ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
इतरेतरप्रत्ययत्वादिति चेन्नोत्पत्तिमात्रनिमित्तत्वात् ॥ १९ ॥
यद्यपि भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते, तथाप्यविद्यादीनामितरेतरकारणत्वादुपपद्यते लोकयात्रा । तस्यां चोपपद्यमानायां न किञ्चिदपरमपेक्षितव्यमस्ति । ते चाविद्यादयः — अविद्या संस्कारः विज्ञानं नाम रूपं षडायतनं स्पर्शः वेदना तृष्णा उपादानं भवः जातिः जरा मरणं शोकः परिदेवना दुःखं दुर्मनस्ता — इत्येवंजातीयका इतरेतरहेतुकाः सौगते समये क्वचित्संक्षिप्ता निर्दिष्टाः, क्वचित्प्रपञ्चिताः । सर्वेषामप्ययमविद्यादिकलापोऽप्रत्याख्येयः । तदेवमविद्यादिकलापे परस्परनिमित्तनैमित्तिकभावेन घटीयन्त्रवदनिशमावर्तमानेऽर्थाक्षिप्त उपपन्नः सङ्घात इति चेत् , तन्न । कस्मात् ? उत्पत्तिमात्रनिमित्तत्वात् — भवेदुपपन्नः सङ्घातः, यदि सङ्घातस्य किञ्चिन्निमित्तमवगम्येत; न त्ववगम्यते; यत इतरेतरप्रत्ययत्वेऽप्यविद्यादीनां पूर्वपूर्वम् उत्तरोत्तरस्योत्पत्तिमात्रनिमित्तं भवत् भवेत् , न तु सङ्घातोत्पत्तेः किञ्चिन्निमित्तं सम्भवति । नन्वविद्यादिभिरर्थादाक्षिप्यते सङ्घात इत्युक्तम्; अत्रोच्यते — यदि तावदयमभिप्रायः — अविद्यादयः सङ्घातमन्तरेणात्मानमलभमाना अपेक्षन्ते सङ्घातमिति, ततस्तस्य सङ्घातस्य किञ्चिन्निमित्तं वक्तव्यम् । तच्च नित्येष्वप्यणुष्वभ्युगम्यमानेष्वाश्रयाश्रयिभूतेषु च भोक्तृषु सत्सु न सम्भवतीत्युक्तं वैशेषिकपरीक्षायाम्; किमङ्ग पुनः क्षणिकेष्वणुषु भोक्तृरहितेष्वाश्रयाश्रयिशून्येषु वाभ्युपगम्यमानेषु सम्भवेत् । अथायमभिप्रायः — अविद्यादय एव सङ्घातस्य निमित्तमिति, कथं तमेवाश्रित्यात्मानं लभमानास्तस्यैव निमित्तं स्युः । अथ मन्यसे — सङ्घाता एवानादौ संसारे सन्तत्यानुवर्तन्ते, तदाश्रयाश्चाविद्यादय इति, तदपि सङ्घातात्संघातान्तरमुत्पद्यमानं नियमेन वा सदृशमेवोत्पद्येत, अनियमेन वा सदृशं विसदृशं वोत्पद्येत । नियमाभ्युपगमे मनुष्यपुद्गलस्य देवतिर्यग्योनिनारकप्राप्त्यभावः प्राप्नुयात् । अनियमाभ्युपगमेऽपि मनुष्यपुद्गलः कदाचित्क्षणेन हस्ती भूत्वा देवो वा पुनर्मनुष्यो वा भवेदिति प्राप्नुयात् । उभयमप्यभ्युपगमविरुद्धम् । अपि च यद्भोगार्थः सङ्घातः स्यात् , स जीवो नास्ति स्थिरो भोक्ता इति तवाभ्युपगमः । ततश्च भोगो भोगार्थ एव, स नान्येन प्रार्थनीयः । तथा मोक्षो मोक्षार्थ एवेति मुमुक्षुणा नान्येन भवितव्यम् । अन्येन चेत्प्रार्थ्येतोभयम् , भोगमोक्षकालावस्थायिना तेन भवितव्यम् । अवस्थायित्वे क्षणिकत्वाभ्युपगमविरोधः । तस्मादितरेतरोत्पत्तिमात्रनिमित्तत्वमविद्यादीनां यदि भवेत् , भवतु नाम; न तु सङ्घातः सिध्येत् , भोक्त्रभावात् — इत्यभिप्रायः ॥ १९ ॥

पूर्वपक्षभागं विभजते -

यद्यपीति ।

तर्हि सङ्घाताभावात्तदालम्बना लोकयात्रा न निर्वहेत् , तत्राह -

तथापीति ।

कार्यं प्रत्ययते जनकत्वेन गच्छतीति प्रत्ययशब्दस्य हेतुवाचित्वमुपेत्येतरेतरकारणत्वादित्युक्तम् । तथापि सङ्घातस्य निमित्तं वाच्यं, तत्राह -

अविद्यादीनामेव तन्निमित्तत्वान्नापेक्षणीयान्तरमस्तीत्यर्थः ।

के पुनरविद्यादयः, तत्राह -

ते चेति ।

वक्ष्यमाणबुद्धिस्थपरमर्शी तच्छब्दः । क्षणिककार्यदुःखस्वभावेष्वर्थेषु स्थायिनित्यसुखबुद्धिरविद्या । तस्यां सत्यां संस्कारा रागद्वेषमोहा विषयेषु भवन्ति । तेभ्यो गर्भस्थस्याद्यं विज्ञानमुत्पद्यते । तस्माच्चालयविज्ञानात्पृथिव्यादिचतुष्टयमुपादानकारणं नामाश्रयत्वान्नाम निष्पद्यते । तच्च कारणत्वेन स्वीकृत्य सितासितादिरूपवच्छरीरमभिनिर्वर्तते । गर्भीभूतस्य शरीरस्य कललबुद्बुदाद्यवस्था नामरूपशब्दाभ्यामत्राभीष्टा, जातेरुत्तरत्राभिधानात् । नामरूपसंमिश्रितानीन्द्रियाणि षडायतनं, पृथिव्यादिधातवः षडायतनानि यस्य करणजातस्य तत्तथा । नामरूपेन्द्रियाणां मिथः संनिपातः स्पर्शः । ततः सुखादिका वेदना । तस्यां सत्यां कर्तव्यं सुखं मयेत्यध्यवसानं तृष्णा । ततो वाक्कायचेष्टोपादानम् । ततो भवत्यस्माज्जन्मेति भवो धर्मादिः । तद्धेतुका देहादयो जातिः । जातस्य देहस्य परिपाको जरा । देहनाशो मरणम् । म्रियमाणस्य साभिषङ्गस्य पुत्रादावन्तर्दाहः शोकः । तदुत्थं हा पुत्र, इत्यादिप्रलपनं परिदेवना । शब्दादिज्ञानपञ्चकसंयुक्तमसाध्वनुभवनं दुःखम् । दुर्मनस्ता मानसं दुःखम् । इतिशब्दो यथोक्तपरामर्शार्थः । एवञ्जाती यकशब्दो मदमानाद्युपक्लेशसङ्ग्रहार्थः ।

अविद्यादिहेतुका जन्मादयस्तद्धेतुकाश्चाविद्यादय इति घटीयन्त्रवदनवरतमावर्तनमेषामिति मत्वा विशिनष्टि -

इतरेति ।

अविद्यादीनां सत्त्वमेव कथमित्याशङ्क्य सङ्क्षेपविस्तराभ्यामुक्तत्वात्तद्रूपं सौगतानां प्रसिद्धमित्याह -

सौगत इति ।

न केवलं तेषामेव प्रसिद्धं किन्तु सर्ववादिनामपीत्याह -

सर्वेषामिति ।

आनुभविकार्थप्रत्याख्याने सर्वव्यवहारासिद्धिरितिभावः ।

अविद्यादीनां मिथो निमित्तनैमित्तिकत्वेऽपि कुतः सङ्घातसिद्धिरित्याशङ्कयोपसंहरति -

तदेवमिति ।

अविद्यादिरेव सङ्घाताभावे न सिध्यतीत्यनुपपत्त्या तदाक्षेपे तदाश्रयः सर्वव्यवहारो निर्वहतीत्यर्थः ।

सिद्धान्तभागमवतारयति -

तन्नेति ।

तत्र प्रश्नपूर्वकं हेतुमाह -

कस्मादिति ।

हेतुं व्याचष्टे -

भवेदिति ।

अविद्यादीनां मिथो निमित्तनैमित्तिकभावभाजां सङ्घातनिमित्तत्वमाशङ्क्याह -

यत इति ।

उत्तरसूत्रस्थमर्थमभिप्रेत्येहापिशब्दः ।

अविद्यादीनां मिथो हेतुहेतुमत्त्वेऽपि चेतनाधिष्ठानादृते सङ्घातासिद्धिरित्युक्ते पूर्ववादी पूर्वोक्तं स्मारयति -

नन्विति ।

किमविद्यादयः सङ्घातस्य गमकाः किं वोत्पादका इति विकल्पयति -

अत्रेति ।

तत्राद्यमनूद्य दूषयति -

यदीति ।

गमकत्वपक्षे स्वरूपसिद्धिरन्यतो वाच्या तच्चान्यन्नास्तीत्यर्थः ।

अणूनां स्कन्धानां चोभयविधसङ्घातनिमित्तत्वमाशङ्क्याह -

तच्चेति ।

आश्रयाश्रयिभूतेष्विति भोक्तृविशेषणम् । अदृष्टाश्रयेष्वित्यर्थः । अणुषु स्थिरेषु भोगहेत्वदृष्टविशिष्टेषु भोक्तृषु चोक्तविशेषणेषु स्वीकृतेषु सत्सु चेतनस्याधिष्ठातुरनुरूपस्याभावान्न सम्भवति सङ्घातापत्तेर्निमित्तं किञ्चिदित्युक्तमित्यर्थः ।

कैमुतिकन्यायमपिना सूचितमाह -

किमिति ।

अदृष्टाश्रयकर्तृराहित्यमाह -

आश्रयेति ।

आश्रयाश्रयिशून्येष्विति पाठे तूपकार्योपकारकत्ववर्जितेष्वित्यर्थः ।

विशिष्टेष्वणुषु स्वीक्राणेषु किं पुनः सङ्घातापत्तेर्निमित्तं, न किञ्चिदित्याक्षेपः । द्वितीयं शङ्कयति -

अथेति ।

परस्पराश्रयत्वेन प्रत्याह -

कथमिति ।

पूर्वपूर्वसङ्घातानामुत्तरोत्तरसङ्घातहेतुत्वात्तदाश्रयत्वाच्चाविद्यादीनां नान्योन्याश्रयत्वम् ।

नच संहन्तृचेतनापेक्षा, स्वभावतो भावानां संहतानामेवोदयव्ययोपगमादित्याह -

अथेति ।

तद्दूषयितुं विकल्पयति -

तदापीति ।

सङ्घातवर्तिनोऽदृष्टस्याधिष्ठातृचेतनाभावात्तद्वशात्प्रतिनियतकार्योत्पादायोगे स्वभावादेवोत्पत्तिरास्थेया । तथाच पूर्यते गलति चेति पुद्गलं शरीरं, तच्च मनुष्यशब्दितं, तदुपेतः सङ्घातो नियमपक्षे न जात्यन्तरभाग्भवेदित्याह -

नियमेति ।

द्वितीयेऽपि व्यवस्थापकाभावेनाव्यवस्थामाह -

अनियमेति ।

उभयत्रेष्टापत्तिं शङ्कित्वा निरस्यति -

उभयमिति ।

भोगापवर्गव्यवहारानुपपत्तेश्चेत्याह -

अपि चेति ।

क्षणवादेऽपि बुभुक्षुणा भोगो मुमुक्षुणा मोक्षश्चार्थनीयौ, तत्कुतो भोगापवर्गव्यवहारासिद्धिः, तत्राह -

यदिति ।

अभ्युपगमफलमाह -

ततश्चेति ।

भोगे दर्शितं न्यायं मोक्षेऽतिदिशति -

तथेति ।

विपक्षे दण्डमाह -

अन्येनेति ।

बुभुक्षोर्मुमुक्षोर्वा कालद्वयस्थायित्वमाशङ्क्याह -

अवस्थायित्व इति ।

परिहारभागतात्पर्यमुपसंहरति -

तस्मादिति ॥ १९ ॥