इतश्च तद्वादासिद्धिरिति चकारार्थमाह -
अपि चेति ।
अनुपपत्तिं दर्शयितुं विकल्पयति -
अणव इति ।
न्यूनत्वं वारयति -
गत्यन्तरेति ।
विकल्पचतुष्टयस्यापि दृष्टत्वं प्रतिजानीते -
चतुर्धेति ।
तत्राद्यस्य दृष्टत्वं स्पष्टयति -
प्रवृत्तीति ।
द्वितीयेऽनुपपत्तिं स्फोरयति -
निवृत्तीति ।
तृतीयस्य नोत्थानमेवेत्याह -
उभयेति ।
चतुर्थं प्रत्याह -
अनुभयेति ।
अदृष्टादि संनिहितमपि न प्रवर्तकमित्याशङ्क्याह -
अतन्त्रत्वेऽपीति ।
पक्षचतुष्टयनिषेधफलमुपसंहरति -
तस्मादिति ॥ १४ ॥