ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अन्यथानुमितौ च ज्ञशक्तिवियोगात् ॥ ९ ॥
अथापि स्यात् — अन्यथा वयमनुमिमीमहे — यथा नायमनन्तरो दोषः प्रसज्येत । न ह्यनपेक्षस्वभावाः कूटस्थाश्चास्माभिर्गुणा अभ्युपगम्यन्ते, प्रमाणाभावात् । कार्यवशेन तु गुणानां स्वभावोऽभ्युपगम्यते । यथा यथा कार्योत्पाद उपपद्यते, तथा तथैतेषां स्वभावोऽभ्युपगम्यते; चलं गुणवृत्तमिति चास्त्यभ्युपगमः । तस्मात्साम्यावस्थायामपि वैषम्योपगमयोग्या एव गुणा अवतिष्ठन्त इति । एवमपि प्रधानस्य ज्ञशक्तिवियोगाद्रचनानुपपत्त्यादयः पूर्वोक्ता दोषास्तदवस्था एव । ज्ञशक्तिमपि त्वनुमिमानः प्रतिवादित्वान्निवर्तेत, चेतनमेकमनेकप्रपञ्चस्य जगत उपादानमिति ब्रह्मवादप्रसङ्गात् । वैषम्योपगमयोग्या अपि गुणाः साम्यावस्थायां निमित्ताभावान्नैव वैषम्यं भजेरन् , भजमाना वा निमित्ताभावाविशेषात्सर्वदैव वैषम्यं भजेरन् — इति प्रसज्यत एवायमनन्तरोऽपि दोषः ॥ ९ ॥

तत्रान्यथानुमितौ चेति भागं पूर्वपक्षत्वेन व्याकरोति -

अथापीति ।

निरपेक्षेषु गुणेषु गुणप्रधानभावानुपपत्तावपीति यावत् ।

गुणानामङ्गाङ्गित्वानुपपत्त्या महदादिकार्यानुत्पत्तिरूपो दोषो यथा न भवति तथा मिथोऽनपेक्षत्वलक्षणस्वभावादन्यथा प्रकारान्तरेण गुणानन्योन्यसापेक्षानेव कल्पयामोऽतो न प्रागुक्तदोषप्रसक्तिरित्युक्तम् । प्रकारान्तरेण कल्पनामेव प्रकटयति -

न हीति ।

तेषां मिथः सापेक्षत्वे विकारित्वे च तुल्यं प्रमाणासत्त्वमित्याशङ्क्याह -

कार्येति ।

तथापि कथं मिथः सापेक्षत्वं विकारित्वं वा गुणानामिति, तत्राह -

यथा यथेति ।

अपसिद्धान्तं शङ्कित्वोक्तम् -

चलमिति ।

उक्तोपगमफलमाह -

तस्मादिति ।

पूर्वपक्षमनूद्य ‘ज्ञशक्तिवियोगात्’ इत्यादि व्याकुर्वन्परिहरति -

एवमिति ।

येन येन विना कार्यं नोपपद्यते तत्तदपि तद्वशादेवानुमेयमित्याशङ्क्याह -

ज्ञेति ।

अनन्तरोक्तदोषनिरासं स्वीकृत्य व्यवहितदोषापत्तिमुक्त्वा संप्रत्यङ्गीकारं त्यजति -

वैषम्येति ।

विपक्षे दण्डमाह -

भजमाना वेति ।

अनन्तरो दोषो महदादिकार्योत्पादायोगः ॥ ९ ॥