पूर्वसूत्रोक्तमनूद्यास्य सूत्रस्य तात्पर्यमाह -
उक्तमिति ।
अविद्यादीनां मिथो हेतुत्वमुपेत्य सङ्घातासिद्धिरुक्ता, संप्रत्यन्योन्यहेतुत्वमपि नेति वक्तुमिदं सूत्रमित्यर्थः ।
अविद्यादीनामन्योन्यनिमित्तत्वायोगं वक्तुं परपक्षमनुवदति -
क्षणेति ।
तत्रानुपपत्तिं प्रतिजानीते -
न चेति ।
काऽत्रानुपपत्तिरित्याशङ्क्य पूर्वक्षणस्योत्पादनव्यापारः समनन्तरक्षणे वा स्वसत्ताक्षणे वेति विकल्प्याद्यं प्रत्याह -
निरुध्यमानस्येति ।
अचिरनिरुद्धत्वं निरुध्यमानत्वम् । निरोधहेतुसांनिध्यानुगमान्निरुद्धत्वं चिरनिरुद्धत्वम् ।
कल्पान्तरमुत्थापयति -
अथेति ।
स्थायित्वं व्यवच्छिनत्ति -
परिनिष्पन्नेति ।
कारणस्य कार्यात्पूर्वकाले सत्ताऽर्थवती न कार्यकाले । तदा कार्यस्य सिद्धत्वेन तदर्थसत्तानुपयोगत्वादिति भावः ।
तत्रापि कार्यकारणत्वासिद्धिरित्याह -
तथापीति ।
कथं कारणस्योत्पादनं धर्मः स्वरूपं वा । नाद्य इत्याह -
भावेति ।
कल्पान्तरमाह -
अथेति ।
तत्रापि हेतुफलत्वस्य न सम्भावनेत्याह -
तथापीति ।
कथं हेतुस्वरूपं कार्यानन्वयि तदन्वयि वा । तत्र प्रथमं प्रत्याह -
हेत्विति ।
तदनुपरागेऽपि तद्भावे हिमवद्विन्ध्ययोरपि तद्भावः स्यादिति भावः ।
कल्पान्तरं दूषयति -
स्वभावेति ।
प्रथमपक्षोक्तदोषं प्रपञ्चयति -
विनैवेति ।
न च कार्यस्य कारणसादृश्यं तन्निवारकं, किञ्चिद्रूपानुगमभावे तस्यैवासम्भवादिति भावः ।
इतश्च क्षणवादसिद्धिरित्याह -
अपि चेति ।
तदेव वक्तुमुत्पादनिरोधौ त्रेधा विकल्पयति -
उत्पादेति ।
पक्षत्रयेऽपि वस्तुनो नित्यत्वप्रसङ्गान्न क्षणिकतेत्याह -
सर्वथेति ।
तत्राद्यमनूद्य वस्तुनो नित्यत्वं प्रसञ्जयन्क्षणिकत्वासिद्धिमाह -
यदीति ।
द्वितीयेऽपि क्षणिकत्वासिद्धितादवस्थ्यमाह -
अथेत्यादिना ।
तमेव विशेषं दर्शयति -
उत्पादेति ।
तृतीयमनूद्य क्षणिकत्वासिद्धिं स्फुटयति -
अथेति ।
प्रकारान्तरमाशङ्क्य प्रत्याह -
यदीति ।
उत्पादनिरोधयोर्दुर्निरूपत्वे फलमाह -
तस्मादिति ।
सङ्घातस्य हेतुफलत्वस्य चासिद्धिरपिशब्दार्थः ॥ २० ॥