ब्रह्मसूत्रभाष्यम्
द्वितीयोऽध्यायःद्वितीयः पादः
न्यायनिर्णयव्याख्या
 
अनुस्मृतेश्च ॥ २५ ॥
अपि वैनाशिकः सर्वस्य वस्तुनः क्षणिकतामभ्युपयन् उपलब्धुरपि क्षणिकतामभ्युपेयात् सा सम्भवति; अनुस्मृतेःअनुभवम् उपलब्धिमनूत्पद्यमानं स्मरणमेव अनुस्मृतिःसा चोपलब्ध्येककर्तृका सती सम्भवति, पुरुषान्तरोपलब्धिविषये पुरुषान्तरस्य स्मृत्यदर्शनात्कथं हिअहमदोऽद्राक्षम्इदं पश्यामिइति पूर्वोत्तरदर्शिन्येकस्मिन्नसति प्रत्ययः स्यात्अपि दर्शनस्मरणयोः कर्तर्येकस्मिन्प्रत्यक्षः प्रत्यभिज्ञाप्रत्ययः सर्वस्य लोकस्य प्रसिद्धः — ‘अहमदोऽद्राक्षम्इदं पश्यामिइतियदि हि तयोर्भिन्नः कर्ता स्यात् , ततःअहं स्मरामिअद्राक्षीदन्यःइति प्रतीयात्; त्वेवं प्रत्येति कश्चित्यत्रैवं प्रत्ययस्तत्र दर्शनस्मरणयोर्भिन्नमेव कर्तारं सर्वलोकोऽवगच्छति — ‘स्मराम्यहम्असावदोऽद्राक्षीत्इतिइह तुअहमदोऽद्राक्षम्इति दर्शनस्मरणयोर्वैनाशिकोऽप्यात्मानमेवैकं कर्तारमवगच्छति; नाहम्इत्यात्मनो दर्शनं निर्वृत्तं निह्नुतेयथा अग्निरनुष्णोऽप्रकाश इति वातत्रैवं सत्येकस्य दर्शनस्मरणलक्षणक्षणद्वयसम्बन्धे क्षणिकत्वाभ्युपगमहानिरपरिहार्या वैनाशिकस्य स्यात्तथा अनन्तरामनन्तरामात्मन एव प्रतिपत्तिं प्रत्यभिजानन्नेककर्तृकाम् उत्तमादुच्छ्वासात् , अतीताश्च प्रतिपत्तीः जन्मन आत्मैककर्तृकाः प्रतिसन्दधानः, कथं क्षणभङ्गवादी वैनाशिको नापत्रपेत ? यदि ब्रूयात् सादृश्यादेतत्सम्पत्स्यत इति, तं प्रतिब्रूयात्तेनेदं सदृशमिति द्वयायत्तत्वात्सादृश्यस्य, क्षणभङ्गवादिनः सदृशयोर्द्वयोर्वस्तुनोर्ग्रहीतुरेकस्याभावात् , सादृश्यनिमित्तं प्रतिसन्धानमिति मिथ्याप्रलाप एव स्यात्स्याच्चेत्पूर्वोत्तरयोः क्षणयोः सादृश्यस्य ग्रहीतैकः, तथा सत्येकस्य क्षणद्वयावस्थानात्क्षणिकत्वप्रतिज्ञा पीड्येत । ‘तेनेदं सदृशम्इति प्रत्ययान्तरमेवेदम् , पूर्वोत्तरक्षणद्वयग्रहणनिमित्तमिति चेत् , ; तेन इदम् इति भिन्नपदार्थोपादानात्प्रत्ययान्तरमेव चेत्सादृश्यविषयं स्यात् , ‘तेनेदं सदृशम्इति वाक्यप्रयोगोऽनर्थकः स्यात् , सादृश्यम् इत्येव प्रयोगः प्राप्नुयात्यदा हि लोकप्रसिद्धः पदार्थः परीक्षकैर्न परिगृह्यते, तदा स्वपक्षसिद्धिः परपक्षदोषो वा उभयमप्युच्यमानं परीक्षकाणामात्मनश्च यथार्थत्वेन बुद्धिसन्तानमारोहतिएवमेवैषोऽर्थः इति निश्चितं यत् , तदेव वक्तव्यम्ततोऽन्यदुच्यमानं बहुप्रलापित्वमात्मनः केवलं प्रख्यापयेत् चायं सादृश्यात्संव्यवहारो युक्तः; तद्भावावगमात् , तत्सदृशभावानवगमाच्चभवेदपि कदाचिद्बाह्यवस्तुनि विप्रलम्भसम्भवात्तदेवेदं स्यात् , तत्सदृशं वाइति सन्देहःउपलब्धरि तु सन्देहोऽपि कदाचिद्भवति — ‘ एवाहं स्यां तत्सदृशो वाइति, ‘ एवाहं पूर्वेद्युरद्राक्षं एवाहमद्य स्मरामिइति निश्चिततद्भावोपलम्भात्तस्मादप्यनुपपन्नो वैनाशिकसमयः ॥ २५ ॥

सूत्रस्य वैनाशिकदर्शनानुपपत्तौ हेत्वन्तरपरत्वमाह -

अपि चेति ।

तदेव वक्तुं परस्यावश्याश्रयणीयमर्थमाह -

वैनाशिक इति ।

इष्टापत्तिमाशङ्क्याह -

न चेति ।

उपलब्धुर्न क्षणिकता युक्तेत्यत्र हेतुमुक्त्वा व्याकरोति -

अन्विति ।

अनुशब्दस्य व्यवच्छेद्याभावेऽपि स्मृत्युपलब्ध्योरेककर्तृकत्वार्थं विशेषणमित्याह -

सा चेति ।

न केवलमुपलब्धिस्मृत्योरेवैककर्तृकत्वम् , उपलब्ध्योरपीत्याह -

कथमिति ।

यस्तु सत्यपि भेदे सन्तानैक्यं स्मृतिप्रयोजकमिच्छति, तं प्रत्याह -

अपि चेति ।

पूर्वोत्तरप्रत्ययकर्तृभेदेऽपि सन्तानैक्यादेवंविधा धीरित्याशङ्क्याह -

यदि हीति ।

कर्तृभेदे स्मराम्यहमन्योऽद्राक्षीदिति लोकस्य धीः स्यादित्यर्थः ।

ईदृश्येव धीरित्याशङ्क्याह -

न त्विति ।

क्वचित्तादृश्या धियोऽनुभवसिद्धत्वमाशङ्क्याह -

यत्रेति ।

कर्तृभेदावगतिमुदाहरति -

स्मरामीति ।

क्वचित्तयोर्विभिन्नकर्तृकत्वे दृष्टिस्मृतित्वाविशेषादहमदोऽद्राक्षमित्यत्रापि तयोर्भिन्नकर्तृकत्वमनुमेयमित्याशङ्क्यानुभवविरोधमाह -

इहेति ।

अवगतिमनवगतिव्युदासेन स्फोरयति -

न नेति ।

यदात्मनो दर्शनं पूर्वं निर्वृत्तं तदहं नाद्राक्षमिति न निह्नुते किं त्वनुमन्यते परोऽपीत्यर्थः ।

प्रत्यक्षविरोधादनुमानानुदये दृष्टान्तमाह -

यथेति ।

एतद्धटस्मर्तैतद्धटानुभवितैतद्धटज्ञातृत्वात्सम्प्रतिपन्नव्यक्तिवदिति मत्वा फलितमाह -

तत्रेति ।

दर्शने स्मरणे चोक्तरीत्या कर्त्रैक्ये सतीति यावत् ।

दृष्टिस्मृतिक्षणद्वयवर्तित्वमेकस्यास्माभिरिष्यते, क्षणिकत्वं त्वाशुतरविनाशित्वादित्याशङ्क्याह -

तथेति ।

स्वरसभङ्गुंरत्ववदाशुतरविनाशित्वमपि भावानां प्रत्यभिज्ञाविरुद्धमित्यर्थः ।

विरोधमेव स्फोरयति -

अनन्तरामिति ।

वर्तमानदशामारभ्योत्तमादुच्छ्वासादामरणादनन्तरां स्वस्यैव प्रतिपत्तिमात्मैककर्तृकां प्रत्यभिजानन् जन्मनश्च वर्तमानदशापर्यन्तमतीताः प्रतीपत्तीः स्वकीयाः स्वमात्रकर्तृकाः प्रतिसन्दधानः सन्निति योजना ।

आत्मनि प्रत्यभिज्ञानं ज्वालादाविव सादृश्यकृता भ्रान्तिरिति शङ्कते -

स इति ।

एकस्य पूर्वोत्तरक्षणद्वयतत्सादृश्यदृशोऽसत्त्वं सत्त्वं वेति विकल्पयति -

तमिति ।

असत्त्वं प्रत्याह -

तेनेति ।

सत्त्वमनूद्य निराह -

स्याच्चेदिति ।

तेनेदं सदृशमित्ययं विकल्पप्रत्ययः, स च स्वाकारं बाह्यतयाऽध्यस्यति, तत्त्वतस्तु पूर्वापरौ क्षणौ तयोः सादृश्यं वा न गृह्णाति, तत्कथमेकस्य द्रष्टुः स्थायितेति शङ्कते -

तेनेति ।

वस्तुद्वयप्रत्ययादन्यत्वधिया सादृश्यप्रत्ययस्यान्तरशब्दः । तथापि तत्र वस्तुद्वयप्रत्ययस्य निमित्तत्वादेकेन क्षणत्रयस्थायिना भाव्यमित्याह -

नेति ।

तेनेदं सदृशमिति ज्ञाने तत्तेदन्तावच्छिन्नावर्थौ तयोः सादृश्यं च किं न भासते । भासमाना वा विज्ञानस्याकारास्तस्माज्ज्ञानाद्भिन्ना न वा । ज्ञानाकारत्वे ज्ञानमेकमनेकं वा । तत्राद्ये स्वसंवेदनविरोधः स्यादित्याह -

तेनेति ।

भासमानानां त्रयाणां ज्ञानाकारत्वे तस्य चैक्ये व्याघातः, एकस्यानेकाकारत्वायोगात् , आकारभेदे च तद्भेदात् । नच ज्ञानानेकत्वम् , एकज्ञानेन हि नानापदार्थोल्लेखे नानेत्युल्लेखो न ज्ञानभेदः । परिशेषाज्ज्ञानाद्भिन्नोऽर्थस्तस्य च नानाकारस्य तत्तेदन्तास्पदस्य तत्सादृश्यस्य च परामर्शः स्थायिन्यात्मनि सति स्यादिति मत्वोक्तमेव व्यनक्ति -

प्रत्ययान्तरमिति ।

ननु नार्थस्य ज्ञाने भानमवजानीमहे, येन प्रतीतिं विरुध्येमहि, किन्तु सोऽर्थः प्रतीतावारोपितो न बहिरस्ति । न च प्रतीतितावन्मात्रे, अर्थस्य ज्ञानेऽध्यस्तत्वात् , ततश्च न ज्ञानस्यैकस्य नानार्थाकारत्वकृतो व्याघातः, न च बाह्यर्थावगमः, तत्राह -

यदेति ।

कल्पितोऽपि विज्ञानेऽर्थाकारस्तस्माद्भिन्नोऽभिन्नो वेति वक्तव्यम् , अनिर्वाच्यत्वानङ्गीकारात् । भिन्नत्वे ज्ञानान्तरवदकल्पितत्वम् । तथाच तेनेदमिति सदृशमिति च भातानामर्थानामेकज्ञानाभेदोपगमे मिथोऽप्यभेदः स्यात् , ततश्चान्योन्यभेदेन पदार्था लोकसिद्धा निह्नूयेरन् । ज्ञानाच्च ज्ञेयस्य भेदः प्रसिद्धः सोऽपि निह्नूयेत, तदपह्नवे च स्वपक्षसाधनपरपक्षाक्षेपासिद्धिः । विकल्पप्रतिभासिनां नित्यत्वादीनामेकार्थनिष्ठत्वाभावादेकाधिकरणविप्रतिषिद्धधर्मद्वयोपगमरूपविप्रतिपत्तेरसम्भवादिति भावः ।

तत्तेदन्तादिरर्थो ज्ञानस्यान्तर आकार इति मतं बाह्यार्थवाददूषणमध्येऽपि प्रसङ्गादाशङ्क्य निरस्तम् । इदानीमस्ति बाह्योऽर्थः, स तु क्षणिको निर्विकल्पके चकास्ति । सविकल्पकप्रत्ययास्तु विकल्पास्तद्गतसादृश्याद्याकारेण निर्भासन्ते, तेन विप्रतिपत्त्यादिव्यवहारसिद्धिरिति बाह्यार्थवादमाशङ्क्य निरस्यति -

एवमिति ।

न हि बाह्यस्यार्थस्य क्षणिकत्वं, प्रमाणाभावात् । न तावत्प्रत्यक्षं वर्तमानमर्थमवगाहमानं तस्यावर्तमानव्यावृत्तिं गमयति । तद्धि वर्तमानताविशिष्टस्य तदैवान्यव्यावृत्तिं गमयेदन्यदा वा । प्रथमे नास्मत्पक्षक्षतिः, एकस्यापर्यायेणानेककालकलितत्वानभ्युपगमात् । न द्वितीयः, विरोधमन्तरेण कालान्तरीयसत्त्वव्यवच्छेदकत्वानुपपत्तेः । नापि यत्सत्तत्क्षणिकं, यथा दीपः सन्तश्च भावा इत्यनुमानं क्षणिकत्वसाधकं, दृष्टान्तस्य साध्यविकलत्वात् । तस्य नाशित्वेऽपि विवक्षितक्षणिकत्वाभावात् । तस्मादनिश्चितार्थवादिनो विप्रलम्भकत्वान्न प्रतिवादितेत्यर्थः ।

आत्मनि प्रत्यभिज्ञा सादृश्यादित्यत्र हेत्वन्तरमाह -

न चेति ।

प्रत्यभिज्ञाया विपर्यासाख्यमप्रामाण्यं निरस्य संशयाख्यमपि तन्निरस्यति -

भवेदिति ।

संशयसामग्रीसत्त्वावस्था कदाचिदित्युक्ता । सम्भवो नानाकारत्वोपपत्तिः । सन्देहोऽपीत्यपिना विपर्यासो दृष्टान्तितः । तत्र सन्देहायोगे हेतुमाह -

य इति ।

प्रत्यभिज्ञयात्मनः स्थायित्वे फलितमाह -

तस्मादिति ॥ २५ ॥