ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
रूपादिमत्त्वाच्च विपर्ययो दर्शनात् ॥ १५ ॥
सावयवानां द्रव्याणामवयवशो विभज्यमानानां यतः परो विभागो न सम्भवति ते चतुर्विधा रूपादिमन्तः परमाणवश्चतुर्विधस्य रूपादिमतो भूतभौतिकस्यारम्भका नित्याश्चेति यद्वैशेषिका अभ्युपगच्छन्ति, स तेषामभ्युपगमो निरालम्बन एव; यतो रूपादिमत्त्वात्परमाणूनामणुत्वनित्यत्वविपर्ययः प्रसज्येत । परमकारणापेक्षया स्थूलत्वमनित्यत्वं च तेषामभिप्रेतविपरीतमापद्येतेत्यर्थः । कुतः ? एवं लोके दृष्टत्वात् — यद्धि लोके रूपादिमद्वस्तु तत् स्वकारणापेक्षया स्थूलमनित्यं च दृष्टम्; तद्यथा — पटस्तन्तूनपेक्ष्य स्थूलोऽनित्यश्च भवति; तन्तवश्चांशूनपेक्ष्य स्थूला अनित्याश्च भवन्ति — तथा चामी परमाणवो रूपादिमन्तस्तैरभ्युपगम्यन्ते । तस्मात्तेऽपि कारणवन्तस्तदपेक्षया स्थूला अनित्याश्च प्राप्नुवन्ति । यच्च नित्यत्वे कारणं तैरुक्तम् — ‘सदकारणवन्नित्यम्’ (वै. सू. ४ । १ । १) इति, तदप्येवं सति अणुषु न सम्भवति, उक्तेन प्रकारेणाणूनामपि कारणवत्त्वोपपत्तेः । यदपि नित्यत्वे द्वितीयं कारणमुक्तम् — ‘अनित्यमिति च विशेषतः प्रतिषेधाभावः’ (वै. सू. ४ । १ । ४) इति, तदपि नावश्यं परमाणूनां नित्यत्वं साधयति । असति हि यस्मिन्कस्मिंश्चिन्नित्ये वस्तुनि नित्यशब्देन नञः समासो नोपपद्यते । न पुनः परमाणुनित्यत्वमेवापेक्ष्यते । तच्चास्त्येव नित्यं परमकारणं ब्रह्म । न च शब्दार्थव्यवहारमात्रेण कस्यचिदर्थस्य प्रसिद्धिर्भवति, प्रमाणान्तरसिद्धयोः शब्दार्थयोर्व्यवहारावतारात् । यदपि नित्यत्वे तृतीयं कारणमुक्तम् — ‘अविद्या च’ इति — तद्यद्येवं विव्रीयते — सतां परिदृश्यमानकार्याणां कारणानां प्रत्यक्षेणाग्रहणमविद्येति, ततो द्व्यणुकनित्यताप्यापद्येत । अथाद्रव्यत्वे सतीति विशेष्येत, तथाप्यकारणवत्त्वमेव नित्यतानिमित्तमापद्येत, तस्य च प्रागेवोक्तत्वात् ‘अविद्या च’ (वै. सू. ४ । १ । ५) इति पुनरुक्तं स्यात् । अथापि कारणविभागात्कारणविनाशाच्चान्यस्य तृतीयस्य विनाशहेतोरसम्भवोऽविद्या, सा परमाणूनां नित्यत्वं ख्यापयति — इति व्याख्यायेत — नावश्यं विनश्यद्वस्तु द्वाभ्यामेव हेतुभ्यां विनंष्टुमर्हतीति नियमोऽस्ति । संयोगसचिवे ह्यनेकस्मिंश्च द्रव्ये द्रव्यान्तरस्यारम्भकेऽभ्युपगम्यमान एतदेवं स्यात् । यदा त्वपास्तविशेषं सामान्यात्मकं कारणं विशेषवदवस्थान्तरमापद्यमानमारम्भकमभ्युपगम्यते, तदा घृतकाठिन्यविलयनवन्मूर्त्यवस्थाविलयनेनापि विनाश उपपद्यते । तस्माद्रूपादिमत्त्वात्स्यादभिप्रेतविपर्ययः परमाणूनाम् । तस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १५ ॥

विपर्ययं दर्शयितुं परमतमनुवदति -

सावयवानामिति ।

यतो येभ्योऽवयवेभ्यः सकाशात्परः परस्ताद्भावीति यावत् । रूपादिमन्तः । रूपरसगन्धस्पर्शेत्याद्यनुक्रमेण रूपमादौ विद्यते यस्य स्पर्शस्य स स्पर्शो रूपादिस्तदाश्रया इत्यर्थः ।

तेषां चातुर्विध्ये हेतुः -

चतुर्विधस्येति ।

कार्यस्य चातुर्विध्यं कारणेऽपि तत्कल्पयतीत्यर्थः ।

तेषां स्पर्शवत्त्वे हेतुमाह -

रूपादिमत इति ।

कार्ये दृष्टं स्पर्शित्वं कारणेऽपि तत्कल्पकमित्यर्थः ।

आरम्भकान्तरापेक्षायामनवस्थानान्नारम्भकाः स्युरिति मत्वाऽह -

नित्याश्चेति ।

परोपगतिमनूद्य प्रत्याह -

स इति ।

निरालम्बनत्वे हेतुः -

यत इति ।

रूपादिमत्त्वं पक्षव्याप्त्यर्थं पूर्ववद्व्याख्येयम् । विमताः सावयवा नाशिनश्च, स्पर्शित्वात् , पटवदित्यनुमानात्परोपगतेर्निराश्रयतेत्यर्थः ।

अणूनां सावयवत्वाद्युक्तिर्व्याहतेत्याशङ्क्याह -

परमेति ।

कारणवत्त्वस्य नाशित्वहेतुत्वे तस्यैव द्रव्यत्वविशेषितस्य सावयवत्वे हेतुत्वात्कुतोऽनुमेति शङ्कते -

कुत इति ।

साधनव्याप्तिं मत्वा सूत्रावयवमवतारयति -

एवमिति ।

दर्शनमेव विशदयन्व्याप्तिमाह -

यद्धीति ।

स्पर्शवतः सावयवत्वमनित्यत्वं च दृष्टमित्यत्र दृष्टान्तमाह -

तदिति ।

दृष्टान्तबाहुल्यं सूचयति -

तन्तवश्चेति ।

उपनयद्वारा पक्षधर्मतामाह -

तथाचेति ।

अनुमानद्वयं निगमयति -

तस्मादिति ।

पूर्वोक्तोपाधेः साधनव्याप्तिमभिप्रेतां प्रकटयितुं विशिनष्टि -

कारणवन्त इति ।

पृथिवीत्वमनित्यमात्रवृत्ति, स्पर्शवन्मात्रवृत्तित्वात् , घटत्ववदित्याद्यनुमानं चकारार्थः ।

परमाणवो नित्याः, सत्त्वे सत्यकारणवत्त्वात् , आत्मवदिति प्रत्यनुमानमुत्थापयति -

यच्चेति ।

विशेष्यासिद्धिमाह -

तदपीति ।

एवं सति । परमाणूनां कारणवत्त्वे सतीत्यर्थः ।

तदेव कथं, तत्राह -

उक्तेनेति ।

स्पर्शित्वेन परिच्छिन्नत्वेन चेत्यर्थः ।

नित्यत्वनिषेधस्तत्प्रतियोगिवस्तुपूर्वकः, निषेधत्वात् , घटनिषेधवदित्यनुमानादणुनित्यत्वसिद्धौ तदनित्यत्वानुमानासिद्धिरित्यनुवदति -

यदपीति ।

कार्यमनित्यमिति कार्ये विशेषतो नित्यत्वनिषेधो न स्याद्यदि कारणेऽप्यनित्यत्वम् , अतोऽणूनां कारणानां नित्येतेति सूत्रार्थः ।

उभयसिद्धात्मनित्यत्वेनैव विशेषनिषेधसिद्धेरुक्तानुमानस्य सिद्धसाध्यत्वान्नाणुनित्यतासाधकतेत्याह -

तदपीति ।

अनित्यमित्ययं कार्ये विशेषेण नित्यत्वनिषेध इत्यङ्गीकृत्योक्तं, तदपि नास्तीत्याह -

न चेति ।

मूलप्रमाणं विना शब्दादेव पौरुषेयाद्योऽर्थे व्यवहारस्तन्मात्रेणेति यावत् ।

अन्यथा वटे यक्षप्रसिद्धेरपि प्रामाण्यं स्यादिति मत्वा हेतुमाह -

प्रमाणान्तरेति ।

अनित्यशब्दान्नित्यत्वनिषेधमात्रं सिद्धं न कार्ये तन्निषेधो येन कार्यप्रतियोगिनि कारणे नित्यत्वस्थितिः, विशेषस्तु मानान्तरादेव लभ्यते, ततस्तस्मादेवाणुनित्यत्वसिद्धौ व्यर्थं पूर्वानुमानमित्यर्थः ।

परमाणवो नित्याः, अनुपलभ्यमानकारणत्वात् , आत्मवदित्यनुमानान्तरमनुभाषते -

यदपीति ।

प्रत्यक्षेणानुमानेन वा तदनुपलब्धिरिति विकल्प्याद्यमनुवदति -

तदिति ।

सतामणूनां दृश्यमानस्थूलकार्याणां प्रत्यक्षेण कारणाग्रहणमविद्येति यदि सूत्रं व्याख्यायेतेति योजना ।

तर्हि द्व्यणुके व्यभिचारः स्यादित्याह -

तत इति ।

आरम्भकद्रव्यशून्यत्वे सति प्रत्यक्षेणानुप्रलब्धकारणत्वस्य हेतुत्वान्मैवमिति शङ्कते -

अथेति ।

अद्रव्यत्वमविद्यमानकारणद्रव्यत्वं, तावतैव नित्यत्वसिद्धौ विशेष्यवैयर्थ्यमित्याह -

तथापीति ।

अस्तु तावदेव तर्हि नित्यतानिमित्तं, तत्राह -

तस्येति ।

न चानुमानेन कारणानुपलब्धिः, परिच्छिन्नत्वानुमानस्योक्तत्वादिति चकारार्थः ।

अवयवनाशोऽवयवव्यतिषङ्गनाशश्च द्रव्यनाशकारणं तदुभयासत्त्वमविद्यापदेनोच्यते, तथा च परमाणवो नित्याः, उभयनाशकारणशून्यत्वात् , आत्मवदिति सूत्रार्थ इत्याह -

अथापीति ।

हेत्वसिद्धिमाह -

नेति ।

आरम्भवादानुपगमं नियमाभावे हेतुमाह -

संयोगेति ।

परिणामवादे नाशहेत्वन्तरसम्भवादसिद्धिरुद्धृतेत्याह -

यदेति ।

नच घृतकाठिन्यनाशेऽपि कारणमवयवविभागादीति युक्तम् , अणुकाठिन्यस्य नाशकद्वयाभावेऽपि विनाशाङ्गीकारात् । नच तत्काठिन्यं न नश्यति, तत्कार्येऽपि तदनाशापातात् । कारणगुणनाशद्वारा कार्ये तन्नाशाश्रयणात् । तस्मादण्ववस्थां हित्वा ब्रह्मणः । स्वरूपेणावस्थानमणुनाश इत्याशयेन घृतकाठिन्यमुदाहृतम् ।

प्रत्ननुमानायोगे फलितमाह -

तस्मादिति ।

स्पर्शवत्त्वानुमानफलं निगमयति -

तस्मादपीति ॥ १५ ॥