ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
समवायाभ्युपगमाच्च साम्यादनवस्थितेः ॥ १३ ॥
समवायाभ्युपगमाच्च — तदभाव इति — प्रकृतेनाणुवादनिराकरणेन सम्बध्यते । द्वाभ्यां चाणुभ्यां द्व्यणुकमुत्पद्यमानमत्यन्तभिन्नमणुभ्यामण्वोः समवैतीत्यभ्युपगम्यते भवता । न चैवमभ्युपगच्छता शक्यतेऽणुकारणता समर्थयितुम् । कुतः ? साम्यादनवस्थितेः — यथैव ह्यणुभ्यामत्यन्तभिन्नं सत् द्व्यणुकं समवायलक्षणेन सम्बन्धेन ताभ्यां सम्बध्यते, एवं समवायोऽपि समवायिभ्योऽत्यन्तभिन्नः सन् समवायलक्षणेनान्येनैव सम्बन्धेन समवायिभिः सम्बध्येत, अत्यन्तभेदसाम्यात् । ततश्च तस्य तस्यान्योऽन्यः सम्बन्धः कल्पयितव्य इत्यनवस्थैव प्रसज्येत । ननु इहप्रत्ययग्राह्यः समवायो नित्यसम्बद्ध एव समवायिभिर्गृह्यते, नासम्बद्धः, सम्बन्धान्तरापेक्षो वा । ततश्च न तस्यान्यः सम्बन्धः कल्पयितव्यः येनानवस्था प्रसज्येतेति । नेत्युच्यते; संयोगोऽप्येवं सति संयोगिभिर्नित्यसम्बद्ध एवेति समवायवन्नान्यं सम्बन्धमपेक्षेत । अथार्थान्तरत्वात्संयोगः सम्बन्धान्तरमपेक्षेत, समवायोऽपि तर्ह्यर्थान्तरत्वात्सम्बन्धान्तरमपेक्षेत । न च — गुणत्वात्संयोगः सम्बन्धान्तरमपेक्षते, न समवायः अगुणत्वादिति युज्यते वक्तुम्; अपेक्षाकारणस्य तुल्यत्वात् , गुणपरिभाषायाश्चातन्त्रत्वात् । तस्मादर्थान्तरं समवायमभ्युपगच्छतः प्रसज्येतैवानवस्था । प्रसज्यमानायां चानवस्थायामेकासिद्धौ सर्वासिद्धेर्द्वाभ्यामणुभ्यां द्व्यणुकं नैवोत्पद्येत । तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १३ ॥

सूत्रं व्याचष्टे -

समवायेति ।

तदभावोऽत्र सर्गाभावो लयाभावो वा । नोभयत्रापि समवायाभ्युपगमो हेतुरित्याशङ्क्याह -

अणुवादेति ।

तस्य निराकरणमसम्भवस्तेन समवायाभ्युपगमस्य सङ्गतिरित्यर्थः ।

तदभ्युपगमं विभजते -

द्वाभ्यामिति ।

हेत्वर्थमुक्त्वा तदभाव इति प्रतिज्ञार्थं स्फुटयति -

न चेति ।

यथा पूर्वोक्तन्यायादणुकारणता समर्थयितुं न शक्यते तथा द्व्यणुकस्याण्वोः समवायस्वीकारादित्यत्र प्रश्नपूर्वकं हेतुमाह -

कुत इति ।

समवायः स्वतन्त्रोऽस्वतन्त्रो वा । नाद्यः, स्वतन्त्रस्य घटकत्वेऽतिप्रसङ्गात् । द्वितीये समवायस्य सम्बन्धान्तरेण समवायिसम्बन्धेऽनवस्थानान्नाणुकारणतेति हेतुं विभजते -

यथेत्यादिना ।

किमप्रामाणिकत्वेन समवायस्यायुक्तत्वमुतानवस्थयेति विकल्प्याद्यं दूषयन्नाशङ्कते -

नन्विति ।

द्वितीयं प्रत्याह -

नित्येति ।

एवकारार्थमाह -

नेति ।

तथापि सम्बन्धान्तरापेक्षायामनवस्थेत्यशङ्क्याह -

सम्बन्धान्तरेति ।

वाशब्दो नञनुकर्षणार्थः ।

अनवस्थाऽभावं स्फोरयति -

नेत्यादिना ।

समवायः समवायिभ्यां सम्बन्धान्तरं नापेक्षते सम्बन्धिसम्बन्धनस्वभावत्वात् । अतः स्वभावदेव समवायितन्त्रः समवायो न सम्बन्धान्तरेणेति नानवस्थेत्यर्थः ।

समवायस्य सम्बन्धिपारतन्त्र्यस्वभावं दूषयति -

नेतीति ।

तस्य स्वाभाविके सम्बन्धिपारतन्त्र्ये संयोगस्यापि स्वतः संयोगितन्त्रत्वयोगात्तस्य संयोगिभ्यां समवायकल्पना न स्यादिति विपक्षे दोषमाह -

संयोगोऽपीति ।

किञ्च संयोगस्य सम्बन्धान्तरापेक्षायामर्थान्तरत्वं गुणत्वं वा हेतुः, तत्राद्यमाह -

अथेति ।

समवायेऽपि तुल्यमेतदित्याह -

समवायोऽपीति ।

द्वितीयमाशङ्क्याह -

न चेति ।

अपेक्षाकारणस्यात्यन्तभिन्नत्वस्येत्यर्थः ।

नात्यन्तभिन्नत्वं तया किन्तु गुणत्वमेव, न च तदस्ति समवायस्येत्याशङ्क्याह -

गुणेति ।

न हि गुणत्वं सम्बन्धान्तरापेक्षाहेतुः, कर्मादीनामपि तदपेक्षत्वादित्यर्थः ।

संयोगसमवाययोस्तुल्यत्वे फलितमाह -

तस्मादिति ।

अनवस्थायां मूलक्षयकारित्वमाह -

प्रसज्यमानायां चेति ।

सूत्रार्थमुपसंहरति -

तस्मादिति ॥ १३ ॥