ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
उभयथा च दोषात् ॥ १६ ॥
गन्धरसरूपस्पर्शगुणा स्थूला पृथिवी, रूपरसस्पर्शगुणाः सूक्ष्मा आपः, रूपस्पर्शगुणं सूक्ष्मतरं तेजः, स्पर्शगुणः सूक्ष्मतमो वायुःइत्येवमेतानि चत्वारि भूतान्युपचितापचितगुणानि स्थूलसूक्ष्मसूक्ष्मतरसूक्ष्मतमतारतम्योपेतानि लोके लक्ष्यन्तेतद्वत्परमाणवोऽप्युपचितापचितगुणाः कल्प्येरन् वा ? उभयथापि दोषानुषङ्गोऽपरिहार्य एव स्यात्कल्प्यमाने तावदुपचितापचितगुणत्वे, उपचितगुणानां मूर्त्युपचयादपरमाणुत्वप्रसङ्गः चान्तरेणापि मूर्त्युपचयं गुणोपचयो भवतीत्युच्येत, कार्येषु भूतेषु गुणोपचये मूर्त्युपचयदर्शनात्अकल्प्यमाने तूपचितापचितगुणत्वेपरमाणुत्वसाम्यप्रसिद्धये यदि तावत्सर्व एकैकगुणा एव कल्प्येरन् , ततस्तेजसि स्पर्शस्योपलब्धिर्न स्यात् , अप्सु रूपस्पर्शयोः, पृथिव्यां रसरूपस्पर्शानाम् , कारणगुणपूर्वकत्वात्कार्यगुणानाम्अथ सर्वे चतुर्गुणा एव कल्प्येरन् , ततोऽप्स्वपि गन्धस्योपलब्धिः स्यात् , तेजसि गन्धरसयोः, वायौ गन्धरूपरसानाम् चैवं दृश्यतेतस्मादप्यनुपपन्नः परमाणुकारणवादः ॥ १६ ॥

अणूनामतुल्यगुणत्वे तुल्यगुणत्वे च दोषध्रौव्यात्तद्वादासिद्धिरिति वक्तुमनुभवागमसिद्धमर्थमाह -

गन्धेति ।

शब्दस्य पृथिव्यादिगुणत्वेन परैरनिष्टत्वाच्चत्वारि भूतानि चतुस्त्रिद्वेकगुणान्युदाहृत्य विकल्पयति -

तद्वदिति ।

स्थूलपृथिव्यादिवदित्यर्थः ।

पक्षद्वयस्यापि दोषवत्त्वमाह -

उभयथेति ।

आद्यमनूद्य दोषानुषक्तिं विशदयति -

कल्प्यमान इति ।

मूर्त्युपचयः स्थौल्यम् । द्रव्यातिरिक्तानां गुणानामुपचयेऽपि किमिति द्रव्यस्य स्थौल्यं, तत्राह -

न चेति ।

तत्र कार्यलिङ्गमनुमानं हेतुमाह -

कार्येष्विति ।

कल्पान्तरमनुवदति -

अकल्प्येति ।

सर्वेषामणुत्वाक्रान्तानां साम्यार्थमेकैकगुणत्वं वा चतुर्गुणत्वं वा । तत्राद्यमनूद्य प्रत्याह -

परमाणुत्वेति ।

तेषामेकैकगुणत्वेऽपि किमिति कार्येषु नानागुणत्वं न स्यादित्याशङ्क्याह -

कारणेति ।

द्वितीयमनूद्य निराह -

अथेत्यादिना ।

इष्टापत्तिमाशङ्क्याह -

न चेति ।

चतुर्गुणत्वे सर्वेषां स्थौल्याद्वायोश्चाक्षुषत्वं प्रसज्येत, एकैकगुणत्वेऽपि तारतम्यासिद्धिरिति मत्वोपसंहरति -

तस्मादिति ॥ १६ ॥