परमाणुमूलकारणत्वस्य प्रामाणिकत्वादर्थादस्ति विरोधः समन्वयस्येत्येवं प्राप्तमनूद्य सिद्धान्तमाह -
तत्रेति ।
यत्तावदणुभ्यः संयुक्तेभ्यो द्व्यणुकादिक्रमेण जगज्जन्मेति, तत्राह -
विभागेति ।
अस्तु तर्हि तेषु कर्मकृतः संयोगः, तत्राह -
कर्मणश्चेति ।
तच्चाभ्युपगम्यते न वा ।
द्वितीयं प्रत्याह -
अनभ्युपगम इति ।
यद्यणूनां संयुक्तानां जगदारम्भकत्वं प्रामाणिकं तदा सन्वयस्यार्थाद्विरोधः । न तदस्ति । आद्ये सर्गे परमाणवो न संयुक्ताः, कर्मशून्यत्वात् , आत्माकाशवत् । ते च कर्मशून्याः, तद्धेतुहीनत्वात् , तद्वदित्यर्थः ।
आद्यकर्महेतोरिष्टत्वाद्धेतुत्वसिद्धिरिति कल्पान्तरमाशङ्क्य निमित्तं दृष्टमदृष्टं वेति विकल्प्याद्यमनुवदति -
अभ्युपगमेऽपीति ।
यथेदानीं देहचेष्टायां दृष्टं यत्नाख्यं निमित्तं, तरुचलने पवनाभिघातः, शरादेर्नोदनादि, तथाऽणुष्वाद्यकर्मोत्पत्तौ यदि किञ्चिद्दृष्टं निमित्तमित्यर्थः ।
अभिघातादीत्यादिशब्देन नोदनगुरुत्ववेगस्थितिस्थापका गृह्यन्ते । क्रियाविशिष्टद्रव्यस्य द्रव्यान्तरेण संयोगविशेषोऽभिघातः, यथोद्यमितनिपतितमुसलस्योलूखलेन संयोगः । नोदनं तु संयुक्तस्य यत्नविशेषापेक्षः स एव संयोगः, यथा क्षेपानुकूलयत्नापेक्षः संनद्धकरशरसंयोगः । नोदनेन तुल्ययोगक्षेमः संस्कार इति विवेकः । तत्रास्य सर्वस्य सृष्ट्युत्तरकालत्वान्नाद्यकर्महेतुतेत्याह -
तस्येति ।
आदिसर्गे यत्नायोगं साधयति -
न हीति ।
आत्ममनः संयोगस्य तदा भावात्तन्निमित्तप्रयत्नस्य कथमत्रायोगोक्तिः, तत्राह -
शरीरेति ।
प्रयत्नोक्तन्यायेनाभिघाताद्यपि निरस्यति -
एतेनेति ।
एतच्छब्दोक्तं स्फोरयति -
सर्गेति ।
कल्पान्तरं शङ्कते -
अथेति ।
दूषयितुं विकल्पयति -
तत्पुनरिति ।
जडस्यात्मनोऽदृष्टाश्रयत्वमिच्छतामणवस्तथा किं न स्युरित्यणुसमवायि वेत्युक्तम् । कल्पद्वयमविशेषेण प्रत्याह -
उभयथेति ।
अचेतनत्वेऽपि कुतो न कर्मनिमित्ततेत्याशङ्क्य स्वतन्त्रं चेतनाधिष्ठितं वा तत्तथेति विकल्प्याद्यं निराह -
न हीति ।
द्वितीये तज्जीवाधिष्ठितमीश्वराधिष्ठितं वा । नाद्य इत्याह -
आत्मनश्चेति ।
नेतरः, तस्य नित्यसंनिहिततया कादाचित्कप्रवृत्तिहेतुत्वायोगात् । तत्रापि निमित्तान्तरकल्पनेऽनवस्थानादिति चकारार्थः ।
अणुसमवायित्वपक्षं विशेषतो निरस्यति -
आत्मेति ।
अदृष्टस्याणुभिरसम्बन्धादसम्बद्धस्य हेतुत्वेऽतिप्रसङ्गादित्याह -
असम्बन्धादिति ।
अणुसंयुक्तात्मसमवेतत्वाददृष्टस्याणुभिः संयुक्तसमवायादसम्बन्धासिद्धिरिति शङ्कते –
अदृष्टवतेति ।
आत्मनस्तर्हि सर्वगतत्वेन सदाणुसम्बन्धादणुप्रवृत्तेरविच्छित्तिरिति दूषयति -
सम्बन्धेति ।
अण्वात्मनोः संयोगस्याणुकर्मजत्वेऽपि तत्प्रवाहसातत्यात्प्रवृत्तिसातत्यमिति भावः ।
यद्यागन्तुकः सम्बन्धस्तस्य तर्हि निमित्तमदृष्टमन्यद्वा । तत्र संयोगहेतुकर्मनिमित्तादृष्टापेक्षायामन्योन्याश्रयतेति मत्वा निमित्तान्तरं प्रत्याह -
नियामकान्तरेति ।
कर्मनिमित्ताभावं सफलं निगमयति -
तदेवमिति ।
कर्मशून्यत्वं सफलमुपसंहरति -
कर्मेति ।
संयोगाभावफलमाह -
संयोगेति ।
हेत्वभावादणुषु संयोगानुपपत्तिरुक्ता । सम्प्रति तेषु संयोगस्वरूपमेवायुक्तमित्याह -
संयोगश्चेति ।
सर्वात्मना संयोगे परमाणावेकस्मिन्नण्वन्तरान्तर्भावात्तत्संयोगिनस्तदव्याप्तदेशाभावात् , एवमण्वन्तराण्यपि तस्मिन्नेव संमान्तीति कार्ये प्रथिमायोगात् , तस्याणुमात्रतापत्तिरित्याह -
सर्वात्मनेति ।
तत्रैव दोषान्तरमाह -
दृष्टेति ।
प्रसङ्गमेव प्रकटयति -
प्रदेशेति ।
द्वितीयमनुभाष्य दूषयति -
एकेति ।
कल्पितदेशोपगमादिष्टापत्तिं शङ्कते -
परमाणूनामिति ।
अवयवानां कल्पितत्वे संयोगतत्कार्ययोरपि तथात्वादपसिद्धान्तः स्यादित्याह -
कल्पितानामिति ।
मा भूदसमवायिकारणं, कार्यसिद्धिरेवाभीष्टेत्याशङ्क्याह -
असतीति ।
भावरूपकार्यं नासमवायिनं विनेति वक्तुं द्रव्यपदम् । काणादानां सर्गप्रत्युक्तौ सूत्रं योजयित्वा प्रलयप्रकारप्रत्युक्तावपि सूत्रं योजयति -
यथेति ।
कथमसम्भवः प्रलयात्प्रागवस्थायां विभागोत्पादककर्मनिमित्तस्य सर्वस्यापि सम्भवात् । तत्तर्हि दृष्टमदृष्टं वा । नाद्य इत्याह -
न हीति ।
तत्रेति प्रलयप्रयोजकविभागहेतुकर्मोक्तिः । अपिः सर्गहेतुसंयोगनिमित्तकर्मदृष्टान्तार्थः ।
किञ्चित्प्रलये कदाचिदभिघातादियोगेऽपि नापर्यायेण सर्वलये तदस्ति, नियामकाभावादित्याह -
नियतमिति ।
द्वितीयं दूषयति -
अदृष्टमिति ।
देहादिलयारम्भे दुःखभेदभोगेऽपि पृथिव्यादिलये तदभावान्न तस्य कर्मनिमित्तत्वमिति भावः ।
अणूनामाद्यस्यान्तस्य च कर्मणो निमित्तमस्ति वा न वा । अस्ति चेद्दृष्टमदृष्टं वा । दृष्टमपि यत्नोऽभिघातादि वा । अदृष्टमपि परमाणुष्वात्मनि वा । सर्वथापि संयोगोत्पत्त्यर्थं विभागोत्पत्त्यर्थमुभयथापि न कर्म । कर्माभावात्तयोः सर्गप्रलययोरभावः स्यादिति सूत्रयोजनामुपसंहरति -
अत इति ।
परमाणुवादे सर्गाद्ययोगात्तस्य सिद्धा भ्रान्तिमूलतेति निगमयति -
तस्मादिति ॥ १२ ॥