रत्ययेन पुनः प्रत्यवस्थानम् । अत्रोच्यते — तथापि नैव दोषान्निर्मोक्षोऽस्ति । अभ्युपेतहानं तावद्दोष आपतति, प्रधानस्य स्वतन्त्रस्य प्रवृत्त्यभ्युपगमात् , पुरुषस्य च प्रवर्तकत्वानभ्युपगमात् । कथं चोदासीनः पुरुषः प्रधानं प्रवर्तयेत् ? पङ्गुरपि ह्यन्धं पुरुषं वागादिभिः प्रवर्तयति । नैवं पुरुषस्य कश्चिदपि प्रवर्तनव्यापारोऽस्ति, निष्क्रियत्वान्निर्गुणत्वाच्च । नाप्ययस्कान्तवत्सन्निधिमात्रेण प्रवर्तयेत् , सन्निधिनित्यत्वेन प्रवृत्तिनित्यत्वप्रसङ्गात् । अयस्कान्तस्य त्वनित्यसन्निधेरस्ति स्वव्यापारः सन्निधिः, परिमार्जनाद्यपेक्षा चास्यास्ति — इत्यनुपन्यासः पुरुषाश्मवदिति । तथा प्रधानस्याचैतन्यात्पुरुषस्य चौदासीन्यात्तृतीयस्य च तयोः सम्बन्धयितुरभावात्सम्बन्धानुपपत्तिः । योग्यतानिमित्ते च सम्बन्धे योग्यतानुच्छेदादनिर्मोक्षप्रसङ्गः । पूर्ववच्चेहाप्यर्थाभावो विकल्पयितव्यः; परमात्मनस्तु स्वरूपव्यपाश्रयमौदासीन्यम् , मायाव्यपाश्रयं च प्रवर्तकत्वम् — इत्यस्त्यतिशयः ॥ ७ ॥

चोद्यं विभजते -

स्यादेतदिति ।

पङ्गोरपि वागादिद्वारा प्रवर्तकत्वसम्भवात्तद्विरहिणि पुरुषे न प्रवर्तकतेत्यपरितुष्यन्तं प्रत्याह -

यथा वेति ।

दार्ष्टान्तिकमाह -

एवमिति ।

पुरुषस्तूदासीनो न प्रवर्तको नापि निवर्तक इत्यत्रैव तत्प्रवर्तकत्वे प्रत्युक्ते कथं पुनराशङ्कोन्मिषेदित्याशङ्क्याह -

इति दृष्टान्तेति ।

पूर्वपक्षमनूद्य सिद्धान्तमवतार्यापेक्षितं पूरयन्व्याकरोति -

अत्रेति ।

कथं दोषानिवृत्तिरित्याशङ्क्यापसिद्धान्तापत्तिं तावदाह -

अभ्युपेतेति ।

पुरुषस्य प्रधानप्रवर्तकत्वमङ्गीकुर्वतस्तत्प्र वर्तकत्वानभ्युपगमस्यासिद्धिरित्याशङ्क्याह -

कथं चेति ।

न हि प्रवर्तकत्वमुदासीनस्य युक्तमुदासीनत्वव्याघातादित्यर्थः ।

पङ्गुदृष्टान्तं विघटयति -

पङ्गुरपीति ।

पुरुषस्य प्रस्पन्दप्रयत्नव्यापारराहित्यं वक्तुं हेतुद्वयम् ।

अयस्कान्तदृष्टान्तेन स्वगतव्यापारमन्तरेणापि पुरुषस्य प्रवर्तकत्वमुपदिष्टमित्याशङ्क्याह -

नापीति ।

अयस्कान्तसंनिधावयोवत्कदाचिदेव संनिधौ सत्यपि प्रवृत्तिः स्यादित्याशङ्क्याह -

अयस्कान्तस्येति ।

परिमार्जनादीत्यादिशब्देन मुखाभिमुख्यसम्पादनं सङ्गृहीतम् ।

दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यमुक्त्वा फलितमाह -

इत्यनुपन्यास इति ।

किञ्च प्रवर्त्यप्रवर्तकभावस्य सम्बन्धसापेक्षत्वात्प्रधाननिमित्तो वा पुरुषनिमित्तो वा तदुभयव्यतिरिक्तनिमित्तो वा सम्बन्धस्तयोरिति विकल्पयति -

तथेति ।

सति विकल्पत्रये सम्बन्धानुपपत्तिरिति सम्बन्धः ।

नाद्य इत्याह -

प्रधानस्येति ।

न द्वितीय इत्याह -

पुरुषस्येति ।

न तृतीय इत्याह -

तृतीयस्येति ।

प्रधानस्याचेतनत्वादृश्यत्वे पुरुषस्य चेतनत्वाद्द्रष्टृत्वे योग्यतास्तीति तन्निमित्तो द्रष्टृदृश्यभाव एव सम्बन्धस्तयोरित्याशङ्क्याह -

योग्यतेति ।

किञ्च यथा स्वाभाविकप्रवृत्तिपक्षे विकल्प्यार्थाभावो दर्शितस्तथा पुरुषसम्बन्धात्प्रधानप्रवृत्तिपक्षेऽपि भोगो वा फलमपवर्गो वा द्वयं वेत्येवं विकल्प्यार्थाभावो वक्तव्य इत्याह -

पूर्ववच्चेति ।

नन्वयस्कान्तदृष्टान्तावष्टम्भेन भवतापि परमात्मा कूटस्थनित्य एव प्रवर्तकोऽभ्युपगतस्तथा चोक्तनीत्या त्वत्पक्षोऽपि न सिध्यति, तत्राह -

परमात्मनस्त्विति ।

अतिशयः साङ्ख्याभिमतात्पुरुषादिति शेषः ॥ ७ ॥