ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अपरिग्रहाच्चात्यन्तमनपेक्षा ॥ १७ ॥
युतसिद्धयोः सम्बन्धः संयोगः, अयुतसिद्धयोस्तु समवायः — इत्ययमभ्युपगमो मृषैव तेषाम् , प्राक्सिद्धस्य कार्यात्कारणस्यायुतसिद्धत्वानुपपत्तेः । अथान्यतरापेक्ष एवायमभ्युपगमः स्यात् — अयुतसिद्धस्य कार्यस्य कारणेन सम्बन्धः समवाय इति, एवमपि प्रागसिद्धस्यालब्धात्मकस्य कार्यस्य कारणेन सम्बन्धो नोपपद्यते, द्वयायत्तत्वात्सम्बन्धस्य । सिद्धं भूत्वा सम्बध्यत इति चेत् , प्राक्कारणसम्बन्धात्कार्यस्य सिद्धावभ्युपगम्यमानायामयुतसिद्ध्यभावात् , कार्यकारणयोः संयोगविभागौ न विद्येते इतीदं दुरुक्तं स्यात् । यथा चोत्पन्नमात्रस्याक्रियस्य कार्यद्रव्यस्य विभुभिराकाशादिभिर्द्रव्यान्तरैः सम्बन्धः संयोग एवाभ्युपगम्यते, न समवायः, एवं कारणद्रव्येणापि सम्बन्धः संयोग एव स्यात् , न समवायः । नापि संयोगस्य समवायस्य वा सम्बन्धस्य सम्बन्धिव्यतिरेकेणास्तित्वे किञ्चित्प्रमाणमस्ति । सम्बन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययदर्शनात्तयोरस्तित्वमिति चेत् , न; एकत्वेऽपि स्वरूपबाह्यरूपापेक्षया अनेकशब्दप्रत्ययदर्शनात् । यथैकोऽपि सन् देवदत्तो लोके स्वरूपं सम्बन्धिरूपं चापेक्ष्य अनेकशब्दप्रत्ययभाग्भवति — मनुष्यो ब्राह्मणः श्रोत्रियो वदान्यो बालो युवा स्थविरः पिता पुत्रः पौत्रो भ्राता जामातेति, यथा चैकापि सती रेखा स्थानान्यत्वेन निविशमाना एकदशशतसहस्रादिशब्दप्रत्ययभेदमनुभवति, तथा सम्बन्धिनोरेव सम्बन्धिशब्दप्रत्ययव्यतिरेकेण संयोगसमवायशब्दप्रत्ययार्हत्वम् , न व्यतिरिक्तवस्त्वस्तित्वेन — इत्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेः अभावः वस्त्वन्तरस्य; नापि सम्बन्धिविषयत्वे सम्बन्धशब्दप्रत्यययोः सन्ततभावप्रसङ्गः; स्वरूपबाह्यरूपापेक्षयेति — उक्तोत्तरत्वात् । तथाण्वात्ममनसामप्रदेशत्वान्न संयोगः सम्भवति, प्रदेशवतो द्रव्यस्य प्रदेशवता द्रव्यान्तरेण संयोगदर्शनात् । कल्पिताः प्रदेशा अण्वात्ममनसां भविष्यन्तीति चेत् , न; अविद्यमानार्थकल्पनायां सर्वार्थसिद्धिप्रसङ्गात् , इयानेवाविद्यमानो विरुद्धोऽविरुद्धो वा अर्थः कल्पनीयः, नातोऽधिकः — इति नियमहेत्वभावात् , कल्पनायाश्च स्वायत्तत्वात्प्रभूतत्वसम्भवाच्च — न च वैशेषिकैः कल्पितेभ्यः षड्भ्यः पदार्थेभ्योऽन्येऽधिकाः शतं सहस्रं वा अर्था न कल्पयितव्या इति निवारको हेतुरस्ति । तस्माद्यस्मै यस्मै यद्यद्रोचते तत्तत्सिध्येत् । कश्चित्कृपालुः प्राणिनां दुःखबहुलः संसार एव मा भूदिति कल्पयेत्; अन्यो वा व्यसनी मुक्तानामपि पुनरुत्पत्तिं कल्पयेत्; कस्तयोर्निवारकः स्यात् । किञ्चान्यत् — द्वाभ्यां परमाणुभ्यां निरवयवाभ्यां सावयवस्य द्व्यणुकस्याकाशेनेव संश्लेषानुपपत्तिः । न ह्याकाशस्य पृथिव्यादीनां च जतुकाष्ठवत्संश्लेषोऽस्ति । कार्यकारणद्रव्ययोराश्रिताश्रयभावोऽन्यथा नोपपद्यत इत्यवश्यं कल्प्यः समवाय इति चेत् , न; इतरेतराश्रयत्वात् — कार्यकारणयोर्हि भेदसिद्धावाश्रिताश्रयभावसिद्धिः आश्रिताश्रयभावसिद्धौ च तयोर्भेदसिद्धिः — कुण्डबदरवत् — इतीतरेतराश्रयता स्यात् । न हि कार्यकारणयोर्भेद आश्रिताश्रयभावो वा वेदान्तवादिभिरभ्युपगम्यते, कारणस्यैव संस्थानमात्रं कार्यमित्यभ्युपगमात् ॥

गुणादीनां द्रव्यस्य चायुतसिद्धत्वं निरस्याभ्युपगमान्तरं निरस्यति -

युतेति ।

अयुतसिद्धतोपगमः सम्बन्धिद्वयापेक्षोऽन्यतरापेक्षो वा । नाद्य इत्याह -

प्रागिति ।

द्वितीयमुत्थापयति -

अथेति ।

अयुतसिद्धत्वमुपेत्य समवायं दुदूषयिषुः सम्बन्धोऽसिद्धस्य सिद्धस्य वेति विकल्प्याद्यं निरस्यति -

एवमिति ।

द्वितीयं शङ्कयति -

सिद्धमिति ।

तर्हि सतोरप्राप्तयोः प्राप्तिः संयोगः, समवायस्तु नैवमित्युपगमात्कार्यकारणयोरपि संयोगापत्तिरित्याह -

प्रागिति ।

क्रियापूर्वकः सम्बन्धः संयोगः, नच कार्यकारणयोः सोऽस्तीति समवायसिद्धिरित्याशङ्क्याह -

यथेति ।

किञ्च सम्बन्ध्यतिरिक्ते सम्बन्धे सिद्धे संयोगः समवाय इति विवेकः ।

न सम्बन्धोऽतिरिक्तोऽस्ति, तस्य सम्बन्धिसम्बन्धेऽनवस्थानात् । असम्बन्धे नियामकत्वायोगात् । तथाच कार्यं न कारणे समवेतं किन्तु कल्पितमेवेत्याह -

नापीति ।

सम्बन्धः सम्बन्धिभ्यां वस्त्वन्तरं, तद्विलक्षणशब्दधीगम्यत्वात् , वस्त्वन्तरवदिति शङ्कते -

सम्बन्धीति ।

तत्तदनिर्वाच्यानेकविशेषापेक्षयैकस्मिन्नपि नानाशब्दधियाविति सिद्धसाध्यत्वमाह -

नेति ।

सव्यभिचारश्च हेतुरिति मन्वानो दर्शनं विशदयति -

यथेति ।

स्वगतविशेषापेक्षया नानाशब्दधीभाक्त्वमुदाहरति -

मनुष्येति ।

स्वगतावस्थापेक्षया तद्दर्शयति -

बाल इति ।

स्वगतक्रियापेक्षया तदुपन्यस्यति -

पितेति ।

व्यभिचारप्राचुर्यार्थमुदाहरणान्तरमाह -

यथा चेति ।

दृष्टान्तस्थधर्मं दार्ष्टान्तिके योजयति -

तथेति ।

परोक्तानुमाननिरासफलमुपसंहरति -

इत्युपलब्धीति ।

उपलब्धिरेव गमकतया लक्षणं यस्य तेन योग्थत्वेन प्राप्तस्यानुपलब्धिस्तस्मिन्प्रमाणपञ्चकानुपपत्तिस्ततो वस्त्वन्तरस्य सम्बन्ध्यतिरिक्तसम्बन्धस्याभावो निश्चितः, योग्यानुपलब्धेरभावबोधित्वात् । तस्मात्कार्त्स्न्यैकदेशाभ्यामन्तरालदेशशून्यावस्थार्थौ समवायसंयोगशब्दधीगम्यावित्यर्थः ।

सम्बन्धशब्दधियोः सम्बन्ध्यर्थत्वे तस्य सदाभावात्ते सदा स्यातामित्याशङ्क्याह -

नापीति ।

स्वरूपेणाङ्गुल्यो रूपरूपिणोश्च तत्तच्छब्दधीविषयत्वं, नैरन्तर्यात्तु सम्बन्धशब्दधीगम्यतेत्येकत्वेऽपीत्यत्रोक्तत्वान्न यावत्सम्बन्धिसत्त्वं शब्दधीप्रसक्तिरित्यर्थः ।

किञ्च सांशयोः संयोगेऽपि निरंशयोर्नासावित्याह -

तथेति ।

द्व्यणुकादिकार्यहेतुरेव परमाण्वोः संयोगो निरस्तः । सम्प्रति ज्ञानाद्यसमवायिकारणमात्ममनःसंयोगमदृष्टवदात्मसंयोगं चाणूनां निरस्यति -

अण्वात्मेति ।

आत्मनोऽप्रदेशत्वादणुमनसोस्तत्संयोगः सकलात्मवृत्तिरिति तयोरपि परममहत्त्वं स्यादिति भावः ।

असम्भवे हेत्वन्तरमाह -

प्रदेशेति ।

निरस्तमपि कल्पितप्रदेशं दोषान्तराभिधित्सयोद्भावयति -

कल्पिता इति ।

कल्पनया तद्वत्त्वस्य सत्त्वमसत्त्वं वा । द्वितीये कल्पना वृथेति मत्वाद्यं प्रत्याह -

नेत्यादिना ।

अविद्यमानस्य प्रदेशवत्त्वलक्षणस्यार्थस्य कल्पनया सत्त्वसिद्धाविति यावत् ।

तत्र हेतुः -

इयानिति ।

कल्पकाधीनत्वात्काल्पनाया न तया सर्वार्थसिद्धिरित्याशङ्क्याह -

कल्पनायाश्चेति ।

तथापि परिमितत्वात्तस्या न सर्वार्थसाधकत्वं, तत्राह -

प्रभूतत्वेति ।

षण्णामेव पदार्थानां सम्भवान्न सर्वार्थसिद्धिरित्याशङ्क्याह -

न चेति ।

निवारकाभावे फलं सर्वार्थसिद्धिमुपसंहरति -

तस्मादिति ।

किञ्च कल्पनया वस्तुसिद्धौ संसारमोक्षयोरनियतिरिति ब्रुवाणः संसारस्यानियतिरिति -

कश्चिदिति ।

मुक्तेरनियतिमाह -

अन्यो वेति ।

अवस्थाद्वये हेतुमाह -

कस्तयोरिति ।

कार्यकारणयोरत्यन्तभेदे तथैवोपलब्धिप्राप्तौ समवायादेकत्वसिद्धिरित्याशङ्क्य विशेषतः समवायं दूषयति -

किञ्चेति ।

दृष्टान्तं स्पष्टयति -

न हीति ।

कार्यकारणयोरर्थापत्त्या समवायः सिध्यतीति शङ्कते -

कार्येति ।

द्व्यणुकपरमाणू न समवायार्हौ, सावयवनिरवयवद्रव्यत्वात् , भूम्याकाशवदित्यत्राकार्यकारणद्रव्यत्वात्तयोः समवायानर्हतेत्यप्रयोजकत्वमाशङ्क्याह -

नेत्यादिना ।

अन्यतरव्यतिरेकेणान्यतरस्य सिद्धिसम्भवे कथमेवमित्याशङ्क्याह -

न हीति ।

कार्यस्य कारणानाश्रितत्वे स्वातन्त्र्यं स्यादित्याशङ्क्याह -

कारणस्येति ।