ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
गुणानां द्रव्याधीनत्वं द्रव्यगुणयोरयुतसिद्धत्वादिति यदुच्यते, तत्पुनरयुतसिद्धत्वमपृथग्देशत्वं वा स्यात् , अपृथक्कालत्वं वा, अपृथक्स्वभावत्वं वा ? सर्वथापि नोपपद्यते — अपृथग्देशत्वे तावत्स्वाभ्युपगमो विरुध्येत । कथम् ? तन्त्वारब्धो हि पटस्तन्तुदेशोऽभ्युपगम्यते, न पटदेशः । पटस्य तु गुणाः शुक्लत्वादयः पटदेशा अभ्युपगम्यन्ते, न तन्तुदेशाः । तथा चाहुः — ‘द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम्’ (वै. सू. १ । १ । १०) इति; तन्तवो हि कारणद्रव्याणि कार्यद्रव्यं पटमारभन्ते, तन्तुगताश्च गुणाः शुक्लादयः कार्यद्रव्ये पटे शुक्लादिगुणान्तरमारभन्ते — इति हि तेऽभ्युपगच्छन्ति । सोऽभ्युपगमो द्रव्यगुणयोरपृथग्देशत्वेऽभ्युपगम्यमाने बाध्येत । अथ अपृथक्कालत्वमयुतसिद्धत्वमुच्येत, सव्यदक्षिणयोरपि गोविषाणयोरयुतसिद्धत्वं प्रसज्येत । तथा अपृथक्स्वभावत्वे त्वयुतसिद्धत्वे, न द्रव्यगुणयोरात्मभेदः सम्भवति, तस्य तादात्म्येनैव प्रतीयमानत्वात् ॥

गुणादीनां द्रव्यसामानाधिकरण्येन भानं तदभिन्नत्वाभावेऽपि स्यादित्यन्यथासिद्धिं शङ्कते -

गुणानामिति ।

उभयत्र गुणग्रहणं कर्मादेरुपलक्षणम् । तद्दूषयितुं विकल्पयति -

तदिति ।

पक्षत्रये दोषं प्रतिजानीते -

सर्वथेति ।

अपृथग्देशत्वं द्वयोरेकतरस्य वा । तत्राद्ये दोषमाह -

अपृथगिति ।

कथं स्वाभ्युपगमः, तद्विरोधो वा कथमित्याह -

कथमिति ।

प्रथमं स्वाभ्युपगमं दर्शयति -

तन्त्विति ।

तत्र काणादं सूत्रं प्रमाणयति -

तथा चेति ।

उक्तोऽर्थोत्र न भातीत्याशङ्क्य व्याचष्टे -

तन्तवो हीति ।

स्वाभ्युपगमं दर्शयित्वा तद्विरोधं दर्शयति -

स इति ।

न च सम्बन्धिनोरन्यतरस्यापृथग्देशत्वमयुतसिद्धत्वं, घटाकाशसंयोगे व्यभिचारात् । नापि पृथगाश्रयानामाश्रितत्वं तथा, परमाण्वाकाशसम्बन्धे व्यभिचारात् । एतेन सम्बन्धिनोर्द्वयोरन्यतरस्य वा पृथग्गतिमत्त्वराहित्यं तथेति व्याख्यातम् । अजसंयोगपक्षे दिक्कालसंयोगे व्यभिचारात् । कालो दिशा संयुज्यते, संयोगित्वात् , घटवदिति तत्सिद्धिः । नच मूर्तत्वादिरुपाधिः, संयोगित्वस्यैव तद्व्यतिरेकप्रयोजकत्वादिति भावः ।

द्वितीयमुत्थाप्य निरस्यति -

अथेत्यादिना ।

तृतीयमनूद्य प्रत्याह -

अपृथगिति ।

तयोरात्मभेदायोगे हेतुमाह -

तस्येति ।

नहि सामानाधिकरण्यधीः समवायार्था, पटे शुक्ल इति धीप्रसङ्गादित्यर्थः ।