ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अङ्गित्वानुपपत्तेश्च ॥ ८ ॥
इतश्च न प्रधानस्य प्रवृत्तिरवकल्पते — यद्धि सत्त्वरजस्तमसामन्योन्यगुणप्रधानभावमुत्सृज्य साम्येन स्वरूपमात्रेणावस्थानम् , सा प्रधानावस्था । तस्यामवस्थायामनपेक्षस्वरूपाणां स्वरूपप्रणाशभयात्परस्परं प्रत्यङ्गाङ्गिभावानुपपत्तेः, बाह्यस्य च कस्यचित्क्षोभयितुरभावात् , गुणवैषम्यनिमित्तो महदाद्युत्पादो न स्यात् ॥ ८ ॥

चकारसूचितां प्रतिज्ञां प्रकटीकरोति -

इतश्चेति ।

पञ्चम्यर्थमेव दर्शयन्प्रधानावस्थामनुवदति -

यद्धीति ।

सा च कूटस्था वा विकारिणी वेति विकल्प्याद्ये दोषमाह -

तस्यामिति ।

अनपेक्षस्वरूपाणां परस्परानपेक्षाणां गुणप्रधानत्वहीनानामङ्गाङ्गित्वायोगात्कार्यानुत्पत्तिरित्यर्थः ।

द्वितीयं दूषयति -

बाह्यस्येति ॥ ८ ॥