ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अङ्गित्वानुपपत्तेश्च ॥ ८ ॥

प्रधानस्य स्वाभाविकी पुरुषसंनिधेर्वा न प्रवृत्तिरित्युक्तम् । इदानीं कस्यचिद्गुणस्य प्राधान्यं कस्यचिदुपसर्जनत्वमित्यपि वैषम्यमभ्युपगतं स्वतः परतो वा न सम्भवतीत्याह -

अङ्गित्वेति ।